________________
हैमलघुप्रक्रियाव्याकरणे
धेनवे । धेन्वाः, धेनोः २ । धेन्वाम्, धेनौ । प्रियधेन्वै प्रियधेनवे पुंसे । ईकारान्तो नंदीशब्दः । दीर्घयाविति सिलुकि । नदी । नद्यौ । नद्यः । नदीम् । नद्यौ । नदीः । नद्या । स्त्रीदूतः ॥ १० ॥
1
नित्यस्त्रीलिङ्गादीदूदन्तात्परेषां स्वाऽस्वडितां दैदासूदास दामो नित्यं स्युः । नद्यै । नद्याः २ । नद्याम् । स्वास्वेतिवचनात् प्रियनद्यै पुंसे । संबोधने नित्यदित्त्वास्खे, हे नदि । एवं गौरीप्रभृतयः । स्त्रीशब्दस्य ङन्यन्तत्वात्सेलुकि, स्त्री । स्वरादौ इतीयादेशे, स्त्रियौ । स्त्रियः । वाम्शसि । स्त्रियम् स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया । स्त्रियै । हे त्रि । लक्ष्मीशब्दस्य जयन्तत्वाऽभावात्सेर्लुग्नास्ति । लक्ष्मीः । शेषं नंदीवत् । वधूः । वध्वौ । वध्वः । वधूम् । वध्वौ । वधूः । वध्वा । वध्यै । वध्वाः २ । वध्वाम् । हे वधु । एवं जम्ब्वादयः। श्री-ही- धीशब्दाः सुश्रीवत् । भूः स्वयंभूवत् । वरतिवत् । मातृशब्दः पितृवत् । माता मातरौ । मातुः । स्वसृशब्दः कर्तृवत् । स्वसा । स्वसारौ । स्त्रियां कुशस्तुनस्तृच् निर्निमित्त एव स्यात् । ततो उच्चां क्रोष्ट्री । रै-गो- नौ शब्दाः प्राग्वत् ।
इति महोपाध्यायश्री कीर्तिविजयमणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघु प्रक्रियायां खरान्ताः स्त्रीलिङ्गाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org