________________
१९० हैमलघुप्रक्रियाव्याकरणे
अविति वा ॥ १७८ ॥ वेगोऽयकारान्तस्याविति परोक्षायां वृद्धा न स्यात् । द्वित्वे कृते परत्वाद्धातोरुवादेशे पश्चात् समानदीर्घः । ऊवतुः ऊवुः । ववाथ-वविथ ६ । स्वरान्तत्वादिविकल्पः । ऊयात् ७ । वाता ८ । वास्यति ९। अवास्यत् १०। आत्मनेपदेऽपि वयते ४। अवास्त ५। परीक्षायां क्यादेशे ऊये ऊयिषे । पक्षे ववे वविषे ६ । वासीष्ट छ। व्यग् संवरणे । संव्ययति ४ । अव्यासीत् ५। ज्याव्येव्यधिव्यचिव्यथेरिः॥ १७९ ॥
एषां पञ्चानां परोक्षायां द्वित्वे सति पूर्वस्य इ. स्यात् । यजादिवशिति वृद्धाधनार्थमिकारस्यापि इः । नामिनोऽकलिहलेरिति वृद्धौ आयादेशे च विव्याय । यज्ञादिवचेरिति वृति योऽनेकस्वरस्येति यत्वे च विव्यतुः विव्युः।
ऋवृव्येऽद इट् ॥ १८०॥ एभ्यश्चतुर्थ्यः परस्य थवो नित्यमिट् स्यात् । विव्ययिथ विव्याय विव्यय ६ । यजादिवचेः कितीति वृति वीयात् ७ । व्याता ८ । व्यास्यति ९। अव्यास्यत् १० । व्ययते ४ । अव्यास्त ५। विव्ये विव्यिषे ६ । व्यासीष्ट ७ । हेंग स्पर्धाशब्दयोः । आह्वयति ४।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org