________________
सूत्रकृतांग
४५७
परित्यज्य स्थावरत्वेन प्रत्यायन्ति स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तंत्रोत्पद्यन्ते स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि कर्माणि सर्वात्मना त्रसत्वं परित्यज्य स्थावरत्वेनोदयं यान्ति, एवञ्च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्गः, नगरदृष्टान्तोऽप्यनुपपन्नः सादृश्याभावात्, नगरधर्मैरुपेतो नागरिकः, स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितपर्यायापन्नं तदा तस्य व्रतभङ्ग इति भवतः पक्षः, स च न घटते बहि:स्थस्यापि तस्य नगर धर्मैरुपेतत्वेन नागरिकत्वात्, अत: पर्यायापन्न इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य स्थावरः समुत्पद्यते नासौ त्रस एव तदा भवति पूर्वपरित्यागादपरपर्यायापन्नत्वात् यथा नागरिकः पल्यां प्रविष्टस्तद्धर्मोपेतत्वात् पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवति । न च परस्परसंसरणशीलत्वात् प्राणिनां त्रसकायातदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये स्थावरकायाच्च स्वायुषा विप्रमुच्यमानास्त्रसका यदि समुत्पद्यन्ते तदा सर्वेषां त्रसानां स्थावरकायसमुत्पन्नानां स्थानं घात्यं वर्त्तते तेन श्रावण स्थावरकायवधनिवृत्तेरकरणात्, तथा च निर्विषयं तस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं भवति यथा नगरवासी न हन्तव्य इति गृहीतव्रतस्य नगरे उद्वसित निर्विषयमिति वक्तव्यम्, सर्वेऽपि त्रसा निर्लेपतया स्थावरत्वमापन्ना इत्येतस्यासम्भवात्, यद्यपि विवक्षितकालवर्त्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथाप्यपरापरत्रसोत्पत्त्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रसशून्यः संसारो भवति । अतो न निर्विषयं श्रावकस्येदं व्रतमित्यधिकं सूत्रकृताङ्गे । तदेवं ज्ञानदर्शनचारित्राणि सम्यगवगम्य पापकर्मणामकरणाय समुत्थितं श्रमणं निन्दति यः स सुगतिलक्षणस्य परलोकस्य तत्संयमस्य विघाताय तिष्ठति यस्तु महासत्त्वो रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्रीं मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्धयाऽवतिष्ठत इति ॥८२॥
હવે ગૌતમસ્વામીએ કહેલો જવાબ કહે છે.
સૂત્રાર્થ :- આ વાત બરાબર નથી, કેમકે અસદ્ભૂત દોષો કરેલા હોવાથી અને ભૂતં શબ્દના અનેક અર્થો ઉત્પન્ન થતા હોવાથી.
,
ટીકાર્થ :- ભૂત શબ્દ વિશેષણપણાથી જે પ્રત્યાખ્યાન છે. તે ખોટું છે. દોષોનું જે પ્રદર્શન કરાવ્યું છે. તે અમને ગમ્યું નહીં. કેમકે તેમાં જે હેતુ કહો છો તે અસદ્ભુત છે બરાબર નથી જે શ્રમણો અથવા બ્રાહ્મણો ભૂત શબ્દના વિશેષણપણાવડે પચ્ચક્ખાણ કહે છે. લે છે. બીજાઓ પૂછે, ત્યારે તે પ્રમાણે જ પચ્ચક્ખાણ જાતે કરતા તથા બીજાને કરાવતા કહે છે. કિન્તુ સવિશેષણ