________________
२५०
सूत्रार्थमुक्तावलिः
પાત્રની સાથે રજોહરણ-મુહપત્તિ એ નવવિધ ઉપધિ તથા ઉપર જે અછિદ્રપાણિને ગણાવી તેમ એક-એક વસ્તુ તેમાં ભેળવતાં દશ પ્રકારની, અગ્યાર તેમજ બાર પ્રકારની ઉપધિ હોય છે. આ જ રીતે ગ્રામાદિથી બહાર વિહાર કરે કે સ્થંડિલ જાય તો પણ પોતાનાં સર્વ ઉપકરણ સાથે લઈને જાય. ગચ્છથી નીકળેલા એવા સાધુ માટે આ સમાચારી કહી, ગચ્છમાં રહેલો સાધુ તેને વિચારભૂમિ જવું હોય તો ઉપયોગપૂર્વક જવું. તેમાં જો વરસાદ અત્યંત ધેરાયેલો હોય કે ધૂંધળું વાતાવરણ હોય તો અથવા ધૂળ રહિત વાવાઝોડું હોય, (જિનકલ્પિક તો છ મહિના સુધી સ્થંડિલ રોકી શકવાની શક્તિવાળો હોય તેથી ન જ જાય.) પરંતુ, ગચ્છવાસી તો કા૨ણે જો જાય તો સર્વ उपरा सहने न भय. या
भिक्षाविषये नियममाह
उपयुक्तः कृतगोदोहादि विदित्वाऽप्राप्तमातृस्थानोऽपिहितद्वारं निर्गतश्रमणं गृहञ्च प्रविशेत् ॥ ५६ ॥
उपयुक्त इति, भिक्षार्थं गृहपतिकुलं रथ्यां ग्रामादिकं प्रविविक्षुर्मार्गे सोपयोगः स्यात्, गच्छतस्तस्य हि मार्गे वप्रप्राकारतोरणार्गलादीनि स्युः, असंयतो भूत्वा च गमने मार्गस्य विषमतया प्रस्खलनपतनादिप्रसङ्गेन जीवविराधनायाः कायस्य चोच्चारप्रस्रवणश्लेष्मसिंघाणकाद्युपलिप्ततायाश्च प्रसङ्गः तथा च संयमात्मविराधना भवेत्, कदाचित्कर्दमाद्युपलिप्तोऽपि चित्तवद्भिः पृथ्वीशकलादिभिर्न शोधयेत्, याचनयाऽल्परजस्कं तृणादिकमवाप्य एकान्तस्थण्डिले शोधयेत् । कृतेति, यत्र क्षीरिण्यो गावो द्रुह्यन्ते तत्र तदा न प्रविशेत्, अन्यथा श्रद्धया तदानीमागतं यतिं विलोक्य गृहपतिरस्मै प्रभूतं ददामीति वत्सकपीडां विदध्यात्, त्रसेयुर्वा गावो विलोक्य तम्, आदिना च यत्राहार उपस्क्रियमाणो भवति तदा तत्र नो यायात्, त्वरया पाकाय ते कृतप्रयत्ना भवेयुस्ततः संयमविराधनाप्रसङ्गः स्यादित्यपि ग्राह्यम्, एकान्ते चावस्थितो निवृत्तगोदोहनादि विदित्वा ततस्तत्र गोदोहिकानन्तरं यायात् । अप्राप्तअमायामातृस्थान इति, य: कश्चित्साधुर्जङ्घाबलपरिक्षीणतया मासकल्पविहारितया वैकत्रैव क्षेत्रे तिष्ठन्ननुग्रामं गच्छतः प्राघूर्णिकान् यद्येवं वदेत्, क्षुल्लकोऽयं ग्रामः सूतकादिना सन्निरुद्धोऽल्पगृहभिक्षादो वा, भवन्तो भिक्षाचर्यार्थं बहिर्ग्रामं व्रजतेति, तथा यो भिक्षुरहं भिक्षाकालादर्वागेव भ्रातृव्यश्वशुरादिसम्बन्धिगृहं भिक्षार्थं प्रवेक्ष्यामि तत्र सरसं भक्तं पेयञ्च गृहीत्वा भुक्त्वा पीत्वा पतद्ग्रहं संलिख्य प्रमृज्य च प्राप्ते भिक्षावसरेऽविकृतवदनः प्राघूर्णिकभिक्षुभि: साकं पिण्डप्रतिज्ञया गृहपतिकुलं प्रवेक्ष्यामीत्येवमभिसन्धत्ते स मातृस्थानं मायाशल्यं प्रतिषिद्धं संस्पृशति, एवं यत्राग्रपिण्डाद्यर्थं श्रमणब्राह्मणादयो वयमत्र लप्स्यामह इति त्वरितं