Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 446
________________ ४४० सूत्रार्थमुक्तावलिः कोऽस्तीति कथं सर्वाभावः सिद्धयेत, अतोऽस्ति लोकः कथञ्चित्, तद्व्यतिरिक्तऽलोकश्च, सम्बन्धिशब्दत्वात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेश्च, एकान्तेनैत अवयवा एव, अमी चावयविन एवेत्यनभ्युपगमेन तदाश्रितो दोषो नात्र सम्भवति । एवं प्रत्यक्षेणानुपलम्भाज्जीवो धर्मास्तिकायाद्यजीवो वा नास्त्येवेति संज्ञां न निवेशयेत्, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तद्गुणानाम् । किन्तु जीवः स्याज्जीवः, स्यादजीवः, अजीवोऽपि स्यादजीव: स्याज्जीव इति स्याद्वाद आदरणीयः । तथा श्रुतचारित्राख्यो जीवस्यात्मपरिणामः कर्मक्षयकारणं धर्मः, मिथ्यात्वादयः कर्मबन्धकारणमात्मपरिणाम एवाधर्मः, एतौ कालेश्वरस्वभावनियत्यादिमतेन न विद्येते, धर्माधर्मव्यतिरेकेण जगद्वैचित्र्यस्य कालादय एवैकान्तेन कारणमित्येवं मतिं न कुर्यात्, धर्माधर्मावन्तरेण केवलं कालादिना संसारवैचित्र्यस्यानुपपत्तेः, ततोऽस्ति धर्मः सम्यग्दर्शनादिकः, अस्त्यधर्मो मिथ्यात्वादिक इत्येवं संज्ञां निवेशयेत् । प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकारणं बन्धः, स चामूर्तस्यात्मनो गगनस्येव न विद्यते तदभावाच्च मोक्षस्याप्यभाव इति न मतिं कुर्यात्, आकाशस्यापि सर्वव्यापित्वेन पुद्गलसम्बन्धस्य दुनिवारत्वात्, अन्यथा तद्व्यापित्वमेन न स्यात्, तथा विज्ञानस्य हृत्पूरमंदिरादिना विकारो दृश्यते न चासौ तत्सम्बन्धव्यतिरेकेन सम्भवति, किञ्च संसारिजींवाः सदा तैजसकार्मणशरीरिणोऽत आत्यन्तिकामूर्तत्वञ्च तेषां न सम्भवति, ततोऽस्ति बन्धोऽस्ति च तत्प्रतिपक्षभूतो मोक्ष इति संज्ञां निवेशयेत् । शुभप्रकृतिलक्षणं पुण्यं नास्ति तद्विपर्ययलक्षणञ्च पापमपि नास्तीत्येवं संज्ञा न विधेया, तत्र हि कारणमित्थं वाच्यम्, पापमेवास्ति न पुण्यं, उत्कर्षावस्थपापस्यैव सुखनिबन्धनत्वात्, पुण्यमेवास्ति न तु पापम्, अपचीयमानपुण्यस्यैव दुःखनिबन्धनत्वात्, अथवोभयमपि नास्ति संसारवैचित्र्यस्य नियतस्वभावादिकृतत्वात्, तन्न युक्तम्, एकस्य सद्भावेऽपरसद्भावनान्तरीयकत्वात्, सम्बन्धिशब्दत्वात्तयोः पुण्यपापेशब्दयोः, न वा द्वयोरभावः, जगद्वैचित्र्यानुपपत्तेः, नियत्यादीनामवैचित्र्येण ततोऽपि तद्वैचित्र्यासम्भवाच्च, एवं कर्मोपादानलक्षण आश्रवस्तनिरोधः संवरः, एतौ द्वावपि न स्तः, कायवाङ्मनःकर्म हि योगः स चाश्रव इति वक्तव्यं तन्न, कायादिव्यापारेण कर्मबन्धाभावात्, आश्रवो यदि जीवाद्भिन्नस्तदा घटादिवन्नाश्रवः, अभेदेऽपि नाश्रवः, सिद्धात्मनामपि तत्प्रसङ्गात्, एवं तदभावेन तन्निरोधलक्षणसंवरस्याप्यभावः इति मतिं न विदध्यात्, केवलकायव्यापारस्य कर्मबन्धकत्वानभ्युपगमात् किन्तु निरुपयुक्तस्य, तथैकान्तभेदाभेदपक्षाश्रयदोषोऽप्यनेकान्ते न भवति, तस्मादस्त्याश्रवः संवरश्चेति विज्ञेयम् । कर्मपुद्गलपरिशाटनालक्षणा

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470