SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ भ्वादयः उभयपदिनः । यजादिवचेः किति ॥ १७४ ॥ यजादेर्वचेश्च संस्वरान्तस्था किति परे वृत् स्यात् । ततो द्वित्वे व्यञ्जनस्थानादेर्लुगिति जलकि, दीर्घे च ईजतुः ईजुः । वित्परोक्षायाः कित्त्वाभा - वात् इयजिथ । यजसृजेति षत्वे इयष्ठ ६ । इज्यात् ७ । यष्टा ८ । यक्ष्यति ९ । अयक्ष्यत् १० । यजते अयजत ४ । अयष्ट अयक्षाताम् ५। ईजे इंजिषे ६ । यक्षीष्ट ७ । वेंगू तन्तुसन्ताने । वयति वयेत् वयतु अवयत् ४ । आत्सन्ध्यक्षरस्येत्यात्वे । अवासीत् अवासिष्टाम् ५ । वेर्वय् ॥ १७५ ॥ वेगः परोक्षायां वयू वा स्यात् । उवाय । यजादिवचेः कितीति वृति द्वित्वे जय् इति भवति । न वयो यू ॥ १७६ ॥ वेगो वयो यः परोक्षायां य्वृन्न स्यात् । ऊयतुः ऊयुः । यजादिवशवच इत्यादिना पूर्वस्य वृति उवयिथ । स्वरान्तत्वान्नित्यमिट् । ऊयथुः ऊय । उवाय-उवय ऊयिव ऊयिम | वयादेशाभावे तु । वेरयः ॥ १७७ ॥ वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां वृन्न स्यात् । वव ववतुः ववुः । Jain Education International १८९ • For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy