________________
शेषसमासाः ।
१११
शदादौ वा* ) द्वाचत्वारिंशत् द्विचत्वारिंशत् । अनशीति बहुव्रीहाविति किम् । व्यशीतिः द्वित्राः । (अन्यादोन्तोऽर्थादिषु वा* ) अन्यदर्थः अन्यार्थः । परस्पराऽन्योन्येतरेतरस्याम् स्यादेव पुंसि ॥ ८३ ॥
एषामपुंसि स्यादेराम् वा स्यात् । स्त्रियौ कुले वा परस्परां परस्परं भोजयतः । स्त्रीभिः कुलैर्वा परस्परां परस्परेण भोज्यते । पुंसि तु नराः परस्परं पश्यन्ति । त्रयोप्यमी क्रियाव्यतिहारविषया एकत्वपुंस्त्ववृत्तय इत एव सूत्रनिर्देशात्साधवः । एवमेकैको द्वन्द्वमित्यादि । समासे क्वचित्स्यादीनामलुपू स्यात् । (ननाम्येकस्वरात्खित्युत्तरपदेऽमः ) स्त्रीं स्त्रियं वात्मानं मन्यते स्त्रींमन्यः स्त्रियंमन्यः । (ओजोऽञ्जः सहोऽम्भस्तमस्तपसष्ट ) ओजसाकृतम् । (आत्मनः पूरणे ) आत्मना चतुर्थः । ( परात्मभ्यां ङेः नाम्नि ) परस्मैपदम् । आत्मनेपदम् । (असत्त्वे उसेः ) स्तोकान्मुक्तः । (षष्ठ्याः क्षेपे ) चौरस्य कुलम् । (पुत्रे वा*) दास्याःपुत्रः दासीपुत्रः । ( पश्यद्वागूदिशो हरयुक्तिदण्डे ) पश्यतोहरः । ( अदसोऽकञायनणो ) अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । अमुष्यापत्यमामुष्यायणः । देवानांप्रिय इत्यादि । ( अव्यञ्जनात्सप्तम्या बहुलं नाम्नि * ) अरण्येतिलकाः । युधिष्ठिरः ( अमूर्द्धमस्तकात्स्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org