________________
AMRAP
AL
भावकर्मणोः प्रक्रिया। २७३ वृद्धिर्न स्यात् । अशमीति निषेधे अकामि । (विश्रमेर्वा*) व्यश्रामि-व्यश्रमि। ..
मिणमोर्वा ॥ ८॥ लभः स्वरान्नोन्तो वा स्यात् नौ रुणमि च । अलाभि-अलम्भि । भञ्जनौं वा लोपः स्यात् । अभाजि-अभञ्जि । भावो धात्वर्थस्तस्यैकत्वादात्मनेपदैकवचनम् । चैत्रेण भूयते १०॥
लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदीत्यर्था
धातव एते कर्मविमुक्ताः ॥१॥ अविवक्षितकर्मकोऽप्यकर्मक एव । पच्यते १० । अकर्मकोप्युपसर्गवशात् सकर्मतामेति । अनुभूयते सुखं साधुना । अन्वभावि अन्वभविषाताम्-अन्वभाविषाताम् ५। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये ॥९॥
एकस्मिन्धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना संप्रत्यकर्मिका क्रिया यस्य तस्मिन्कर्तरि कर्मकर्तृरूपे धातोर्जिक्यात्मनेपदानि स्युः। उक्तं च। यत्र कर्मैव कर्तृत्वं याति कर्ता तु नोच्यते । जिक्यात्मनेपदं धातोरुक्तिः सा कर्मकर्तरि २।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org