________________
हैमलघुप्रक्रियाव्याकरणे
व्याधिवचेरिति पूर्वस्य इत्वे, जिज्यौ ६ । जीयात् ७ । ज्याता ८ । ज्यास्यति ९ । बन्धंश् बन्धने । बध्नाति बधान ४ । अभान्त्सीत् ५ । बबन्ध ६ । बध्यात् ७ । बन्द्धा ८ । भन्त्स्यति ९ । अशशु भोजने । अश्नाति अशान ४ । आशीत् ५ । आश ६ । अश्यात् ७ । अशिता ८ । मुषश् स्तेये । मुष्णाति मुषाण ४ । अमोषीत् ५। मुमोच ६ । मुष्यात् ७ । मोषिता ८ । एवं पुषश पुष्टौ । पुष्णाति १० । इत्यादि । ज्ञांश अवबोधने । जाज्ञाजनोऽत्यादौ । जानाति ४ । अज्ञासीत् ५ । जज्ञौ ६ । ज्ञायात्- ज्ञेयात् ७ । ज्ञाता ८ । ज्ञास्यति ९ । अज्ञास्यत् १० । ज्ञोऽकर्मकत्वे आत्मनेपदम् । जानीते |
२४४
इति परस्मैपदिनः ।
।
इति महोपाध्यायश्रीकीर्त्तिविजयगणिशिष्योपाध्यायश्री विनयविजयगणिविरचितायां हैंमलघुप्रक्रियायां त्र्यादयः समाप्ताः ।
अथ स्वार्थिकप्रत्ययान्ताः । गुपौधूपविच्छिपणिपनेरायः ॥ १ ॥
एभ्यः पञ्चभ्यः स्वार्थे आयः प्रत्ययो भवति । गोपायति ४। धूपायति ४ । पणायति ४ । पनायति ४ । (कमेर्णिङ् * ) कामयते ४ । (ऋतेङयः * ) ऋतीयते ४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org