________________
सूत्रकृताङ्गे भाषानुवादसहिते प्रथमाध्ययने द्वितीयोद्देशके गाथा २-३ परसमयवक्तव्यतायां नियतिवादाधिकारः न तं सयं कडं दुक्खं, 'कओ अन्नकडं च णं ?
सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं
छाया
-
॥२॥
न तत् स्वयं कृतं दुःखं कुतोऽब्यकृतं च १ । सुखं वा यदि वा दुःखं, सैद्धिकं वाऽसैद्धिकम् ॥
सयं कडं न अण्णेहिं, वेदयंति पुढो जिया । संगइअं तं तहा तेसिं, इहमेगेसि आहिअं
॥३॥
छाया स्वयं कृतं नाऽन्यैर्वेदयन्ति पृथज्जीवाः । साङ्गतिकं तत्तथा तेषामिहेकेषामाख्यातम् ॥
व्याकरण - (तं) दुःख का विशेषण सर्वनाम (न) अव्यय (कडं ) दुःख का विशेषण (कओ) अव्यय ( अन्नकडं ) दुःख का विशेषण (वा) अव्यय (सेहियं) (असेहियं) ये दोनों ही सुख और दुःख के विशेषण हैं । ( सयं) कर्तृशक्ति प्रधान अव्यय (अण्णेहिं) 'कृतं' का कर्ता । (वेदयंति) क्रिया (पुढो) अव्यय (जिया) कर्ता (संगइअं ) ( तं) सुख - दुःख के विशेषण ( तहा) अव्यय ( तेसिं) सम्बन्ध षष्ठ्यंत ( इह ) अव्यय ( एगेसि) कर्तृ षष्ठ्यन्त (आहियं) क्रिया - वाचक पद ।
अन्वयार्थ - (तं) वह ( दुक्खं) दुःख (सयं) स्वयं (कडं ) किया हुआ (न) नहीं है (अन्नकडं) दूसरे का किया हुआ (कओ) कहाँ से हो सकता है ? (सेहियं वा) सिद्धि से उत्पन्न (असेहियं) अथवा सिद्धि के बिना उत्पन्न (सुहं वा ) सुख (दुक्खं) अथवा दुःख, (जिसे ) (जिया) प्राणी ( पुढो) अलग-अलग (वेदयंति) भोगते हैं (सयं) स्वयं (अण्णेहिं) अथवा दूसरे द्वारा (कडं न) किया हुआ नहीं है (तं) वह (तेसिं) उनका (तहा) वैसा (संगइअं ) नियति कृत है ( इहं) इस लोक में (एगेसि) किन्हीं का ( आहिअं) कथन है ।
भावार्थ - बाह्य कारणों से अथवा बिना कारण उत्पन्न सुख-दुःख को जो प्राणी वर्ग भोगते हैं, वह उनका अपना तथा दूसरे का किया हुआ नहीं है । वह उनका नियति कृत है । यह नियतिवादी कहते हैं ।
टीका यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् स्वयमात्मना पुरुषकारेण कृतं निष्पादितम्। दुःखमिति कारणे कार्योपचाराद् दुःखकारणमेवोक्तम्, अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्यम् । ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतोऽन्येन कालेश्वरस्वभावकर्मादिना च कृतं भवेत्, 'ण' मित्यलङ्कारे, तथाहि - यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषकारे सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्च न भवेत् । कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिर्दृश्यत इति, अतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि ? नियतेरेवेति । एतच्च द्वितीय श्लोकान्तेऽभिधास्यते । नाऽपि कालः कर्ता, तस्यैकरूपत्वाज्जगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाऽभेदे, तथाहि - अयमेव हि भेदो भेदहेतु र्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च तथेश्वरकर्तृकेऽपि सुखदुःखे न भवतः, यतोऽसावीश्वरो मूर्तोऽमूर्तो वा ? यदि मूर्तस्तत: प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रियत्वम् अपि च यद्यसौ रागादिमांस्ततोऽस्मदाद्यव्यतिरेकाद्विश्वस्याकर्तेव, अथाऽसौ विगतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादिजगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरः कर्तेति । तथा स्वभावस्याऽपि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ स्वभावः पुरुषाद्विन्नोऽभिन्नो वा ? यदि भिन्नो न पुरुषाश्रिते सुखदुःखे कर्तुमलं, तस्माद्भिन्नत्वादिति । नाऽप्यभिन्नः, अभेदे पुरुष एव स्यात् तस्य चाकर्तृत्वमुक्तमेव । नाऽपि कर्मणः सुखदुःखं प्रति कर्तृत्वं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्नं वा भवेत् ? अभिन्नं चेत्पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्नं तत्किं सचेतनमचेतनं वा ? यदि सचेतनमेकस्मिन् काये चैतन्यद्वयापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादनं प्रति कर्तृत्वमिति । एतच्चोत्तरत्र व्यासेन प्रतिपादयिष्यत इत्यलं प्रसङ्गेन । तदेवं सुखं सैद्धिकं सिद्धावपवर्गलक्षणायां भवं यदिवा दुःखमसातोदयलक्षणमसैद्धिकं सांसारिकं, यदिवोभयमप्येतत्सुखं दुःखं वा स्रक्चन्दनाङ्गनाद्युपभोगक्रियासिद्धौ भवं तथा कशाताडनाङ्कनादिसिद्धौ भवं सैद्धिकं, तथा असैद्धिकं सुखमान्तरमानन्दरूपमाकस्मिकमनवधारितबाह्यनिमित्तम् 1. ण य अण्ण चू. । 2. जदि वाऽसुहं चू. । 3. सिमाहितं चू. ।
४९