________________
सूत्रकृताङ्गेभाषानुवादसहिते तृतीयाध्ययने प्रथमोद्देशकः प्रस्तावना
तृतीयाध्यनस्य प्रस्तावना
|| अथ तृतीयोपसर्गाध्ययनस्य प्रथमोद्देशकः प्रारभ्यते ॥
उक्तं द्वितीयमध्ययनम् अधुना तृतीयमारभ्यते अस्य चायमभिसम्बन्धः - इहानन्तरं स्वसमयपरसमयप्ररूपणाऽभिहिता, तथा परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्येतच्चाभिहितं, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोस्थितस्य सतः कदाचिदनुकूलप्रतिकूलोपसर्गाः प्रादुर्भवेयुः, ते चोदीर्णाः सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्य्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वधा अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः 'सम्बुद्धस्सुवसग्गा' इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र स्वयमेव नियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह -
____ अब तीसरा उपसर्ग अध्ययन का प्रथम उद्देशक प्रारम्भ किया जाता है । दूसरा अध्ययन कहा जा चुका अब तीसरा आरम्भ किया जाता है । इसका सम्बन्ध यह है - पूर्व के अध्ययनों में - (प्रथम अध्ययन में) स्वसमय और परमसमय की प्ररूपणा की गयी है तथा (द्वितीय अध्ययन में) पर समय के दोष और अपने समय के गुणों को जानकर स्वसमय का ही ज्ञान प्राप्त करना चाहिए, यह कहा गया है । इस प्रकार सम्यग् उत्थान से उत्थित पुरुष को यदि कदाचित् अनुकूल तथा प्रतिकूल उपसर्ग उपस्थित हों तो वह पुरुष उन उपसर्गों को अच्छी तरह सहन करे यह बात इस तीसरे अध्ययन के द्वारा बतायी जाती है । इस सम्बन्ध से आये हुए इस अध्ययन के चार अनयोगद्वार होते हैं - इनमें उपक्रम में अर्थाधिकार दो प्रकार का होता है, अध्ययनार्थाधिकार और उद्देशार्थाधिकार । इनमें अध्ययनार्थाधिकार को प्रथम अध्ययन की प्रस्तावना में 'सम्बुद्धस्सुवसग्गा' इत्यादि गाथा के द्वारा नियुक्तिकार ने बतला दिया है और उद्देशार्थाधिकार को स्वयमेव नियुक्तिकार आगे चलकर बतलावेंगे । अब निर्यक्तिकार नामनिष्पन्न निक्षेप के विषय में कहते है - उयसग्गम्मि य छक्कं, दव्वे चेयणमचेयणं दुविहं । आगन्तुगो य पीलाकरो य जो सो उवसग्गो ॥४५॥ नि
टीका - नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाः षोढा, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्योपसर्ग दर्शयति 'द्रव्ये' द्रव्यविषये उपसर्गो द्वेधा, यतस्तद्रव्यमुपसर्गकर्तृ-चेतनाचेतनभेदाद् द्विविधं, तत्र तिर्यमनुष्यादयः स्वावयवाभिघातेन यदुपसर्गयन्ति स सचित्तद्रव्योपसर्गः, स एव काष्ठादिनेतरः । तत्त्वभेदपर्यायैर्व्याख्येति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादिपर्यायाः भेदाश्च तिर्य्यमनुष्योपसर्गादयः नामादयश्च, तत्त्वव्याख्यां तु नियुक्तिकृदेव गाथापश्चार्धेन दर्शयति-अपरस्माद् दिव्यादेरागच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति ।
क्षेत्रोपसर्गानाहनेतं बहुओघपयं, कालो एगन्त दूसमादीओ । भावे कम्मभुदओ,' सो दुविहो ओघुवक्कमिओ ॥४६॥ नि?
यस्मिन् क्षेत्रे बहून्योघतः-सामान्येन पदानि-क्रूरचौराद्युपसर्गस्थानानि भवन्ति तत् क्षेत्रं बह्वोघपदं, पाठान्तरं वा 'बह्वोघभयं' बहून्योघतो भयस्थानानि यत्र तत्तथा, तच्च लाढादिविषयादिकं क्षेत्रमिति, कालस्त्वेकान्तदुष्षमादिः, आदिग्रहणाद् यो यस्मिन् क्षेत्रे दुःखोत्पादको ग्रीष्मादिः स गृह्यत इति, कर्मणां-ज्ञानावरणीयादीनामभ्युदयो भावोपसर्ग इति । स चोपसर्गः सर्वोऽपि सामान्येन औधिकौपक्रमिकभेदाद् द्वेधा, तत्रौधिकोऽशुभप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशाशस्त्रादिनाऽसातावेदनीयोदयापादक इति ।
तत्रौघिकौपक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह - 1. कम्मस्सुदओ चू. ।