________________
कृदन्तप्रक्रिया।
तुमश्च मनः कामे ॥ १३२॥ । तुमसमोर्मनसि कामे च परे म्लुप् स्यात् । भो. तुमना गन्तुकामः।
क्त्वातुमम् भावे ॥ १३३॥ - एते धात्वर्थमात्रे स्युः। शकधृषज्ञारभलभसहाईलाघटास्तिस
मार्थे च तुम् ॥ १३४ ॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताद्धातोस्तुम् स्यात् । श. नोति पारयति वा भोक्तुम् । इच्छति पठितुम् । समर्थो ग्रहीतुम् । कालवेलासमये तुम्वावसरे ॥ १३५॥
एषु निषूपपदेष्ववसरे गम्ये धातोस्तुम्वा स्यात् । कालो भोक्तुम् । वेला भोक्तुंम् । समयो भोक्तुम् । पक्षे कालो भोजनस्य ।
पदरुजविशस्पृशो घनू ॥ १३६ ॥ एभ्यश्चतुभ्यो घञ्। पद्यतेऽपादि पेदे वा पादः । एवं रोगः, वेशः, स्पर्शः। ....
भावाऽकोंः ॥ १३७॥ भावे कर्तृवर्जिते च कारके धातोर्घञ् स्यात् । पाकः । त्यागः । दायः। आयः। भावः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org