________________
१७४ हैमलघुप्रक्रियाव्याकरणे स्यन्दिता-स्यन्ता स्यन्दितासे-स्यन्तासे ८ । स्यन्दिष्यते-स्यन्त्स्यते स्यन्त्स्यति ९ । अस्यन्दिष्यत-अ. स्यन्त्स्यत अस्यन्त्स्यत् १०। निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥ १२१ ॥ - एभ्यः परिनिविभ्यश्च परस्याप्राणिकर्तृकस्य स्यन्दः सः पूवा स्यात् । अनुष्यन्दते अनुस्यन्दते जलम् । अप्राणिनीति किम् । अनुस्यन्दते हस्ती। वृधू वृद्धौ । शृधू शब्दकुत्सायाम् । एतौ वृतिवत् । कृपौङ् सामर्थे । ऋरलुलं कृपोऽकृपीटादिषु ॥ १२२ ॥
कृपेक्रतो रस्य च लल् स्यात् नतु कृपीटादिविषयस्य । कल्पते ४ । बुद्भ्योऽद्यतन्यामित्यात्मनेपदविकल्पे धूगौदित इतीविकल्पे च अकल्पिष्ट । पक्षे
सिजाशिषावात्मने ॥ १२३ ॥ नामिन्युपान्त्ये सति धातोनिरटावात्मनेपदविषयौ सिजाशिषौ किद्वत्स्याताम् । अक्लुप्त । पक्षे अक्लपत् ५। चक्लुपे । चक्लूपिषे-चक्लुप्से इत्यादि ६ । कल्पिपीष्ट-क्लप्सीष्ट ।
कृपः श्वस्तन्याम् ॥ १२४ ॥ कृपेः श्वस्तन्यामात्मनेपदं वा स्यात् । कल्पिता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org