Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
सूत्रकृतांग
४१७ अहं ब्राह्मणत्वान्न दण्डादिभिर्हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, शूद्रं व्यापाद्य प्राणायाम जपेत् किञ्चिद्वा दद्यात्, क्षुद्रसत्त्वानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजयेदित्यादीनि मृषाभूतानि वाक्यानि प्रयुञ्जन्ति, तदेवं तेषां परपीडोपदेशनतोऽतिमूढतयाऽसम्बद्धप्रलापिनामज्ञानावृतानामात्मम्भरीणां विषमदृष्टीनां न प्राणातिपातादिविरमणरूपं व्रतमस्ति, परमार्थानभिज्ञत्वात्ते तीथिका स्त्रीप्रधानाः प्रव्रजिता अपि न भोगेभ्यो विरताः, मिथ्यादृष्टित्वादज्ञानान्धत्वात्सम्यग्विरतिपरिणामाभावाच्च, ते च स्वायुषः क्षये कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्बिषिकेषूत्पत्स्यन्ते पुनर्मूकभावेनोत्पद्यन्ते, जातिमूका वा भवन्ति, अत एते लोभप्रत्ययिककर्मभाजो भवन्ति । एतानि द्वादशक्रियास्थानानि मिथ्यादर्शनाश्रितानि संसारकारणानीति कृत्वा सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो ज्ञपरिज्ञया विज्ञाय साधुः प्रत्याख्यानपरिज्ञया परिहरेत् । यस्य प्रवचने संयमे वा स्थितस्यात्मभावार्थं मनोवाक्कायैः संवृतस्य पञ्चसमितिभिः समितस्य त्रिगुप्तिभिर्गुप्तस्य नवब्रह्मचर्यगुप्त्युपेतब्रह्मचारिणः सोपयोगं गतिस्थितिनिषीदनत्वग्वर्त्तनादिकं कुर्वाणस्य सोपयोगमेव सर्वाः क्रियाः पतद्ग्रहग्रहणादिका विदधानस्य सूक्ष्माक्षिपक्ष्मसंचलनरूपादिका येर्यापथिका नाम क्रिया भवति या केवलिनापि क्रियते योगवतो जीवस्य क्षणमात्रमपि निश्चलत्वासम्भवात्, तया च यत्कर्म तदीर्यापथिकम्, अकषायिणस्तत्क्रियया हि यत्कर्म बद्ध्यते तत्प्रथमसमय एव बद्धं स्पृष्टञ्च, कषायाभावेन साम्परायिकस्येव स्थित्यभावात्, द्वितीयसमयेऽनुभूयते तृतीयसमये च निर्जीर्यते, तच्च कर्म प्रकृतितः सातवेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावमनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययञ्च । आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्मतापि, एवं तावद्वीतरागस्येर्याप्रत्ययिकं कर्म सम्बद्ध्यते । तदन्ये प्राणिनः साम्परायिकबन्धभाजो द्वादशक्रियास्थानेषु वर्तन्ते । एवं विचित्रक्षयोपशमान्नानाप्रज्ञा निजानेकविधाभिप्रायात् पापश्रुताध्ययनं परलोकनिष्पिपासवो विषयतृषिता इहलोकमात्रप्रतिबद्धाः कुर्वन्ति, ताश्च विद्या उत्पातस्वप्नान्तरिक्षाङ्गस्वरलक्षणमंत्रेन्द्रजालपाकशासनधनुर्वेदायुर्वेदज्योतिषादयः, एता अधीयाना क्षेत्रभाषार्या अपि मिथ्यात्वोपहतबुद्धयोऽनार्यकर्मकारित्वादनार्याः स्वायुषः क्षये कालं कृत्वाऽऽसुरीयकेषु किल्बिषिकादिषूत्पन्नाः कर्मशेषतया पुनरेडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मूकतया वा प्रत्यागच्छन्ति ॥६१॥
હવે તેર ક્રિયાસ્થાનો (કાઠીયાઓ) વડે કર્મબંધનના સદ્ભાવથી કર્મબંધ થાય છે. એ પ્રતિપાદન કરવા માટે કહે છે.

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470