________________
भ्वादयः आत्मनेपदिनः। १८३ क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो
हृवहश्चानन्योऽन्यार्थे ॥ १२ ॥ अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणं क्रियाव्यतिहारः तदर्थाद्गतिहिंसाशब्दार्थहस्वर्जाद्धातोर्हवहिभ्यां चात्मनेपदं स्यात् । व्यतिहरन्ते व्यतिवहन्ते भारम् । गत्यर्थादिवर्जनं किम् । व्यतिसर्पन्ति, व्यतिहिंसन्ति, व्यतिजल्पन्ति,व्यतिहसन्ति । (परस्परान्योन्येतरेतरयोगे च न*)। परस्परस्य व्यतिलुनन्ति । नाङ उपतापैश्वर्याशीष्षु च।
__ आशिषि नाथः ॥ १५३ ॥ आशीरादेव नाथ आत्मनेपदं स्यात् ।
नाथः ॥ १५४॥ आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात्। सर्पिषो नाथते ४ । अनाथिष्टेत्यादि । अनाशिषितु “नाथन्ति के नाम न लोकनाथम्"।
परावेर्जेः ॥ १५५॥ आभ्यां पराजयतेरात्मनेपदं स्यात् । पराजयते विजयते ४ । व्यजेष्ट ५। विजिग्ये ६ । विजेषीष्ट ७ । विजेता ८ । विजेष्यते ९ । व्यजेष्यत १०।
इति भ्वादय आत्मनेपदिनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org