________________
आचारांगसूत्र
१९७
નરક આદિ ચારે ગતિમાંથી આવવાની સંભાવના હોવાથી તિર્યંચ અને મનુષ્યની આગતિ ચાર પ્રકારે છે. તિર્યંચ અને મનુષ્ય એ બે ગતિમાંથી જ આગમનનો સંભવ છે માટે દેવ-નારકની આગતિ બે પ્રકારે છે. મનુષ્યમાં પાંચ પ્રકારે કારણ કે ત્યાં મોક્ષગતિનો અભાવ છે.
આ રીતે આગતિ-ગતિને જાણીને રાગ-દ્વેષનો ત્યાગ કરવો. તેના અભાવથી છેદનાદિ સંસારના દુઃખનો અભાવ થાય છે. જે જીવ અમે ક્યાંથી આવ્યા? ક્યાં જવાના? અથવા અમારું શું થશે ? એ પ્રમાણે વિચારતો નથી તે જીવની સંસારમાં જ રતિ છે. એમ જાણવું. ૨૯
य एवं निष्प्रत्यूहं मोक्षमार्गानुष्ठाता स एवात्मनो मित्रमित्याहस एव समदात्मनो मित्रं क्रोधादीन् वमितेति सर्वज्ञोपदेशः ॥ ३० ॥
स एवेति, यो रागद्वेषविप्रमुक्तो विषयसुरवभोगादिकं पूर्वमनुभूतं न स्मरति न वाऽनागतमभिवाञ्छति भगवद्वचनामृतपानादतिक्रान्तसंसारमिवानागतमपि संसारं मन्यते स पूर्वोपचितकर्मक्षपणाय प्रवृत्तो धर्मध्यायी शुक्लध्यायी वेष्टाप्राप्तिविनाशजनितमानसविकारलक्षणाऽरतिविषेशेऽभिलषितार्थप्राप्तिजनितानन्दस्वरूपे रतिविशेषे चोपसर्जनप्राये तदाग्रहमतिरहितस्तावनुचरति, तस्य च मुमुक्षोस्संयमानुष्ठानमात्मसामर्थ्यात् फलवद्भवति न परोपरोधेन, परो हि मित्रादिः स्यात्, स च मित्रादिः संसारसाहाय्योपकारितया मित्राभास एव, वास्तविकोपकारिमित्रन्तु पारमार्थिकात्यन्तिकैकान्तिकसुखादिगुणोपेतः सन्मार्गपतित आत्मैव, तस्यैव तादृशसुखोत्पादनिमित्तत्वात्, बाह्यश्च मित्रामित्रविकल्पोऽदृष्टोदयनिमित्तत्वादौपचारिकः । यो हि सन्मार्गानुष्ठाता स कर्मणां तदाश्रवद्वाराणाञ्चापनेता, बाह्यविषयाभिष्वङ्गाय प्रवर्त्तमानमात्मानमेवाभिगृह्य धर्मध्यानादिना दुःखाद्विमोचनात् । तस्मादासेवनापरिज्ञया संयममवेत्यानुतिष्ठेत् गुरुसमक्षपरिगृहीतप्रतिज्ञां परिपालयेत्, तदेवं भगवदाज्ञोपस्थितो मेधावी दुःखेनोपसर्गजेन व्याधिजेन वा स्पृष्टोऽपि न व्याकुलमतिस्तद्रीकरणाय यतेत, इष्टविषयावाप्तौ रागस्यानिष्टप्राप्तौ च द्वेषस्य सम्भवात्, एवंविधश्च विवेकी चतुर्दशजीवस्थानान्यतरव्यपदेशार्हाल्लोकात् प्रमुच्यते, अत एवाचिरात् स्वपरापकारिक्रोधादीन् वमिता भवति, तस्यैव च पारमार्थिकश्रमणभावः, तदुक्तम् ‘श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पवनिष्फलं तस्य श्रामण्यम् ॥ यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोट्या । तदपि कषायितमात्रो हारयति नरो मुहूर्तेन' ॥ इति । तदेवं कषायवमनमवश्यं कार्यम्, तदौत्कट्ये श्रामण्यस्य नैष्फल्यादिति यथावस्थितवस्तुवेदिनो भगवत उपदेशः, कषायवमनमन्तरेण तीर्थकृतोऽपि न निरावरणाखिलपदार्थसाक्षात्कारकारिपरमज्ञानावाप्तिः, तदभावे च मोक्ष