________________
कृदन्तप्रक्रिया |
-२८७
क्षेस्तो नस्तद्योगे क्षेः क्षीश्च नतु घ्यार्थे । क्षीणः क्षीणवान् । अध्यार्थे इति किम् । भावकर्मके क्षितमस्य ।
ऋह्रीघ्राधात्रोन्दनुदविन्तेर्वा ॥७४॥
एभ्योऽष्टाभ्यः क्तयोस्तोन्वा स्यात् । ऋणं ऋतम् । हीणः हीणवान् । ह्रीतः हीतवान् । क्षैशुषिपचो मकवम् ॥ ७५ ॥
एभ्यस्त्रिभ्यः कयोर्यथासङ्ख्यं मकवाः स्युः । क्षामः क्षामवान् । शुष्कः शुष्कवान् । पक्कः पक्कवान् । (निर्वाणमवाते* ) निपातोऽयम् । निर्वाणो मुनिः । वाते तु कर्तरि । निर्वातो वातः । एवं क्षीवादयो निपाता ज्ञेयाः ।
क्षुधवसस्तेषाम् ॥ ७६ ॥ क्तवतुक्त्वामिट् स्यात् । क्षु
आभ्यां परेषां धितः २ । उषितः २ ।
लुभ्यञ्चेर्विमोहाचें ॥ ७७ ॥ आभ्यां यथासङ्ख्यं विमोहन पूजार्थाभ्यां चक्तवतुक्त्वामिट् स्यात् । विलुभितः २ । अञ्चितः २ । ऋवर्णभ्यूर्णगः कितः ॥ ७८ ॥
ऋवर्णान्तादेकस्वराद्धातोः श्रेरुर्णोश्च कित इट् न स्यात् । वृतः, श्रितः, ऊर्णुतः । एकस्वरादिति किम् । जागरितः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org