________________
२२० हैमलघुप्रक्रियाव्याकरणे ____ हाको हौ आ इश्च वा स्याताम् । जहाहि-जहिहि पक्षे जहीहि ३ । अजहात् अजहिताम्-अजहीताम् अजहुः ४ । अहासीत् ५। जहाँ जहतुः जहिथजहाथ ६ । गापास्थेत्येत्वे, हेयात् ७ । हाता ८। हास्यति ९ । अहास्यत् १० । जिभीक् भये । बिभेति १।
भियो नवा ॥७॥ भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभितः-बिभीतः बिभ्यति १ । बिभियात्-बिभीयात् २ । बिभेतु-बिभितात्-बिभीतात् ३। अबिभेत् अबिभिताम्-अबिभीताम् अबिभयुः४।अभैषीत् ५। भीहीत्यामि, बिभयाञ्चकार । पक्षे बिभाय बिभ्यतुः बिभयिथ-बिभेथ ६ । भीयात् ७ । भेता ८ । भेप्यति ९ । अभेष्यत् १० । ह्रींक् लजायाम् । जिहूति जिहीतः। संयोगादितीयादेशे, जिहियति । जिहीयात् २ । जिहेतु-जिहीतात् ३ । अजिहेत् अजिह्रीताम् अजिह्रयुः ४ । अद्वैषीत् ५। जिह्वयाञ्चकार जिह्राय ६ । हृीयात् ७ । हेता ८। हेष्यति ९ । अहेष्यत् १० । भृक् पालनपूरणयोः।
पृभूमाहाङामिः ॥ ८॥ एषां पञ्चानां शिति द्वित्वे पूर्वस्य इः स्यात्ततो गुणे, पिपति पिपृतः पिप्रति १ । पिपृयात् २।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org