________________
२२२
सूत्रार्थमुक्तावलिः
ધર્માત્મક છે આવું વિચારતો નથી. તેમજ સર્વનયથી યુક્ત પરમાત્માનું દર્શન અતિગહન છે. અલ્પ બુદ્ધિવાળાને તે શ્રદ્ધા ગમ્ય છે. પરંતુ, હેતુગમ્ય નથી. કારણ કે હેતુ એકાદ ધર્મને જ સાધી શકે છે. તેથી હેતુ એક નયઆશ્રિત હોય છે. સર્વધર્મસાધક હેતુનો સંભવ જ નથી. તેથી આવી શંકા છોડીને જિનોપદેશ ૫૨ શ્રદ્ધા રાખીને હંમેશા આચાર્યના માર્ગનું અનુસરણ કરવું भेखे. ॥४१॥
अथ तथाविधाऽऽचार्यसंसेवनात् कुमार्गपरित्यागो रागद्वेषाभावश्चावश्यम्भावीत्याहतद्युक्तोऽनभिभूतो विवेकी निरास्त्रवोऽकर्मा भवति ॥ ४२ ॥
तद्युक्त इति, दुर्गतिप्राप्तिहेतुसावद्यस्वमनीषिकापरिकल्पितानुष्ठानविकलः सर्वकार्येषु तद्युक्तः- आचार्यानुमत्यनुवर्त्तनशीलोऽनुकूलप्रतिकूलोपसर्गैः परतीर्थिकैर्वाऽनभिभूतोऽत एव विवेकी सर्वज्ञोपदेश एव प्राणिभृतामिह लोके परमसुखसाधनसमर्थत्वात्सारभूतो नान्यः कश्चिन्मातापितृकलत्रमित्रपुत्रादिः, तस्य दुर्गतिसाधनत्वेनासारत्वात्, न वा परतीर्थिकोपदेशाः सारभूताः, परस्परविरुद्धप्रवादत्वेन मिथ्यात्वमूलत्वात्, न हि तनुभुवनादिकमीश्वरकृतमिति वैशेषिकप्रवादो युक्तियुक्तः अथ्रेन्द्रधनुरादीनां विस्रसापरिणामजनितानां तद्व्यतिरेकीश्वरकारणकल्पनायामतिप्रसङ्गात्, घटादीनां दृष्टकारणव्यापारापादितजन्मनामदृष्टव्यापारेश्वरकल्पने रासभादेरपि कारणत्वं स्यादिति, तथा प्रकृति: करोति पुरुषोऽकर्तोपभुङ्क्त इति सांख्यप्रवादोऽपि युक्तिशून्यः, अचेतनायाः प्रकृतेरात्मोपकाराय क्रियाप्रवृत्त्यसम्भवात् नित्यायाः प्रवृत्त्यसम्भवाच्च, पुरुषस्याप्यकर्तृत्वे संसार उद्वेगो मोक्ष उत्साहो भोक्तृता च न स्यादिति, सर्वं क्षणिकं सत्त्वादिति बौद्धवादोऽपि न युक्तः, निरन्वयविनाशितायां हेतुफलभावानुपपत्तेः, सन्तानिव्यतिरेकेण सन्तानस्याभावादेकसन्तानान्तर्भावेण तदुपपत्तिरिति कल्पनाया अप्यसम्भवादिति । बार्हस्पत्यवादस्तु भूतमात्राभ्युपगमेनात्मपुण्यपापपरलोकादीनामभावादत्यन्तगर्ह्य एवेत्येवं सारासारविवेकी स्वस्य वा तथाविधविवेचनाशक्त्यभाव आचार्याद्युपदेशाद्यथावस्थितवस्तुविवेक्यणिमाद्यष्टविधैश्वर्यदर्शनादपि परतीर्थिकानिन्द्रजालकल्पानवधारयन् लघुकर्माऽणुमात्रमप्यनुल्लंघिततीर्थकराद्युपदेशो निरास्रव:- आस्रवद्वारनिरोधं विदधानः सदा कर्मरिपून्मूलने पराक्रमेत, येनाकर्मा भवति, घातिकर्मरहितो भवति, तदभावाच्च केवलज्ञानी केवलदर्शनी च भवति, स एव संसारार्णवपारवर्त्ती विदितवेद्यश्चेति ॥ ४२ ॥
હવે તેવા પ્રકારના આચાર્યની સેવાથી કુમાર્ગનો ત્યાગ અને રાગ-દ્વેષનો અભાવ નિશ્ચે થાય છે તે કહે છે.