________________
सूत्रकृताङ्गे भाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा १८
विशेषण है ( रूवं) कर्ता (धाउणो) रूप का विशेषण सम्बन्धषष्ठ्यन्त ( एवं ) अव्यय । (यावरे ) कर्ता ( आहंसु) क्रिया ।
अन्वयार्थ - (पुढवी) पृथिवी ( आउ) जल (य) और (तेऊ) तेज (तहा) तथा (वाऊ य) वायु (चत्तारि ) ये चार ( धाउणो) धातु के (रूवं) रूप हैं। (एगओ) ये शरीर रूप में एक होने पर जीव संज्ञा को प्राप्त करते हैं। ( एवं ) इस प्रकार (यावरे) दूसरे बौद्धों ने (आहंसु) कहा है।
परसमयवक्तव्यतायां बौद्धमताधिकारः
भावार्थ - पृथिवी, जल, तेज, और वायु ये चार, धातु के रूप हैं। ये जब शरीर रूप में परिणत होकर एकाकार हो जाते हैं, तब इनकी जीव संज्ञा होती है, यह दूसरे बौद्ध कहते हैं ।
टीका - पृथिवी धातुरापश्च धातुस्तथा तेजो वायुश्चेति । धारकत्वात्पोषकत्वाच्च धातुत्वमेषाम् 'एगओ' त्ति, यदैते चत्वारोऽप्येकाकारपरिणतिं बिभ्रति कायाकारतया तदा जीवव्यपदेशमश्नुवते । तथा चोचुः - "चातुर्धातुकमिदं शरीरम्, न तद्व्यतिरिक्त आत्माऽस्ती 'ति । 'एवमाहंसु यावरेत्ति' अपरे बौद्धविशेषा एवम् 'आहुः' अभिहितवन्त इति । क्वचिद् 'जागा' इति पाठ: । तत्राऽप्ययमर्थो 'जानका' ज्ञानिनो वयं किलेत्यभिमानाग्निदग्धाः सन्त एवमाहुरिति सम्बन्धनीयम् । अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टत्वात् क्रियाफलेन सम्बन्धाभावादवसेयम्। सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैश्चिदात्मनो नित्यस्याविकारिणोऽभ्युपगतत्वात्, कैश्चित्त्वात्मन एवानभ्युपगमादिति । अत्रोत्तरदानार्थं प्राक्तन्येव निर्युक्तिगाथा " को वेएइ" इत्यादि व्याख्यायते, यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादि गाथा प्राग्वद् व्याख्येयेति । तदेवमात्मनोऽभावाद् योऽयं स्वसंविदितः सुखदुःखानुभवः स कस्य भवत्विति चिन्त्यताम् ? ज्ञानस्कन्धस्यायमनुभव इति चेत् न तस्याऽपि क्षणिकत्वात् ज्ञानक्षणस्य चातिसूक्ष्मत्वात्सुखदुःखानुभवाभावः । क्रियाफलवतोश्च क्षणयोरत्यन्तासङ्गतेः कृतनाशाकृताभ्यागमापत्तिरिति । ज्ञानसन्तान एकोऽस्तीति चेत् तस्याऽपि सन्तानिव्यतिरिक्तस्याभावाद् यत्किञ्चिदेतत्। पूर्वक्षण एव उत्तरक्षणे वासनामाधाय विनङ्क्ष्यतीति चेत्, तथा चोक्तम्
" यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना । फलं तत्रैव सन्धत्ते, कार्पासे रक्तता यथा ? ||9||" अत्रापीदं विकल्प्यते सा वासना किं क्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्ता वा ? यदि व्यतिरिक्ता, वासकत्वाऽनुपपत्तिः, अथाव्यतिरिक्ता, क्षणवत् क्षणक्षयित्वं तस्याः, तदेवमात्माऽभावे सुखदुःखानुभवाभावः स्याद् अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति । अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानाम् स्वविषयादन्यत्राप्रवृत्तेः सङ्कलनाप्रत्ययो न स्यात् । आलयविज्ञानाद् भविष्यतीति चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽप्यात्मप्रतिपादकोऽस्ति, स चायम्
" इत एकनवते कल्पे, शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः | " ||१|| तथा
३८
" कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनिगर्हणेन । प्रकाशनात्संवरणाच्च तेषामत्यन्तमूलोद्धरणं वदामि" ॥२॥
इत्येवमादि । तथा यदुक्तं क्षणिकत्वं साधयता यथा 'पदार्थ: कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वेत्यादि, तत्र नित्येऽप्रच्युतानुत्पन्नस्थिरैकस्वभावे कारकाणां व्यापाराभावादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव । यच्च नित्यत्वपक्षे भवताऽभिहितं नित्यस्य न क्रमेणार्थक्रियाकारित्वं नाऽपि यौगपद्येनेति' तत्क्षणिकत्वेऽपि समानं, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण यौगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष एव प्रवर्तते, यतः सामग्री जनिका, नह्येकं किञ्चिदिति । तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पार्य्यते, क्षणस्याविवेकत्वेनानाधेयातिशयत्वात्, क्षणानां च परस्परोपकारकोपकार्य्यत्वानुपपत्तेः सहकारित्वाभावः, सहकार्य्यनपेक्षायां च प्रतिविशिष्टकार्य्यानुपपत्तिरिति । तदेवमनित्य एव कारणेभ्यः पदार्थः समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्राऽपि चैतदालोचनीयं - किं क्षणक्षयित्वेनानित्यत्वमाहोस्वित् परिणामानित्यतयेति ?, तत्र क्षणक्षयित्वे कारणकार्य्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः क्षणिकानित्यस्य कारणेभ्य उत्पाद इति ? । अथ पूर्वक्षणादुत्तरक्षणोत्पादे सति कार्य्यकारणभावो भवतीत्युच्यते, तदयुक्तं यतोऽसौ पूर्वक्षणो विनष्टो वोत्तरक्षणं जनयेदविनष्टो वा ? । न तावद् विनष्टः, तस्यासत्त्वा