Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
४५०
सूत्रार्थमुक्तावलिः एवं तस्य शाक्यादिनिरासप्रकारमाहअकुशलचित्तादेव कर्मचय इति चेन्न, अविवेकिनो भावशुद्ध्यसम्भवात् ॥८०॥
अकुशलेति, शाक्यः कश्चिदाह-यथा कश्चिच्छत्रुमन्वेष्टुं प्रवृत्तः पिण्याकपिण्डं वस्त्रप्रावृतं कञ्चिद् दृष्ट्वा पुरुषोऽयमिति मत्त्वा जग्राह, ततस्तं वस्त्रवेष्टितं पिण्याकपिण्डं पुरुषबुद्ध्या शूले प्रोतं पावके पचति, तथा कश्चिदलाबुकं कुमारोऽयमिति मत्वा वह्नौ पचति स च प्राणिवधजनितेन पातकेनाकुर्वन्नपि वस्तुतः प्राणातिपातं लिप्यते चित्तस्य दुष्टत्वात्, चित्तमूलत्वाच्च शुभाशुभबन्धस्य, तथा सत्यपुरुषमपि खलबुद्धया कश्चिच्छूले प्रोतमग्नौ पचेत् कुमारकञ्चालाबुकबुद्ध्या, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकम्, एवं सर्वास्ववस्थास्वचिन्तितं कर्मचयं न गच्छति ‘अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकञ्च कर्मोपचयं न यातीत्युक्तेरिति, तदेतन्मतं दूषयति नेति, पिण्याकपिण्डे पुरुषोऽयमित्येवमत्यन्तजडस्यापि न बुद्धिरुदेति, तस्माद्य एवं वक्ति सोऽत्यन्तमनार्य एव, अत एव तथाविधं वचनमप्यसत्यं सत्त्वोपघातकत्वात्, ततश्च निःशङ्कप्रहार्यनालोचको निविवेकतया बध्यते, तस्मात् पिण्याककाष्ठादावपि प्रवर्त्तमानेन जीवोपमर्दनभीरुणा साशङ्केन प्रवर्तितव्यम् । वागभियोगादपि पापं कर्म भवत्यतो विवेकी भाषागुणज्ञो न तादृशीं भाषामुदाहरेत्, न हि प्रव्रजितो यथावस्थितार्थाभिधायीहक् निःसारं निरुपपत्तिकं वचनं ब्रूयात् पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, अलाबुकमेव बालको बालक एवालाबुक इत्यादि । केवलमेवम्भाषणमज्ञानावृतमूढजनानाम्, तेषां च न भावशुद्ध्या शुद्धिः, अन्यथा संसारमोचकानामपि कर्मविमोक्षः स्यात् तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकञ्चानुष्ठानमनर्थकमापद्यते, तस्मान्नेवंविधया भावशुद्धया शुद्धिरुपजायते । मौनीन्द्रशासनप्रतिपन्नाश्च तन्मार्गानुसारिणो जीवानामवस्थाविशेषं तदुपमर्दनेन पीडां पर्यालोचयन्तोऽन्नविधौ द्विचत्वारिंशद्दोषरहितेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितं न दोषायेति । न चौदनादेरपि प्राण्यङ्गसमानतया मांसादिसादृश्यमिति वाच्यम्, लोकतीर्थान्तरीयमतानभिज्ञतया चोदनात् । तुल्येऽपि प्राण्यङ्गत्वे किञ्चिन्मांसं किञ्चिच्चामांसमिति व्यवहियते गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्था क्रियते, स्त्रीत्वे समानेऽपि भार्यास्वस्रादौ गम्यागम्यव्यवस्था विधीयते शुष्कतर्कदृष्टया, प्राण्यङ्गत्वादिति हेतुश्चानैकान्तिकविरुद्धदोषदुष्टः, प्रयोगश्च मांसं भक्षणीयं भवेत् प्राण्यङ्गत्वादोंदनादिवदिति, श्वमांसादेरभक्ष्यत्वाद्दोषद्वयमेवं, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयति तथा बुद्धास्थ्नाम

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470