________________
सूत्रकृताङ्गे भाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा ८
परसमयवक्तव्यतायां चार्वाकाधिकारः
तदेवं प्रत्यक्षादन्यदपि प्रमाणमस्ति, तेनाऽऽत्मा सेत्स्यति, किं पुनस्तदिति चेद्, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत्, चक्षुरिन्द्रियं हि न साक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या त्वनुमीयते, तथाऽऽत्माऽपि पृथिव्याद्यसाधारणचैतन्यगुणोपलब्धेरस्तीत्यनुमीयते चैतन्यं च तस्यासाधारणगुण इत्येतत् पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतत्वादवसेयम् । तथाऽस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसङ्कलनाप्रत्ययसद्भावात्, पञ्चगवाक्षाऽन्याऽन्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत् । तथाऽऽत्मा, अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थस्मरणात्, गवाक्षोपरमेऽपि तद्द्द्वारोपलब्धार्थस्मर्तृदेवदत्तवत् । तथा अर्थापत्त्याऽप्यात्माऽस्तीत्यवसीयते । तथाहि - सत्य पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणां सद्भाव इति, अतः सामर्थ्यादवसीयते - अस्ति भूतातिरिक्तः कश्चित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चाऽऽत्मेति, तदेवं प्रत्यक्षानुमानादिपूर्विकाऽन्याऽप्यर्थापत्तिरभ्यूह्या, तस्यास्त्विदं लक्षणम् -
प्रमाणषट्कविज्ञातो, यत्राऽर्थो नान्यथाभवन् । अदृष्टं कल्पयेदन्यं, सार्थापत्तिरुदाहृता ||१||
तथाऽऽगमादप्यस्तित्वमवसेयं, स चायमागमः "अत्थि मे आया उववाइए" इत्यादि । यदिवा किमत्रापरप्रमाणचिन्तया ? सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षत्वात्, ज्ञानगुणस्य च गुणिनोऽनन्यत्वात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षत्वेन पटादिप्रत्यक्षवत्, तथाहि - अहं सुख्यहं दुःख्येवमाद्यहं प्रत्यक्षग्राह्यश्चात्मा प्रत्यक्षः, अहं प्रत्यक्षस्य स्वसंविद्रूपत्वादिति । ममेदं शरीरं पुराणं कर्मेति च शरीराद् भेदेन निर्दिश्यमानत्वाद्, इत्यादीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति । तथा यदुक्तं 'न भूतव्यतिरिक्तं चैतन्यं तत्कार्य्यत्वात् घटादिवदि'ति, एतदप्यसमीचीनं, हेतोरसिद्धत्वात्, तथाहि - न भूतानां चैतन्यं कार्य्यं, तेषामतद्गुणत्वात्, भूतकार्य्यचैतन्ये संकलनाप्रत्ययासंभवाच्च, इत्यादिनोक्तप्रायम्, अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम्।
ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्विन्नेनाश्रितेन ? यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनान्तर्गडुकल्पेनेति, तथाहि - ज्ञानस्यैव चिद्रूपत्वाद् भूतैरचेतनैः कायाकारपरिणतैः सह सम्बन्धे सति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाः प्रादुष्यन्ति, तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, तदेवं व्यवस्थिते किमात्मना कल्पितेनेति ?
अत्रोच्यते, न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटते । तथाहि - प्रत्येकमिन्द्रियैः स्वविषयग्रहणे सति परविषये चाप्रवृत्तेरेकस्य च परिच्छेतुरभावान्मया पञ्चाऽपि विषयाः परिच्छिन्ना इत्यात्मकस्य संकलनाप्रत्ययस्याभाव इति । आलयविज्ञानमेकमस्तीति चेदेवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात् । न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति । स च न सर्वव्यापी तद्गुणस्य सर्वत्रानुपलभ्यमानत्वात्, घटवत् । नाऽपि श्यामाक तन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापित्वात् । त्वक्पर्य्यन्तशरीरव्यापित्वेन चोपलभ्यमानगुणत्वात्। तस्मात्स्थितमिदम् - उपात्तशरीरत्वक्पर्य्यन्तव्याप्यात्मेति । तस्य चानादिकर्मसम्बद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्तत्वे मूर्तेन कर्मणा सम्बन्धो न विरुध्यते । कर्मसम्बन्धाच्च सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुष्पञ्चेन्द्रियपर्य्याप्तापर्य्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति । तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययन श्रमप्रत्यभिज्ञानाद्यभावः। एकान्तनित्यत्वे च नारकतिर्यङ्मनुष्यामरगतिपरिणामाभावः स्यात्, तस्मात् स्यादनित्यः स्यान्नित्य आत्मेत्यलमतिप्रसङ्गेन ॥ ८ ॥
टीकार्थ - पूर्वोक्त पृथिवी आदि, जो पाँच महाभूत हैं, इनके शरीर रूप में परिणत होने पर भूतों से अभिन्न ज्ञानस्वरूप एक आत्मा उत्पन्न होता है । अतः दूसरे वादियों द्वारा कल्पित, पाँच भूतों से भिन्न, परलोक में जानेवाला, सुख-दुःख भोगनेवाला, जीव नामक कोई दूसरा पदार्थ नहीं है, यह लोकायतिक लोग कहते हैं । वे लोग इसको इस प्रकार प्रमाणित करते हैं- "पृथिवी आदि से भिन्न 'आत्मा' नाम का कोई पदार्थ नहीं है, क्योंकि उसका बोधक कोई प्रमाण नहीं मिलता है । प्रमाण भी एकमात्र प्रत्यक्ष ही है । अनुमान आदि प्रमाण नहीं है, क्योंकि अनुमान आदि में पदार्थ का इन्द्रिय के साथ साक्षात् सम्बन्ध नहीं होता हैं । इसलिए उनका मिथ्या होना संभव है । जब कि अनुमान आदि मिथ्या भी हो सकते हैं, तथा उनमें बाध और असंभव दोष भी हो सकते हैं, तो उनमें प्रमाण
1. अस्ति में आत्मोपपातिकः ।
१२