________________
आचारांगसूत्र
१९५
જાણીને પાપાનુબંધી કર્મ કરે નહીં. કરાવે નહીં. કરતાને અનુમોદના ન કરે. આથી આત્માથી અગ્ર અને મૂલને અલગ કરવું જોઈએ. (કર્મથી રહિત થવું જોઈએ.) ભવોપગ્રાહી ચાર કર્મને 'अ' उवाय छे. या२ घातीभनि 'भूख' उपाय छे. अथवा तो भोडनीय 'भूत' भने शेष भ 'अ' ३५ छे. भो नीयन पशथी ( डोय तो.) पाहीनी प्रतिमोनो ५ थाय छे. अथवा तो मिथ्यात्व ते 'भूत' भने शेष ते 'म'३५ ७.
અથવા જે અસંયમરૂપ ક્રિયા તે મૂલ અને સંયમ, તપ, મોક્ષ તે “અગ્ર” રૂપ છે. આ રીતે सय मने भूस, दु:५-सुमना ।२५५3 (मने शत) all 514 छे.
તે આ મુનિ તપ, સંયમ વડે રાગાદિ બંધનને અને તેના કાર્યોને અથવા તેનાથી થતા કર્મોને છેદીને નિષ્કમ, આવરણરહિત, સર્વજ્ઞાની, સર્વદર્શી થાય છે. તેવો જ મુનિ સંસારથી મુક્ત થાય छ. मे प्रमाणेनो भावार्थ छ. ॥२८॥
अथ संयमानुष्ठाय्येव मुनिन केवलं परीषहोपसर्गादिदुःखसहः पापकर्मानुष्ठायी वेत्याहसन्धिज्ञो मुनिर्विज्ञाय गत्यागती रागद्वेषाभ्यां न लिप्येत ॥ २९ ॥
सन्धिज्ञ इति, सन्धिर्विवरमवसरो वा, तं जानातीति सन्धिज्ञः, स सम्यक्त्वावाप्तिलक्षणं सम्यग्ज्ञानावाप्तिरूपं चारित्रमोहनीयक्षयोपशमात्मकं वा कर्मविवरं धर्मानुष्ठानस्यावसरं विज्ञाय जीवव्रातस्य दुःखोत्पादनानुष्ठानं न विदध्यात्, सर्वत्रात्मौपम्यं समाचरेत्, निखिला हि प्राणिनो दुःखं द्विषन्ति सुखमभिलषन्ति चातस्तेषां न करणत्रयैर्व्यापादको भवेत् । एवं समताव्यवस्थित आगमपर्यालोचनयाऽऽत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्यात् आत्मप्रसन्नता च संयमस्थस्य भवति, अयमेव च मुनिनैश्चयिकः, न तु पापकर्माकरणमात्रतया मुनिः, तत्र मुनित्वस्यानिमित्तत्वात् परस्परतो भयेन लज्जया वा हि पाप कर्म न करोत्यपरः, न तु मुनित्वात्, अद्रोहाध्यवसायो हि मुनिः, स च तत्र नास्ति, अपरोपाध्यावेशात्, शुभान्त:करणपरिणामव्यापारापादितक्रियस्यैव मुनिभावो नान्यथेति निश्चयनयाभिप्रायः । व्यवहारनयापेक्षया तु यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गौरवेण वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रियाः करोति तत्र तस्य मुनिभाव एव कारणम्, तद्व्यापारापादितपारम्पर्ये शुभाध्यवसायोपपत्तेरिति । तदेवं शब्दादिविषयपञ्चकेषु विगतरागद्वेषोऽत एव गुप्त आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न क्वाप्यस्यादिना छेद्यते कुन्तादिना भिद्यते पावकादिना वा दह्यते, किन्तु रागद्वेःषाभावात्सिद्ध्यत्येव । आगतिर्हि तिर्यङ्मनुष्ययोश्चतुर्धा, चतुर्विधनरकादिगत्यागमनसद्भावात्,