________________
सूत्रकृताङ्गेभाषानुवादसहिते तृतीयाध्ययने चतुर्थोद्देशकः गाथा ६
उपसर्गाधिकारः युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा - शालिबीजाच्छाल्यङ्कुरो जायते न यवाङ्कुर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा ह्यागमोऽप्येवमेव व्यवस्थितः -
'मणुण्णं भोयणं भोच्चा, मणण्णं सयणासणं । मणुण्णंसि अगारंसि, मणुण्णं झायए मुणी ||१|| तथा - मृद्वी शय्या प्रातरुत्थाय पेया, भकं मध्ये पानकं चापराह्न । द्राक्षाखण्डं शर्करा चादराये, मोक्षश्वान्ते शाक्यपुत्रेण दृष्टः ||१||
इत्यतो मनोज्ञाहारविहारादेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्तिः, अतः स्थितमेतत् - सुखेनैव सुखावाप्तिः न पुनः कदाचनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितं, इत्येवं व्यामूढमतयो ये केचन शाक्यादयः 'तत्र' तस्मिन्मोक्षविचारप्रस्तावे समुपस्थिते, आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासनप्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति, तथा च - 'परमं च समाधि' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि - यत्तैरभिहितं - कारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः शृङ्गाच्छरो जायते गोयमावृश्चिको गोलोमाविलोमादिभ्यो दूर्वेति, यदपि मनोज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विशूचिकादिसम्भवाद् व्यभिचारीति, अपिच - इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभासतया सुखमेव न भवति, तदुक्तम् -
दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुन्दिः । उत्कीर्णवर्णपदपकिरिवान्यलपा, सारूप्यमेति विपरीतगतिप्रयोगात् ||१||
इति, कुतस्तत्परमानन्दरूपस्यैकान्तिकस्यात्यन्तिकस्य मोक्षुसखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटन-परपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतोपन्यस्तं तदत्यन्ताल्पसत्त्वानामपरमार्थदृशां, महापुरुषाणां तु स्वार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तैकतानानां महासत्त्वतया सर्वमेवैतत्सुखायैवेति, तथा चोक्तम् -
तणसंथारनिविण्णोवि मुनिवरो भठ्ठरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? ||१|| तथा । दुःखं दुष्कृतसंक्षयाय, महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता, विरागपदवी संवेगहेतुर्जरा । सर्वत्यागमहोत्सवाय, मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं, जगदिदं स्थानं विपत्तेः कुतः? ||१||
इति, अपि च - एकान्तेन सुखेनैव सुखेऽभ्युपगम्यमाने विचित्रसंसाराभावः स्यात्, तथा स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्यात्, तथा नारकाणां च पुनर्दुःखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस्य स्यात्, न चैतत् दृष्टमिष्टं चेति ॥६॥
टीकार्थ - इस मोक्ष प्राप्ति के विचार के प्रकरण में शाक्य आदि तथा लोच आदि से पीड़ित कोई स्वयूथिक यह कहते हैं - इस गाथा में 'तु' शब्द पूर्वोक्त शीतल जल आदि के परिभोग से विशेषता बताने के लिए आया है । वे क्या कहते हैं ? बताया जाता है - सुख सुख से ही प्राप्त होता है। तथा वे कहते हैं कि
__(सर्वाणि) सभी प्राणी सुख में रत रहते हैं और सभी दुःख से डरते हैं, इसलिए सुख चाहने वाला पुरुष सुख ही देवे क्योंकि सुख देने वाला पुरुष सुख प्राप्त करता है । 1. मनोज्ञं भोजनं भुक्त्वा मनोज्ञे शयनासने । मनोज्ञेऽगारे मनोज्ञं ध्यायेन्मुनिः ।।9।। 2. तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्वाप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि? ॥१॥
२२९