________________
सूत्रकृतांग
३०९
સાક્ષાત્ સંબંધ થતો નથી. જે ચૈતન્ય પ્રાપ્ત થાય તે કાયાકારે પરિણમેલ પાંચ ભૂતોમાં પાંચના સમુહમાં જ શરીર ઇન્દ્રિયથી વિષય સંજ્ઞા થાય છે. તેમાંથી જ ચૈતન્ય જેમ ભૂતકાર્યના પણાથી અલગ ઘટ વગેરે પદાર્થો નથી. તેમ ચૈતન્ય પણ શરીર રૂપ વિશિષ્ટ પાંચ ભૂતના પરિણામ રૂપે જ આત્મા છે. મરણ વગેરેનો વ્યવહાર ભૂતોના પરિણામથી ચૈતન્ય પ્રગટીકરણ થાય છે. તેમાંથી કોઇપણ એકનો વિનાશ થવાથી ચૈતન્યનો અભાવ થાય છે. મૃત્યુ જીવ નામનો કોઇ જુદો પદાર્થ નીકળવાથી નથી થતું... કેટલાક લોકાયતિક એટલે નાસ્તિકો આકાશને પણ ભૂતરૂપે સ્વીકારતા होवाथी पांय से प्रभारी युं छे. ॥ ४ ॥
तदेतन्मतं निराकरोतितन्न, अभिव्यक्त्युत्पत्तिभ्यां ततश्चैतन्यासम्भवात् ॥५॥
तन्नेति, विशिष्टपञ्चभूतपरिणाम आत्मा नेत्यर्थः, तत्र हेतुमाहाभिव्यक्तीति, तथाहि तत्र किं सतश्चैतन्यस्याभिव्यक्तिः, असतो वा, सदसद्रूपस्य वा, न प्रथमः, तस्यानाद्यनन्तत्वसिद्धिप्रसङ्गात्, तत्सिद्धिव्यतिरेकेण सर्वदा चैतन्यस्य सत्त्वासम्भवात्, पृथिव्यादिसामान्यवत्, तथा च परलोकिनोऽभावात् परलोकाभाव इत्यभ्युपगमो बाधितः स्यात् । न द्वितीयः, प्रतीतिविरोधात्, सर्वथाप्यसतः कस्यचिदभिव्यक्त्यप्रतीतेः । न तृतीयः, परमतप्रवेशप्रसङ्गात्, कथञ्चिद्रव्यतः सतश्चैतन्यस्य पर्यायतोऽसतश्च कायाकारपरिणतपृथिव्यादिपुद्गलैरभिव्यक्तेः परैरपि स्वीकारात्, ननु तत्र चैतन्यस्योत्पत्तिरभ्युपगम्यते न त्वभिव्यक्तिः, नातः पूर्वोक्तो दोषः, विशिष्टपरिणामः शरीरेन्द्रियादिलक्षणः कारकः, कारकत्वञ्चासतः स्वरूपनिर्वर्तकत्वमित्याशङ्कायां तत्रापि दोषमाविष्कर्तुमुक्तमुत्पत्तीति, तथा हि किं भूतानि चैतन्यं प्रत्युपादानकारणानि, सहकारिकारणानि वा, नाद्यः, यथा हि सुवर्णोपादाने किरीटादौ सुवर्णस्यान्वयस्तथा चैतन्ये भूतान्वयः स्यात्, न चैवम्, न हि भूतग्रामः पूर्वतनमचेतनस्वरूपं परित्यज्य चेतनाकारमादधानो धारणद्रवोष्णतेरणलक्षणेन रूपादिमत्तया वा भूतस्वभावेनन्वितः प्रमाणसिद्धः, अपि तु तथाविधस्वभावरहितमेव चैतन्यमन्तःसंवेदनेनानुभूयते, न च प्रदीपाद्युपादानेन कज्जलादिना प्रदीपाद्यनन्वयिना व्यभिचारः, रूपादिमत्त्वेन तस्यान्वयित्वदर्शनात् । पुद्गलविकाराणां रूपादिमत्त्वमात्राव्यभिचारात् । न च सत्त्वक्रियाकारित्वादिधमैर्भूतचैतन्ययोरन्वयित्वमस्तीति वाच्यम्, तथा सति जलानलादीनामपि तथाविधधर्मान्वयितयोपादानोपादेयभावप्रसङ्गात् । न द्वितीयः, उपादानकारणतयाऽन्यस्य कल्पनाप्रसङ्गात्, भूतानां सहकारित्वात्, अनुपादानस्य कस्यचिदपि कार्यस्यानुपलब्धेः । न च भूतेष्वेव कस्यचिदेकस्योपादानत्वमन्येषां सहकारित्वमिति वाच्यम्, विनिगमनाविरहेण सर्वेषामेवो