SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तद्धितेष्वपत्यत्वाधिकारः । भूर्लुक्चेवर्णस्य ॥ ८६ ॥ बहोरीयसाविनि च भूः स्याल्लुक् चानयोरि वर्णस्य । भूमा । स्थूलदूरयुवह्नस्त्रक्षिप्रक्षुद्रस्यान्तस्था देर्गुणश्च नामिनः ॥ ८७ ॥ एषां पण्णामिनि ण्यादौ चान्तस्थादेरवयवस्य लुगू नामिनश्च गुणः । स्थविमा २ दविमा इसिमा २ क्षेपिमा २ क्षोदिमा २ । वर्णदृढादिभ्यष्ट्यण् च वा ॥ ८८ ॥ वर्णविशेषेभ्यो दृढादिभ्यश्च भावे व्य‍ इमन् च वा । शौक्ल्यं शुक्लिमा २ | दायै द्रढिमा २ | पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥ ८९ ॥ १३१ पत्यन्तेभ्यो राजान्तेभ्यो गुणः प्रवृत्तिनिमितं येषां तेभ्यो राजादिभ्यश्च भावे कर्मणि च व्य‍ स्यात् । अधिपतेर्भावः कर्म वा आधिपत्यम् २ आधिराज्यं २ मौढ्यं २ राज्यं २ काव्यं २ सौभाग्यं २ । भावे कर्मणि च इत्यनुवर्तनीयमधिकारात् । अर्हतस्तोन्त च ॥ ९० ॥ अस्मात् व्यण् तस्य न्तादेशः । आर्हन्त्यं २ | ( सहायाद्वा व्यण* ) साहाय्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy