________________
३८२
सूत्रार्थमुक्तावलिः
शिष्येभ्यो न जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयेयुः, यदि प्रतिपादयेयुस्तर्हि नान्तरीयकतयाऽऽत्मानं कर्त्तारं करणं शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, बौद्धा अपि षड्गती: वर्णयन्ति, असति चात्मनि कारके कथं गतयः स्युः, सन्तानस्यापि सन्तानिव्यतिरेकेण संवृतिमत्त्वेन क्षणस्य चास्थितत्वेन क्रियाभावान्न नाम गतयः स्युः, तदेवमेते नास्तित्वं प्रतिपादयन्त आत्मनोऽस्तित्वमेव प्रतिपादयन्ति । सांख्या अपि सर्वव्यापितयाऽक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगात् मोक्षसद्भावं प्रतिपादयन्त आत्मनो बन्धं मोक्षञ्च स्ववाचा प्रतिपादयन्ति, बन्धमोक्षसद्भावे सक्रियतायाः सिद्धेः, न हि क्रियामन्तरेण बन्धमोक्षौ घटेते । किञ्च लोकायतिकानां सर्वशून्यत्वे न किञ्चित् प्रमाणमस्ति प्रमाणसद्भावे न च सर्वशून्यत्वं, प्रमाणस्य सत्त्वात् । न वा प्रत्यक्षमेव प्रमाणम्, अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततश्च सर्वव्यवहारोच्छेदः स्यात् । बौद्धानामप्यत्यन्तक्षणिकत्वेन वस्तुत्वाभावः स्यात्, यदेव ह्यर्थक्रियाकारि तदेव परमार्थतः सत्, न च क्षणः क्रमेणार्थक्रियाकारी, क्षणिकत्वहाने:, न वा यौगपद्येन, एकक्षण एव तत्कार्याणामखिलानां भावप्रसक्तेः, न चैतद् दृष्टसिष्टं वा । न च परिदृश्यमानानामादित्यचन्द्रसरिदादीनामभावात्तदुद्गमनास्तमयह्रासवृद्ध्यादिक्रियाः कुतः स्युः सर्वमिदञ्च जगति यदुपलभ्यते तत्सर्वं मायास्वप्नेन्द्रजालकल्पमिति वाच्यम्, आगोपालाङ्गनाप्रतीतस्य समस्तान्धकारक्षयादिकारिण उद्गमनादेरपलपितुमशक्यत्वात्, सर्वाभावे सत्यस्याभावात्तत्प्रतिपक्षभूतासत्यरूपाया मायाया अप्यभावेन मायास्वप्नेन्द्रजालकल्पमिदं जगदित्यभ्युपगमस्यासम्भवाच्च, स्वप्नोऽपि हि जाग्रदवस्थायाः सद्भावे भवेत्, तस्याश्चा सोऽपि कथं स्यात्, एवमिन्द्रजालव्यवस्थाप्यपरसत्यत्वे सति भवति, नान्यथा, किञ्च सर्वशून्यत्वमपि न वस्तु, अभावस्य तुच्छरूपत्वात्, शशविषाणादीनामत्यन्ताभावतया प्रसिद्धानामपि सम्बन्धस्यैव निषेधो न तु वस्तुन आत्यन्तिकोऽभावः, तस्माद्विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिताः ||४३||
અક્રિયાવાદિના મતનું નિરાકરણ કરે છે.
સૂત્રાર્થ :- આત્મક્રિયાનો સ્વીકાર ન કરવો એ યોગ્ય નથી. કેમકે વિપાકથી કર્મવાનપણાની સિદ્ધિ થતી હોવાથી.
ટીકાર્થ :- લોકાયતિક એટલે નાસ્તિકોને આત્મા પ્રમાણ વિષય થતો નથી. આથી તેની ક્રિયા નથી કે તેનાથી ઉત્પન્ન થયેલ કર્મબંધ નથી. ઉપચારથી કર્મબંધ છે. તે પ્રમાણે બંધાયેલા અને છૂટેલા કહેવાય છે. મુઠ્ઠી અને ગાંઠ કબૂતરો. બીજા દ્રવ્યથી નથી મુઠ્ઠી અને ગાંઠ કબૂતરો' આ પ્રમાણે બોલે છે. શાક્ય એટલે બૌદ્ધના મતે બધા સંસ્કારો ક્ષણિક છે. આથી અક્રિયપણું છે.