________________
सूत्रकृताङ्गे भाषानुवादसहिते तृतीयाध्ययने प्रथमोद्देशः गाथा १
साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् -
-
अब सूत्रानुगम में अस्खलित आदि गुणों के साथ सूत्र का उच्चारण करना चाहिए। वह सूत्र यह है सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती । जुज्झतं दढधम्माणं, सिसुपालो व महारहं
11811
छाया शूरं मन्यत आत्मानं यावजेतारं न पश्यति । युध्यन्तं दृढधर्माणं शिशुपाल इव महारथम् ॥
अन्वयार्थ - (जाव) जब तक (जेयं) विजेता पुरुष को (न पस्सती) नहीं देखता है तबतक कायर (अप्पाणं) अपने को (सूरं) शूर (मण्णइ ) मानता है । (जुज्झतं ) युद्ध करते हुए ( महारहं) महारथी ( दढधम्माणं) दृढधर्मवाले - कृष्ण को देखकर (सिसुपालो व ) जैसे शिशुपाल क्षोभ को प्राप्त हुआ था ।
उपसर्गाधिकारः
भावार्थ - कायर पुरुष भी तब तक अपने को शूर मानता है, जब तक वह विजेता पुरुष को नहीं देखता है, परंतु उसे देखकर वह क्षोभ को प्राप्त होता है, जैसे शिशुपाल अपने को शूर मानता हुआ भी युद्ध करते हुए महारथी दृढ़ धर्मवाले श्रीकृष्ण को देखकर क्षोभ को प्राप्त हुआ था ।
टीका - कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरमात्मानं मन्यते - निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूजन् गर्जति, तद्यथा न मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावद्गर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति, तथा चोक्तम् -
तावद्गजः प्रसुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु, लाङ्गूलविस्फोटरवं शृणोति ||१||
१८२
न दृष्टान्तमन्तरेण प्रायो लोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनात्प्राग् आत्मश्लाघाप्रधानं गर्जितवान्, पश्चाच्च युध्यमानं - शस्त्राणि व्यापारयन्तं दृढः - समर्थो धर्म:स्वभावः सङ्ग्रामभङ्गरूपो यस्य स तथा तं महान् रथोऽस्येति महारथः, स च प्रक्रमादत्र नारायणस्तं युध्यमानं दृष्ट्वा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एवमुत्तरत्र दान्तिकेऽपि योजनीयमिति । भावार्थस्तु कथानकादवसेयः, तच्चेदम्'वसुदेवसुसाएँ सुओ दमघोसणराहिवेण मद्दीए । जाओ चउब्ओऽब्यबलकलिओ कलहपत्तट्ठो ॥१॥ दट्ठूण ओ जणणी चउब्यं पुत्तमब्भुयमणग्धं । भयहरिसविम्हयमुही पुच्छइ णेमित्तियं सहसा ||२|| मित्तिएण मुणिऊण साहियं तीइ हट्ठहिययाए । जह एस तुब्भ पुत्तो महाबलो दुज्जओ समरे || ३ || एयस्स य जं दट्ठूणं होइ साभावियं भुयाजुयलं । होही तओ चिय भयं सुतस्स ते णत्थि सन्देहो ||४|| सावि भयवेविरंगी पुत्तं दंसेइ जाव कण्हस्स । तावच्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं ॥५॥ तो कण्हस्स पिउच्छपुत्तं पाडेइ पायपीढंमि । अवराहखामणत्थं सोवि सयं से खमिस्सामि ||६|| सिसुवालो वि हु जुव्वणमएण नारायणं असब्मेहिं । वयणेहिं भणइ सोविहु खमइ खमाए समत्थोवि ॥७॥ अवराहसए पुण्णे वारिज्जन्तो ण चिट्ठई जाहे । कण्हेण तओ छिन्नं चक्केणं उत्तम से ॥८॥ टीकार्थ कोई तुच्छ स्वभाववाला मनुष्य, युद्ध उपस्थित होने पर अपने को शूर मानता हुआ बिना पानी के मेघ की तरह वचन से खूब गर्जता है । वह कहता है कि, शत्रु के दल में मेरे समान कोई भी सुभट नहीं है, परंतु वह तभी तक गर्जता है, जब तक तलवार उठाए हुए विजेता पुरुष को अपने आगे स्थित नहीं देखता 1. वसुदेवस्वसुः सुतो दमघोषनराधिपेन माद्याः । जातश्चतुर्भुजोऽद्भुतबलकलितः प्राप्तकलहार्थः ||१|| दृष्ट्वा ततो जननी चतुर्भुजं पुत्रमद्भुतमनर्घम् । भयहर्षवेपिताङ्गी पृच्छति नैमित्तिकं सहसा ||२|| नैमित्तिकेन मुणित्वा साधितं तस्यै हृष्टहृदयायै । यथैष तव पुत्रो महाबलो दुर्जयः समरे ||३|| एतस्य च यं दृष्ट्वा भवेत् स्वाभाविकं भुजयुगलम्। भविष्यति तत एव भयं सुतस्य ते नास्ति सन्देहः || ४ || साऽपि भयवेपिरानी पुत्रं दर्शयति यावत्कृष्णाय । तावदेव तस्य स्थितं प्रकृतिस्थं वरभुजयुगलम् ||५|| ततः कृष्णस्य पितृष्वसा पुत्रं पातयति पादपीठे । अपराधक्षामणार्थं सोऽपि शतं तस्य क्षमिष्ये ||६|| शिशुपालोऽपि यौवनमदेन नारायणमसभ्यैः । वचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि ||७|| अपराधशते पूर्णे वार्यमाणोऽपि न तिष्ठति यदा । कृष्णेन ततश्छिन्नं चक्रेणोत्तमाङ्गं तस्य ||८||
-