________________
४०६
सूत्रार्थमुक्तावलिः कर्तृत्वेन चाकिञ्चित्कारितयाऽसत्कल्पत्वात् । तत्र पृथिव्यप्तेजोवाय्वाकाशानि भूतानि, एतानि जगद्व्यापीनि, नान्यकृतानि, किन्तु विस्रसापरिणामेन निष्पन्नानि, अनाद्यनिधनानि, स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि शाश्वतानि, सांख्यस्यापि सत्कार्यवादाङ्गीकरणात्पञ्चभूतानीदृशान्येव, आत्मनोऽसत्कल्पत्वाल्लोकायतिकमते तदभावाच्च भूतमात्रमेव लोको नापरः कश्चित् पदार्थोऽस्तीति मतमपि निरस्तम्, स्वसंवेदनसिद्धेन ज्ञानेन धर्मिण आत्मन आवश्यकत्वात्, न हि भूतान्येव धर्मित्वेन परिकल्पयितुं युज्यन्ते, अचेतनत्वात्, न च कायाकारपरिणतानां चैतन्यं धर्म इति वाच्यम्, आत्माभावे कायाकारपरिणामस्यैव निर्हेतुकत्वेनासम्भवात्, सम्भवे तु नित्यं सत्त्वमसत्त्वं वा भवेत्, तस्माद्भूतव्यतिरिक्त आत्मास्वीकार्यः तस्मिश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिर्भवेन्नान्यथा । सांख्यमतेऽपि प्रकृतेरचेतनत्वात् कार्यकर्तृत्वं नोपपद्यते, प्रतिबिम्बितः प्रकृतावात्मैव करोतीति चेन्न, तस्याकर्तृत्वाभ्युपगमान्नित्यत्वाच्च, न ह्येकान्तनित्यस्य कार्यकर्तृत्वं सम्भवति स्वरूपापरित्यागात्, परित्यागे चानित्यताप्राप्तेः प्रकृतेश्च नित्यत्वान्महदादिविकारा न स्युः, तस्या एकत्वाच्चैकात्मवियोगे सति सर्वात्मनां वियोगो भवेत्, एकसम्बन्धे वा सर्वात्मनां प्रकृतिसंयोगो भवेन्न तु कस्यचित्, तथा चैकस्य मोक्षोऽपरस्य तु संसार इत्येवं जगद्वैचित्र्यं न स्यात् । नापि सत्कार्यवादो युक्तो मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग् घटसम्बन्धिक्रियागुणव्यपदेशाभावात्, घटार्थिनाञ्च क्रियासु तदुत्पादिकासु प्रवृत्तेर्न कारणे कार्यं सदिति । एतेऽपि नानाविधैर्जलस्नानावगाहनादिकैः प्राण्युपमर्दकारिभिः कर्मसमारम्भैः कामादिभिश्च समाक्रान्ताः स्वदर्शनानुरागिणः स्वात्मानमनार्यमार्गे पातयन्तोऽन्यांश्च पातयन्तो नित्यसंसारिणः ॥५५।।
પાંચભૌતિકમાત્ર વાદના ખંડન માટે કહે છે.
સૂત્રાર્થ :- આના વડે ભૂતરૂપ જ લોક છે. એ પ્રમાણે તેનું ખંડન કર્યું. કારણ કે કર્તાપણાનો સ્વભાવ ન થતો હોવાથી.
ટીકાર્ય - પહેલા કહેલા દોષો વડે, પાંચ ભૂત માત્રવાદી એવા નાસ્તિકો સાંખ્યોએ આગળ એવ પદ વડે આત્માનું ખંડન કર્યું છે. સાંખ્યોનો પણ મત આત્માને નિર્ગુણપણે, અકર્તાપણે અને अयिनरी५) छ. ॥२५॥ ॐ असत.७८५नी म छे. पृथ्वी, अ५, 3, 46 (वायु), मा એ પાંચ ભૂતો. એ પાંચ જગત વ્યાપી છે. બીજા વડે કરાયેલા નથી. પરંતુ સ્વાભાવિક પરિણામથી બનેલી છે. અનાદિ અનંત છે. પોતાના કાર્યના કર્તવ્ય પ્રતિ બીજાની અપેક્ષા વગરના નિરપેક્ષ શાશ્વત છે.