________________
आचारांगसूत्र
२३९
શ્રી વર્ધમાનસ્વામીને રસમાં આસક્તિ નથી. શરીરમાં ખણજ આવે તો પણ લાકડા આદિ વડે ખણતા નથી. રસ્તા વિગેરેમાં કોઈક પૂછે છતાં જવાબ દેતા નથી. માત્ર મૌનપૂર્વક ચાલે છે.
રસ્તામાં શિયાળામાં પણ હાથ લાંબો કરવાપૂર્વક ચાલે છે. પરંતુ ઠંડીની પીડામાં પણ હાથ સંકોચતા નથી. અથવા તો ખભા ઉપર હાથ રાખતા નથી.
આ રીતની દિનચર્યા પરમાત્માની જાણીને મોક્ષમાં જવાની ઈચ્છાવાળા સાધુઓએ સમસ્ત भना ना भाटे प्रयत्न ४२वो सोऽमे. ॥४७॥
तस्य वसत्यादिविधानमाहचरमपौरुषीप्राप्तिस्थान एवाप्रमादी समो ध्याता ॥ ४८ ॥
चरमेति, अभिग्रहविशेषाभावाद्यत्रैव शून्यगृहे वा सभायां वा प्रपायां वाऽऽपणेषु वा श्मशाने वृक्षमूले वा चरमपौरुषी भवति तत्रैवाऽनुज्ञाप्य स्थितो जगत्त्रयवेत्ता स मुनिनिश्चितमनाः प्रकर्षेण त्रयोदशवर्षं यावत्समस्तां रात्रि दिनमपि यतमानो निद्रादिप्रमादरहितो यथा भगवतो द्वादशसंवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त यावत् स्वप्नदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत् ततोऽपि चोत्थायात्मानं कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत्तत्रापि न स्वापाभ्युपगमपूर्वकं शयितः, तथा निद्राप्रमादाट्युत्थितचित्तः संसारपातायायं प्रमाद इत्येवमवगच्छन्नप्रमत्तः संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात्ततस्तस्मानिष्क्रम्यैकदा शीतकालरात्र्यादौ बहिश्चंक्रम्य मुहूर्त्तमात्रं निद्राप्रमादापनयनार्थं ध्याने स्थितवान्, तदेवं वसतिस्थानेषु सोऽहिनकुलादिकृतान् गृध्रादिकृतान् चौरादिकृतान् ग्रामरक्षकादिकृताननुकूलप्रतिकूलरूपान् भीमानुपसर्गान् समितस्सदाऽधिसहते, दुष्प्रणिहितमानसैः को भवानिति पृष्ट उत्तराप्रदानेन कषायितैर्यदि दण्डमुष्ट्यादिताडनतोऽनार्यत्वमाद्रियते तदा ध्यानोपगतचित्तः सन् सम्यक्तितिक्षते, कदाचिद्भिक्षुरस्मीत्येतावन्मात्रं भगवतोत्तरितं निशम्य मोहान्धा यदि तूर्णमस्मात्स्थानानिर्गच्छेति ब्रूयुस्ततो भगवानचियत्तावग्रह इति कृत्वा निर्गच्छति, यदि वा न निर्गच्छति किन्तु सोऽयमुत्तमो धर्म इति कृत्वा कषायितेऽपि तस्मिन् गृहस्थे स तूष्णीम्भावव्यवस्थितो न ध्यानात् प्रच्यवते । तथा लाढेषु वज्रभूमिशुभ्रभूमिस्वरूपेण द्विरूपेषु विहरंस्तज्जानपदाचरितान् बहून् प्रतिकूलानुपसर्गान् समतया सहमानः षण्मासावधि कालं स्थितवान् । एवं कासश्वासादिद्रव्यरोगाणां देहजानां भगवतोऽभावेऽप्यसवेंदनीयादिभिर्भावरोगैः स्पृष्टोऽस्पृष्टोऽप्यवमौदर्यं विधत्ते, न वा श्वभक्षणादिभिरागन्तुकद्रव्यरोगैः स्पृष्टोऽपि द्रव्यौषधाधुपयोगतः