SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया। २८५ प्यात्कर्मभावे कृत्यक्तखलाश्चेति वचनात् क्तः कर्मणि भावे च । क्रियते स्म कृतः कटश्चैत्रेण । स्थितं चैत्रेण । क्तवतुश्च कर्तरि । करोति स्म कृतवान् कटं चैत्रः। स्थितवांश्चैत्रः। श्लिषशीस्थासवसजनरुहजृ भजेः क्तः ॥६५॥ एभ्यो नवभ्यः कर्तरि को वा स्यात् । आश्लिष्टः कान्तां चैत्रः। आश्लिष्टा कान्ता चैत्रेण । अतिश. यितो गुरु शिष्यः । अतिशयितो गुरुः शिष्येण । उपस्थितो गुरुं शिष्यः । उपस्थितो गुरुः शिष्येण । उपासितो गुरुं सः । उपासितो गुरुस्तेन । अनूपितो गुरुं सः । अनूषितो गुरुस्तेन । अनुजातः तं सः। अनुजातः स तेन । आरूढोऽश्वं सः। आरूढोऽश्वस्तेन । अनुजीर्णस्तं सः। अनुजीर्ण: स तेन । विभक्ताः स्खं ते । विभक व र आरम्भे ॥६६॥ आरम्भार्थाद्धातोः कर्तरि को वा स्यात् । प्रकृताः कटं ते । प्रकृतः कटस्तैः। गत्यर्थाऽकर्मकपिबभुजेः॥ ६७॥ एभ्यः कर्तरि तो वा स्यात् । गतोऽसौ ग्राम। गतो ग्रामस्तैः । आसितोऽसौ आसितं तैः । पीताः पयस्ते पीतं पयस्तैः । इदं भुक्तास्ते । इदं भुक्तं तैः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy