SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ व्यंजनान्ताः पुल्लिङ्गाः । #t ऽन्तः स्यात् । दीर्घङन्याबिति सिलुकि, पदस्य संयोगान्तस्य लुक् स्यादिति चलुक् । युजञ्चकुचो नो ङः ॥ ३॥ एषां नस्य पदान्ते ङः स्यात् । प्रत्यङ् । तव - र्गस्य श्चवर्गेति, प्रत्यञ्चौ । प्रत्यञ्चः । संबोधनेऽप्येवम् । प्रत्यञ्चम् । प्रत्यचौ । अच्च् प्राग् दीर्घश्च ॥ ४ ॥ || 8 | णिक्यघुट्वर्जे यकारादौ स्वरादौ च प्रत्यये अचश्च इत्यादेशः स्यात्, पूर्वस्वरस्य च दीर्घः । प्रतीचः । प्रतीचा । प्रत्यग्भ्याम् । प्रत्यक्षु । प्राङ् । प्राञ्चौ । प्राञ्चः । हे प्राङ् । प्राचा । प्राग्भ्याम् । उदच उदीच् ॥ ५ ॥ णिक्यघुटुर्जे यकारादौ स्वरादौ च । उदङ् । उदचौ । उदश्चः । उदीचः । उदीचा । उदग्भ्याम् । सहसमः सघिसमि ॥ ६ ॥ क्विबन्तेऽञ्चतौ परे । सह अञ्चतीति सध्यङ् । सध्यञ्चौ | सध्यञ्चः । सधीचः । सधीचा । सममञ्चतीति, सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा । सम्यग्भ्याम् । तिरसस्तिर्यति ॥ ७ ॥ अकारादौ विबन्तेऽञ्चतौ परे तिरसस्तिरिः स्यात् । तिर्यङ् । तिर्यश्चौ । तिर्यञ्चः । अकारादाविति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy