________________
१९२ हैमलघुप्रक्रियाव्याकरणे उवपूथ ऊपथुः ऊप । उवाप-उवप ६ । उप्यात् ७। वप्ता ८ वप्स्यति ९ । अवप्स्यत् १० वपते ४ । अवप्त ५। ऊपे ऊपिषे ६ । वप्सीष्ट ७ । वहीं प्रापणे । वहति ४ । अवाक्षीत् ५ । सहिवहेरोच्चावर्णस्येति अवोढाम् अवाक्षुः ५ । उवाह उवहिथ । इडभावे पक्षे उवोढ ६ । उह्यात् ७। वोढा ८। वक्ष्यति ९ । अवक्ष्यत् १० । वहते ४ । अवोढ अवक्षाताम् अवक्षत ५। ऊहे ऊहिले ६वक्षीष्ट ७॥ (प्राद्वहः परस्मैपदमेव*) प्रवहति । (परेच*) परिवहति । ट्रोश्वि गतिवृद्ध्योः । श्वयति अश्वयत् ४ । धेश्वेर्वेति वैकल्पिके डे, द्विर्धातुरिति द्वित्वे, संयोगादितीयादेशे, अशिश्चियत् अशिश्वियताम् अशिश्चियन् । पक्षे ऋदिच्छीत्यादिना वैकल्पिके डि श्वयत्यसूवच इत्यादिना श्वादेशे च अश्वत् अश्वताम् अश्वन् । पक्षे सिजागमे इडागमे ईदागमे नश्वीति वृद्धिनिषेधे गुणे यादेशे सिज्लोपे अश्वयीत् अश्वयिष्टाम् अश्वयिषुः । अश्वयीः ५ ।
वा परोक्षा यङि ॥ १८६ ॥ श्वेः सस्वरान्तस्था परोक्षायडर्वृद्वा स्यात् । ततः शुशु इति द्वित्वे शुशाव शुशुवतुः शुशुवुः । शुशविथः पक्षे शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वयिथ ६ । यजादिवचेरिति वृति शूयात् शूयास्ताम् ७ । श्वयिता ८ । श्वयिष्यति ९ । अश्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org