________________
आचारांगसूत्र
१३५ विकल्पितं भारतादिकं लौकिकम् । लोकप्रधानैरर्हद्भिः प्रणीतं द्वादशाङ्गं लोकोत्तरम्, अनेनैव च भावश्रुतेनात्राधिकारः । स्कन्धनिक्षेपोऽपि यावद्भव्यशरीरं स्फुट एव, उभयव्यतिरिक्तद्रव्यस्कन्धस्तु सचित्ताचित्तमिश्रभेदेन त्रिविधः, तत्राद्यस्तुरगगजकिन्नरकिम्पुरुषादिरूपोऽनेकविधः, तुरगादीनां विशिष्टैकपरिणामपरिणतत्वात्स्कन्धता भाव्या । द्विप्रदेशादिस्कन्धा अचित्तद्रव्यस्कन्धाः । मिश्रश्च हस्त्यश्वरथपदातिसन्नाहखड्गकुन्तादिसमुदायात्मकसेनाया अग्रमध्यपश्चिमस्कन्धरूपोऽनेकविधः, एषु हस्त्यादीनां सचित्तत्वात् खड्ग्रादीनामचित्तत्वात् मिश्रता । यद्वा कृत्स्नाकृत्स्नानेकद्रव्यस्कन्धभेदादुभयव्यतिरिक्तद्रव्यस्कन्धस्त्रिविधः, हयस्कन्धगजस्कन्धादयः कृत्स्नस्कन्धाः, तदन्यबृहत्तरस्कन्धाभावात्, जीवतदधिष्ठितशरीरावयवलक्षण समुदायोऽत्र कृत्स्नस्कन्धत्वेन विवक्षितः । न च हयादिस्कन्धो न कृत्स्नस्कन्धरूपस्तदपेक्षया गजस्कन्धस्य बृहत्तरत्वादिति वाच्यम्, शरीरानुगतजीवस्यासंख्येयप्रदेशात्मकत्वेन समुदायस्यैव चात्र हयादिस्कन्धत्वेन विवक्षणात् सर्वत्र जीवस्यासंख्येयप्रदेशात्मकतया तुल्यत्वात्, यदि जीवप्रदेशपुद्गलसमुदायानां सामस्त्येन वृद्धिर्भवेद्गजादिस्कन्धस्य तदा भवेदृद्धिः, तदेव नास्तीति । द्विप्रदेशिकाद्यावदनन्तप्रदेशिकस्कन्धं सर्वे स्कन्धा अकृत्स्नस्कन्धाः, सर्वान्तिमानन्तप्रदेशात्मकस्कन्धं विहाय सर्वेषामकृत्स्नत्वात् । यस्य कस्यचित्स्कन्धस्य नखदन्तकेशादिरूपो देशो जीवप्रदेशैविरहितस्तस्यैव च यो देशः पृष्ठोदरचरणादिलक्षणो जीवप्रदेशैर्व्याप्तो देशयोस्तयोविशिष्टैकपरिणामपरिणतयोर्देहरूपो यस्समुदाय: सोऽनेकद्रव्यस्कन्धः, सचेतनाचेतनानेकद्रव्यात्मकत्वात्, जीवप्रदेशाव्याप्तदेशस्याप्यत्र विवक्षणात् कृत्स्नस्कन्धापेक्षया वैलक्षण्यम् । स्कन्धपदार्थाभिज्ञस्तत्र चोपयुक्तो भावस्कन्ध आगममाश्रित्य । नोआगममाश्रित्य तु प्रस्तुताचाराङ्गस्य नवानामध्ययनानां चूलिकानाञ्च समुदायस्य परस्परसम्बद्धतया यो विशिष्टैकपरिणामस्तेन निष्पन्नः श्रुतस्कन्धो भावस्कन्ध इति ।। ३ ।।
આ આચાર ગ્રંથના પેટા વિભાગને કહે છે. સૂત્રાર્થ :- આ આચારાંગના બે શ્રુતસ્કંધ છે. આચાર અને આચારાંગના ભેદથી.
भावार्थ :- अस्य = श्रुतनो मायार में प्रभारी अर्थ... ४ संभणाय ते श्रुत. ६२४ विशिष्ट અર્થ જણાવનાર માત્ર વચનયોગ છે. પરમાત્માના મુખથી નીકળેલું, પોતાના કાનમાં પ્રવેશેલું, લાયોપથમિકભાવને, પરિણામને પ્રકટ કરવામાં કારણભૂત તે શ્રુત કહેવાય છે. તેને જણાવનારો अंथ ५९॥ श्रुत उपाय. श्रुत, अंथ, सिद्धांत, प्रवयन, माशा, ७५१श, मागम माह श्रुतन। એકાર્થિક (પર્યાયવાચી) નામ છે. પુગલના સંયોગ અને વિયોગથી ગળી જાય છે, સુકાઈ જાય છે, ક્ષય થાય છે, પુષ્ટ થાય છે, પુદ્ગલના સંયોગ વિયોગથી એ પ્રમાણે અણુઓનો સમૂહ તે સ્કંધ