________________
व्यञ्जनसन्धिः। ह्रस्वविधानसामर्थ्यादसन्धिः । इदमेव ह्रस्वस्यापि ह्रस्वविधाने फलम् । बाल ऋश्यः । बालयः॥
इखोऽपदे वा ॥ १०॥ इउऋलवर्णानामस्वे स्वरे परे ह्रस्वो वा स्यात्, न चेत्तौ निमित्तनिमित्तिनावेकत्र पदे स्याताम् । नदि एषा। मधु अत्र । एकपदे तु । नद्यौ ॥
(अ उ वर्णानां विरामेऽनुनासिको वास) साम । साम । दधि । दधि। इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजय
गणिविरचितायां हैमलघुप्रक्रियायां असन्धिः समाप्तः ।
"
अथ व्यञ्जनसन्धिः॥ वाक्-मह इति स्थिते ।
धुटस्तृतीयः॥१॥ पदान्ते धुटां स्वस्तृतीयः स्यात् । वाग् मह इति भवति ।
तृतीयस्य पञ्चमे ॥२॥ वेति पदान्त' इति अनुनासिक इति चानुवर्तते । एवमन्यत्राप्यपेक्षितं पदं सूत्रान्तरादनुवर्तनीयम् । पदान्तस्थस्य वर्गतृतीयस्य पञ्चमे परे स्वः पञ्चमो वा स्यात् । वाङमहः । वाग्महः।
(प्रत्यये च-प्रत्ययस्थे पञ्चमे परे च नित्यम्) वाग्-मयं वाङमयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org