________________
भ्वादयः परस्मैपदिनः।। १५५ अभुवः सिच्प्रत्ययान्ताद्विदश्च धातोः परस्थानः पुस् स्यात् । पकार इत् ।
इडेरपुसि चातो लक ॥४३॥ कित्यशिति स्वरे इटि एति पुसि च परे आदन्तस्य धातोरन्तस्य लुक् स्यात् । अपुः। अपा: अपातम् अपात । अपाम् अपाव अपाम. ५ ।
हृखः॥ ४४ ॥ द्वित्वे सति पूर्वस्य ह्रस्वः स्यात् ।
आतो णव औः ॥४५॥ आतः परस्य णव औः स्यात् ।। इन्ध्यसंयोगात्परोक्षा किद्वत् ॥ ४६॥
इन्धेरसंयोगान्ताच्च परा अवित्परोक्षा किद्वत्स्यादिति कित्त्वादिडेत्पुसीत्याल्लुक । पपौ पपतुः
पपुः।
सृजिदृशिस्कृखरात्वतस्तृनित्या- निटस्थवः ॥४७॥ सृजिदृशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृजिनित्यानिटो विहितस्य थव आदिरिडा स्यात् । पपाथ पपिथ पपथुः पप । पपौ पपिव पपिम ६।
गापास्थासादामाहाकः ॥४८॥ एषां वित्याशिष्यः स्यात् । पेयात् पेयास्ताम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org