Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
सूत्रकृतांग
४५१ पूज्यत्वमपीति पूज्यत्वविरुद्धाव्यभिचारित्वं हेतोः, मांसौदनयोरसाम्याद् दृष्टान्तविरोध: लोकविरोधिनी च प्रतिज्ञा, तस्मान्मांसभक्षणं रसगौरवगृद्धानामनार्याणामविवेकिनामासेवनं न धर्मश्रद्धावताम्, तदुक्तं 'श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गतिं ये कुर्वन्ति शुभोदयेन विरति मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गतरुजः सम्भाव्य यास्यन्ति ते मर्येषूत्कटभोगधर्ममतिषु स्वर्गापवर्गेषु च' ॥ तदेवं सावद्यमारम्भं महानयं दोष इत्येवं मत्वा दयया तं परिवर्जयन्तः साधवो दानाय परिकल्पितमुद्दिष्टं भक्तपानादिकं परित्यजन्ति । एतेन यागादिविधिना ब्राह्मणानां सहस्रद्वयं भोजयेदित्यादिवादोऽपि परास्तः, निन्द्याजीविकोपगतानां नित्यं पिण्डपातान्वेषिणामसत्पात्राणां दाने तेषां दातुश्चाऽऽमिषगृघ्नुभिरभिव्याप्तबहुवेदननरक गतिप्राप्तेः, दयाप्रधानं धर्मं निन्दन्तं प्राण्युपमर्दकारिधर्मं प्रशंसन्तमेकमपि निःशीलं निव्रतं षड्जीवनिकायोपमर्दनेन यो भोजयेत् स वराक नरकभूमिं याति कुतस्तस्याधमदेवेष्वपि प्राप्तिः सम्भाविनी । अतो याज्ञिकमतवादोऽपि न श्रेयान्, वेदान्तवादोऽपि न यथार्थाभिधायी, असर्वज्ञप्रणीतत्वात्, तत्त्वञ्चैकान्तपक्षसमाश्रयणात्, एकान्तपक्षश्च प्रवृत्तिनिवृत्त्यसम्पादकत्वात्, न ह्येकान्तक्षणिके आत्मादौ एकान्ताक्षणिके वा प्रवृत्तिनिवृत्ती सम्भवतः, तदेवं तीर्थिका लोकमजानाना धर्मं कथयन्तः स्वतो नष्टा अपरानपि विनाशयन्ति, ये तु केवलालोकेन समाधिना युक्ताः परमहितैषिणः श्रुतचारित्रं धर्मं प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः परं सदुपदेशदानतस्तारयन्ति यथा देशिकः सम्यग् मार्गज्ञ आत्मानं परञ्च तदुपदेशवत्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति । तस्मान्नासर्वज्ञप्ररूपणं भावशुद्धिप्रयोजकम्, विवेकवैधुर्यात्, यस्तु सर्वज्ञागमेन सद्धर्ममवाप्य तत्र सुस्थितो मनोवाक्कायैः सुप्रणिहितेन्द्रियो न परतीर्थिकतपःसमृद्ध्यादिदर्शनेन मौनीन्द्रदर्शनात् प्रच्यवते सम्यग्ज्ञानेन च यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयति सम्यक्चारित्रेण च समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारस्तपोविशेषाच्चानेकभवोपार्जितं कर्म निर्जरयति स एव विवेकी भावशुद्धः स्वतोऽन्येषाञ्च समुद्धर्तेति ॥८०॥
આ પ્રમાણે શાક્ય વગેરેને પરાજિત કરવાનો પ્રકાર કહે છે.
સૂત્રાર્થ - અકુશલ ચિત્તથી જ કર્મનું ગ્રહણ (કર્મની પ્રાપ્તિ) થાય છે. એમ નથી, કારણ કે અવિવેકી આત્માઓને ભાવશુદ્ધિ સંભવતી નથી.
ટીકાર્ય - કોઇક શાક્ય - બૌદ્ધ કહે છે. જેમકે કોઇક દુશ્મનને શોધવા માટે પ્રવૃત્ત થયેલો વસ્ત્રથી ઢાંકેલા પિણ્યાકપિંડને જોઇને આ પુરુષ છે. એમ માનીને પકડી લે - ગ્રહણ કરે. પછી

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470