________________
तद्धितेष्वपत्यत्वाधिकारः। १३३ सर्वशब्दपूर्वेभ्य एभ्यः षड्भ्यो व्यामोतीत्यर्थे ईनः स्यात् । सर्वपथीनो रथः । सर्वाङ्गीणं शं । सर्वकर्मीणो ना । सर्वपत्रीणो यन्ता । सर्वपात्रीणं सर्वशरावीणं घृतम् । (अलङ्गामिन्यध्वनोऽमन्ताधेनौ वाच्यौ * ) अध्वन्यः अध्वनीनः । समांसमीनसाप्तपदीनादयः साधवः। (क्वचित्स्वार्थे ईनः*) अषडक्षीणो मन्त्रः । अलङ्कर्मीणोऽलंपुरुषीणो ना।
अदिस्त्रियां वाचः॥९४ ॥ ' अञ्चन्तात्स्वार्थे ईनो वा स्यात् । प्राचीनं प्राक् । प्राचीना प्राची शाखा । अदिस्त्रियामिति किम् । प्राची दिक् । तस्य तुल्ये कः संज्ञाप्रतिकृत्योः॥९५॥ षष्ठयन्तात्तुल्येर्थेऽनयोर्गम्ययोः कः स्यात् । अश्वकः । (शाखादेर्यः*) शाख्यः । मुख्यः । (कुशाग्रादीयः*) कुशाग्रीया मतिः । काकतालीयादयस्तुल्ये साधवः । (विप्रभृतिभ्यः शालशंकटादयः*) विशालं विशंकटम् । तदस्य सञ्जातं तारकादिभ्य इतः ॥ ९६ ॥
एभ्यः सञ्जातार्थेभ्यः षष्ठ्यर्थे इतः स्यात् । तारकाः सञ्जाता अस्य तारकितं नमः । पुष्पितः तरुः । (प्रमाणान्मात्रट् षष्ठ्यर्थे *) आयामः प्रमाणम् । जानुः प्रमाणमस्य जानुमात्रं जलम् । तावन्मात्री भूः।
व्या. १२ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org