________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने चतुर्थोद्देशके गाथा ८
लोकवादनिरासाधिकारः देश और सब काल में परिमित पदार्थ को ही देखता है, जैसा कि वे कहते है- ब्रह्मा दिव्य एक हजार वर्ष तक सोते हैं । उस समय वह कुछ नहीं देखते हैं और उतने ही काल तक वे जागते हैं, उस समय वे देखते हैं, इस प्रकार अनेक प्रकार का लोकवाद प्रचलित है ॥७॥
- अस्य चोत्तरदानायाह - ___ - अब शास्त्रकार इसका उत्तर देने के लिए कहते हैं - जे केइ तसा पाणा, चिट्ठति अदु थावरा । परियाए अत्थि से अंजू, जेण ते तसथावरा
॥८॥ छाया - ये केचित् त्रसाः प्राणास्तिष्ठन्त्यथवा स्थावराः । पायोऽस्ति तेषामञ्जू येन ते त्रसस्थावराः ॥
व्याकरण - (जे केइ) सर्वनाम त्रस और स्थावर के विशेषण (तसा थावरा) कर्ता (पाणा) त्रस स्थावर के विशेषण (अदु) अव्यय (चिट्ठति) क्रिया (से) सम्बन्धषष्ठ्यन्त (परियाए) कर्ता (अंजू) क्रिया विशेषण (अत्थि) क्रिया (जेण) हेतु तृतीयान्त (ते तसथावरा) कर्ता ।
अन्वयार्थ - (जे केइ) जो कोइ (तसा) त्रस (अदु) अथवा (थावरा) स्थावर (पाणा) प्राणी (चिटुंति) स्थित हैं (से) उनका (अंजू) अवश्य (परियाए) पर्याय (अत्थि) होता है (जेण) जिससे (ते) वे (तस थावरा) त्रस से स्थावर और स्थावर से त्रस होते हैं ।
भावार्थ - इस लोक में जितने त्रस और स्थावर प्राणी हैं, वे अवश्य एक दूसरे पर्याय में जाते हैं, अत एव कभी त्रस स्थावर होते हैं और स्थावर त्रस होते हैं।
टीका - ये केचन त्रस्यन्तीति त्रसाः द्वीन्द्रियादयः प्राणाः प्राणिनः सत्त्वास्तिष्ठन्ति त्रसत्वमनुभवन्ति, अथवा स्थावराः स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् यथा यो यादृगस्मिन् जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तादृगेव भवतीति, ततः स्थावराणां त्रसानां च तादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपद्येरन् । लोकेनाऽपि चान्यथात्वमुक्तं तद्यथा
“स वै एष शृगालो जायते यः सपरीषो दह्यते" तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति । तथा 'अनन्तो नित्यश्च लोकः' इति यदभिहितं, तत्रेदमभिधीयते-यदि स्वजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणामानित्यत्वमस्मदभीष्टमेवाभ्युपगतं न काचित् क्षतिः, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितत्वात्, नहि क्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्प-यस्य च खपुष्पस्येवासद्रूपतैव स्यादिति । तथा शश्वद्भवनं कार्य्यद्रव्यस्याऽऽकाशात्मादेश्चाविनाशित्वं यदुच्यते-द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पाद-व्ययध्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति । तथा यदुक्तम्- 'अन्तवान् लोकः सप्तद्वीपावच्छिन्नत्वादित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम्'अपुत्रस्य न सन्ति लोका इत्यादीत्येतदपि बालभाषितं, तथाहि किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात्? तद्यदि सत्तामात्रेण तत इन्द्रमहकामुकगावराहादिभिर्व्याप्ताः लोकाः भवेयुः, तेषां पुत्रबहुत्वसम्भवात् । अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वये सत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्ता ? स्वकृतानुष्ठानं च निष्फलमापद्यतेत्येवं यत्किञ्चिदेतदिति । तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधित्वादनाकर्णनीयमिति । यदपि चोक्तम् 'अपरिमाणं विजानाती'ति तदपि न घटामियति, यतः सत्यप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलत्वान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि- तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या(पीत्या) शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात् । तस्मात् सर्वज्ञत्वमेष्टव्यम् । तथा यदुक्तं- 'स्वापबोधविभागेन परिमितं जानाती' त्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति । यदपि च कैश्चिदुच्यते- यथा 'ब्रह्मणः स्वप्नावबोधयोलॊकस्य प्रलयोदयौ भवत' इति तदप्ययक्तिसङ्गतमेव प्रतिपादितं चैतत्प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत 1. से जायं चू. 1 2. अन्तरं-हृदयं, विचारशून्या इति तात्पर्यम् । 3. कुकुर इति त्रिकाण्डशेषः ।
१०५