________________
सूत्रकृताङ्गेभाषानुवादसहिते द्वितीयाध्ययने द्वितीयोद्देशकेः गाथा ७
मानपरित्यागाधिकारः कहते हैं । यहाँ 'पण्हसमत्थे यह दूसरा पाठ भी पाया जाता है। इसका अर्थ यह है कि प्रश्न के उत्तर देने में समर्थ पुरुष । इस प्रकार वह पुरुष जीतने योग्य कषायों पर सदा विजय करे । तथा अहिंसा आदि धर्मों का समभाव से उपदेश करे । तथा मुनि, संयमानुष्ठान की विराधना न करे, तथा मारा जाता हुआ क्रोध न हुआ गर्व न करे ॥६॥
बहुजणणमणमि संवुडो सव्वटेहिं णरे अणिस्सिए । हृद एव सया अणाविले धम्मं पादुरकासी कासवं
॥७॥ छाया - बहुजननमने संवृतः सवार्थेनरोऽनिश्रितः । हृद इव सदाऽनाविलो धर्म प्रादुरकार्षीत्काश्यपम् ।।
व्याकरण - (बहुजणणमणमि) अधिकरण (संवुडो) नर का विशेषण (णरे) कर्ता (हृद) उपमान कर्ता (सया) अव्यय (अणाविले) नर का विशेषण (सव्वटेहिं अणिस्सिए) नर का विशेषण (कासवं) धर्म का विशेषण (धम्म) कर्म (पादुरकासि) क्रिया ।
अन्वयार्थ - (बहुजणणमणमि) बहुत जनों से नमस्कार करने योग्य, यानी धर्म में (संवुडो) सावधान रहनेवाला (नरे) मनुष्य (सव्वद्वेहि अणिस्सिए) सब पदाथों में से ममता को हटाकर (हृद इव) तालाब की तरह (सया) सदा (अणाविले) निर्मल रहता हुआ (कासवं) काश्यपगोत्री भगवान् महावीर स्वामी के (धम्म) धर्म को (पादुरकासि) प्रकट करे ।
भावार्थ- बहुत जनों से नमस्कार करने योग्य धर्म में सदा सावधान रहता हुआ मनुष्य, धन-धान्य आदि बाह्य पदार्थों में आसक्त न रहता हुआ, तालाब की तरह निर्मल होकर काश्यपगोत्री भगवान् महावीर स्वामी के धर्म को प्रकट करे ।
टीका - बहून् जनान् आत्मानं प्रति नामयति-प्रह्वीकरोति तैर्वा नम्यते-स्तूयते बहुजननमनो धर्मः, स एव बहभिर्जनरात्मीयात्मीयाशयेन यथाऽभ्युपगमप्रशंसया स्तयते प्रशस्यते. कथम ? अत्र कथानकं-राज महाराजः, कदाचिदसौ चतुर्विधबुद्धयुपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासांचक्रे, तत्र कदाचिदेवम्भूता कथाऽभूत्, तद्यथा- इहलोके धार्मिकाः बहवः उताधार्मिका इति ? तत्र समस्तपर्षदाभिहितम् यथाऽत्राधार्मिकाः बहवो लोकाः धर्मं तु शतानामपि मध्ये कश्चिदेवैको विधत्ते, तदाकर्ष्याभयकुमारेणोक्तं-यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा क्रियताम्, पर्षदाऽप्यभिहितम् एवमस्तु, ततोऽभयकुमारेण धवलेतरप्रासादद्वयं कारितम्, घोषितं च डिण्डिमेन नगरे, यथा यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः? इत्येवं पृष्टः, कश्चिदाचष्टे-यथाऽहं कर्षक: अनेकशकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलकसमागतधान्यकणभिक्षादानेन च धर्म इति, अपरस्त्वाह-यथाहं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचस्नानादिभिर्वेदविहितानुष्ठानेन पितृदेवाँस्तर्पयामि, अन्यः कथयति यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्त्विदमाह- यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिकं कुटुम्बकं पालयाम्येव, तावत् श्वपाकोऽपीदमाह- यथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मन्निश्रयाश्च बहवः पिशितभुजः प्राणान् संधारयन्ति, इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासादं श्रावकद्वयं प्रविष्टम्, तच्च किमधर्माचरणं भवद्भ्यामकारीत्येवं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत् तथा साधव एवात्र परमार्थतो धार्मिकाः यथागृहीतप्रतिज्ञानिर्वाहणसमर्थाः, अस्माभिस्तु - "अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम | कृत्वा निवृत्तिं मद्यस्य सम्यक साऽपि न पालिता"||१||
अनेन व्रतभङ्गेन मन्यमाना अधार्मिकम् । अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः ||२|| तथाहि -
लज्जागुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयमनुवर्तमानाः ।। तेजस्विनः सुखमसूनपि संत्यजन्ति । सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ||३||
वरं प्रवेष्टुं ज्वलितं हुताशनं न चाऽपि भयं चिरसंचितव्रतम् । __ वरं हि मृत्युः सुविशुद्धचेतसो न चाऽपि शीलस्खलितस्य जीवितम् ॥४|| इति तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इति कृत्वा बहुजननमनो धर्म इति स्थितम् । तस्मिंश्च संवृतः
१३८