Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 377
________________ सूत्रकृतांग ३७१ मनुपालयेत्, ज्ञानसमाधियुक्तः स्वाख्यातधर्माभवेत्, चित्तविप्लुतिं विहाय तदेव च निःशङ्ख यज्जिनैः प्रवेदितमित्येवं निःशङ्कतया विद्वज्जुगुप्सां न कुर्यात्, येन केनचित्प्रासुकाहारोपकरणादिना गतो विधिनाऽऽत्मानं संयमे स्थापयेत्, आत्मवत्सर्वप्राणिनः पश्येत्, एवम्भूत एव भावसाधुर्भवति, यथा च ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते तथाऽन्येषामपीति मत्वा प्रजास्वात्मसमो भवति तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी सन् कर्माश्रवलक्षणमाहारोपकरणादेर्धनधान्यद्विपदचतुष्पदादेर्वा परिग्रहणलक्षणं सञ्चयञ्च विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यात्, प्राणिगणञ्च समतया प्रेक्षमाणस्य न कश्चित्प्रियो नापि द्वेष्यो भवति, तथा च निःसङ्गः सम्पूर्णभावसमाधियुक्तो भवति, कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गस्तर्जितो दीनतामवाप्य विषण्णो भवति, विषयार्थी वा कश्चिद्रार्हस्थ्यमप्यवलम्बते रससातगौरवगृद्धो वा पूजासत्काराभिलाषी स्यात्तदभावे दीनः पार्श्वस्थादिभावेन विषण्णो भवति, श्लाघाभिमानी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते, अपरश्चाधाकर्माद्याहारोपकरणाभिलाषी संयमोद्योगे विषण्णानां पार्श्वस्थावसन्नकुशीलानां विषण्णभावमेषते, तदेवं संयमस्खलिता अल्पसत्त्वाः संसारपर्यङ्कावसन्ना असमाहिता विषमं नरकादियातनास्थानमुपयन्ति, तस्माद्विवेकी विदितमर्यादोऽखिलसमाधिगुणवेत्ता धर्ममालोच्य सबाह्याभ्यन्तरसङ्गविप्रमुक्तो मुक्तिगमनैकहेतुं संयमानुष्ठानमनुतिष्ठेत्, औदारिकं शरीरं पार्श्वस्थादिसङ्गविप्रमुक्तो विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणः कृशयेत्, एकत्वभावनाभावितमनाः शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणः संयमेऽरतिमसंयमे च रतिमभिभूय भावसमाधि प्राप्तः शीतोष्णादिपरीषहानभोक्ष्यतया निर्जरार्थमधिसहेत, वाग्गुप्तश्च शुद्धलेश्यामुपादायाशुद्धां परिहत्य संयमानुष्ठाने व्रजेत्, य एवं स समाहितोऽनिदानो भावभिक्षुर्भवतीति ॥३८॥ સમાધિ વગર ધર્મ અપૂર્ણ હોવાથી હવે સમાધિને કહે છે. સૂત્રાર્થ :- સમાધિવાળો, નિયાણા વગરનો ભાવ ભિક્ષુક છે. ટીકાર્થ :- દર્શન, જ્ઞાન, તપ, ચારિત્રરૂપ ભાવસમાધિમાં રહેલો આત્મા સમાધિસ્થ કહેવાય છે. જે સમ્યફ પ્રકારે ચરણમાં રહ્યો હોય તે ચાર પ્રકારની ભાવસમાધિમાં સમાહિત આત્મા થાય છે. અથવા જે ભાવસમાધિમાં સમાદિતાત્મા હોય તે સમ્યકચરણમાં વ્યવસ્થિત થયેલા હોય. દર્શન સમાધિમાં જે રહેલો હોય તે જિનવચનથી ભાવિત અંતઃકરણવાળો, તે હવા વગરના સ્થાનમાં રહેલા દિવાની જેમ કુબુદ્ધિ વાયુ વડે ભ્રમિત થતાં નથી. જ્ઞાન સમાધિ વડે જેમ જેમ અપૂર્વશ્રુતને ભણે તેમ તેમ અત્યંતાભાવ સમાધિમાં પ્રયત્નશીલ થાય. ચારિત્ર સમાધિમાં પણ

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470