SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 1. 16. व्यञ्जनान्ता नपुंसकलिङ्गाः। ॐ असृक् । जगत् जगद् । जगती । जगन्ति । महत् । महती। स्महतोरिति दीर्थे । महान्ति । (यकृत्शकृतोः शसादौ वा यकन्शकन्नादेशे)। यका यकृता । यकभ्याम् यकृझ्याम् । शका शकृता । शकभ्याम् शकृद्भ्याम् । त्यदादीनामनतोलुबिति सिलुप् त्यद् । द्विवचनादौ अत्वे त्ये। त्यानि । सर्ववत् । एवं तद्यदादयः। अहनशब्दख अह्न इति रुत्वे । अहः २। ईडने वा । अही अहनी २। अहानि । अह्ना । अहोभ्याम् ३। अहस्सु । हे अहः । ब्रह्मन्शब्दस्य नानो नोऽनह्नः इति नलुपि । ब्रह्म । ब्रह्मणी । ब्रह्माणि । ब्रह्मणा । क्लीबे वा ॥१॥ ' आमन्न्यस्य नाम्नो नस्य क्लीबे लुग् वा स्यात् । हे ब्रह्मन् हे ब्रह्म । इदम् । इमे । इमानि । किम् । के । कानि। चतुरः शौ । चत्वारि । पयः। पयसी। पयांसि । पयसा । पयोभ्याम् । हे पयः । एवं वच:प्रभृतयः । अदः । द्विवचने । अमे इति जाते । मादुवर्णोऽनु । अमू । अमूनि । शेषं पुंवत् । काष्ठतडू काष्ठतट् । काष्ठतक्षी । काष्ठतङ्क्षि। इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणि विरचितायां हैमलघुप्रक्रियायां व्यञ्जनान्ता नपुंसकलिङ्गाः। [इति षट्तिशमन समाप्तानि ]. ... .: : Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy