________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने तृतीयोद्देशके गाथा ९ परसमयवक्तव्यतायांजगत्कर्तृत्वखण्डनाधिकारः तावत्स्वतो, लोकस्याऽपि तथोत्पत्तिप्रसङ्गात् । नाप्यन्यतोऽनवस्थापत्तेरिति । यथाऽनुत्पन्नमेव प्रधानाद्यनादिभावेनाऽऽस्ते तद्वल्लोकोऽपि किं नेष्यते ? अपि च - सत्त्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृतात्प्रधानान्महदादेरुत्पत्तिरिष्यते भवद्भिः, न च विकृतं प्रधानव्यपदेशमास्कन्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिरिति । अपि च- अचेतनायाः प्रकृतेः कथं पुरुषार्थं प्रति प्रवृत्तिः ? येनाऽत्मनो भोगोपपत्त्या सृष्टिः स्यादिति, प्रकृतेरयं स्वभाव इति चेदेवं तर्हि स्वभाव एव बलीयान् यस्तामपि प्रकृतिं नियमयति, तत एव च लोकोऽप्यस्तु किमदृष्टप्रधानादिकल्पनयेति ?, अथादिग्रहणात् स्वभावस्याऽपि कारणत्वं कैश्चिदिष्यत इति चेदस्तु, न हि स्वभावोऽभ्युपगम्यमानो नः क्षतिमातनोति। तथाहि- स्वो भावः स्वभावः स्वकीयोत्पत्तिः सा च पदार्थानामिष्यत एवेति । तथा यदुक्तं "नियतिकृतोऽयं लोक" इति, तत्रापि नियमनं नियति र्यद्यथाभवनं नियतिरित्युच्यते, सा चाऽऽलोच्यमाना न स्वभावादतिरिच्यते । यच्चाऽभ्यधायि"स्वयम्भुवोत्पादितो लोक" इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तम्भवति ? किं यदाऽसौ भवति तदा स्वतन्त्रोऽन्यनिरपेक्ष एव भवति, अथानादिभवनात्स्वयम्भूरिति व्यपदिश्यते ?, तद्यदि स्वतन्त्रभवनाऽभ्युपगमस्तद्वल्लोकस्यापि भवनं किं नाऽभ्युपेयते ?, किं स्वयम्भुवा ?, अथाऽनादिस्ततस्तस्याऽनादित्वे नित्यत्वं, नित्यस्य चैकरूपत्वात्कर्तृत्वाऽनुपपत्तिः, तथा वीतरागत्वात्तस्य संसारवैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्याकर्ता । मूर्तामूर्तादिविकल्पाश्च प्राग्वदायोज्या इति । यदपि चात्राऽभिहितम्- 'तेन मारः समुत्पादितः, स च लोकं व्यापादयति' तदप्यकर्तृत्वस्याभिहितत्वात्प्रलापमात्रमिति । तथा यदुक्तम्- "अण्डादिक्रमजोऽयं लोक" इति तदप्यसमीचीनं, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेणाभूवन तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद् बाधा दृश्यते । तथाऽसौ ब्रह्मा यावदण्डं सृजति तावल्लोकमेव कस्मान्नोत्पादयति ?, किमनया कष्टया युक्त्यसङ्गतया चाण्डपरिकल्पनया?, एवमस्त्विति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाद् ब्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया उरुभ्यां वैश्याः पद्भ्यां शूद्रा इति, तदप्ययुक्तिसङ्गतमेव, यतो न मुखादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते । अथाऽपि स्यात्तथा सति वर्णानामभेदः स्याद्, एकस्मादुत्पत्तेः । तथा ब्राह्मणानां कठतैत्तिरीयककलापादिकश्च भेदो न स्याद्, एकस्मान्मुखादुत्पत्तेः। एवं चोपनयनादिसद्धावो न भवेद, भावे वा स्वस्रादिग्रहणापत्तिः स्याद, एवमाद्यनेकदोषदष्टत्वादेवं लोकोत्पत्ति नाभ्युपगन्तव्या । ततश्च स्थितमेतत्- त एवंवादिनो लोकस्यानाद्यपर्य्यवसितस्योर्ध्वाधश्चतुर्दशरज्जुप्रमाणस्य, वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथिव्यात्मकाधोलोकस्य, स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य, मल्लकसमुद्काकारो+लोकस्य, धर्माधर्माकाशपुद्गलजीवात्मकस्य, द्रव्यार्थतया नित्यस्य, पर्यायापेक्षया क्षणक्षयिणः,उत्पादव्ययध्रौव्यापादितद्रव्यसतत्त्वस्यानादिजीवकर्मसम्बन्धापादितानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य तत्त्वमजानानाः सन्तो मुषा वदन्तीति ॥९॥
टीकार्थ - पूर्वोक्त अन्यदर्शनी अपनी इच्छा से अर्थात् युक्तियों के द्वारा इस लोक को किया हुआ बतलाते हैं । कोई इसे देवकृत, कोई ब्रह्मकृत और कोई ईश्वरकृत कहते हैं । कोई इसे प्रधानादि कृत और कोई स्वयम्भू कृत कहते हैं । इस लोक को स्वयम्भकत कहनेवाले कहते हैं कि यह लोक स्वयम्भ द्वारा रचित है । तथा कोई इस लोक को अण्डा से उत्पन्न बतलाते हैं इत्यादि । ये लोग अपनी-अपनी युक्तियों के बल से कहते हैं कि यह हमारा कहा हुआ सिद्धान्त ही सत्य है, दूसरा मत सत्य नहीं है । वस्तुतः पूर्वोक्त इन सिद्धान्तों
वादी, वस्तुतत्त्व को नहीं जानते हैं । इस लोक का यथार्थ स्वभाव क्या है ? यह वे अच्छी तरह विवेचना नहीं करते हैं । वस्तुतः यह लोक कभी भी एकान्त रूप से नष्ट नहीं होता है, क्योंकि द्रव्य रूप से यह सदा स्थित रहता है । तथा यह लोक पहले-पहल किसी के द्वारा किया हुआ भी नहीं है, किन्तु यह लोक पहले भी था और इस समय भी है तथा भविष्य में भी रहेगा । तथापि देवोप्तवादियों ने जो इस लोक को देवकृत कहा है, वह सर्वथा अयुक्त है, क्योंकि यह लोक देवकृत है। इस विषय में कोई उस तरह का प्रबल प्रमाण नहीं है और जो बात बिना प्रमाण की होती है। वह विद्वानों के चित्त को सन्तुष्ट नहीं कर सकती है। दूसरी बात यह है कि जिस देवता ने इस लोक को बनाया है, वह देवता स्वयं उत्पन्न होकर इस लोक को बनाता है