________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा १७ परसमयवक्तव्यतायां बौद्धमताधिकारः अण्णो अणण्णो णेवाहु हेउयं च अहेउयं
॥१७॥ छाया - पश स्कन्धान् वदन्त्येके बालास्तु क्षणयोगिनः । अन्यमनव्यं नेवाहुर्हेतुकं चाहेतुकम् ॥
व्याकरण - (पंच) खंध का विशेषण (खंधे) वयन्ति क्रिया का कर्म (वयंति) क्रिया (एगे) बाल का विशेषण । (बाला) कर्ता (उ) अव्यय (खणजोइणो) खंध का विशेषण । (अण्णो, अणण्णो, हेउयं अहेउय) कर्म, आत्मा के विशेषण । (णेव) अव्यय । (आहु) क्रिया।
अन्वयार्थ - (एगे उ बाला) कोई अज्ञानी (खणजोइणो) क्षणमात्र रहनेवाले (पंच) पाँच (खंधे) स्कन्ध (वयंति) बताते हैं । (अण्णो) भूतों से भिन्न (अणण्णो) तथा अभिन्न (हेउयं च) कारण से उत्पन्न तथा (अहेउयं) बिना कारण उत्पन्न आत्मा (णेवाहु) नहीं कहते हैं ।
भावार्थ - कोई अज्ञानी क्षणमात्र स्थित रहनेवाले पाँच स्कन्धों को बतलाते हैं । भूतों से भिन्न अथवा अभिन्न, कारण से उत्पन्न अथवा बिना कारण उत्पन्न आत्मा, वे नहीं मानते हैं ।
टीका - 'एके' केचन वादिनो बौद्धाः 'पञ्च स्कन्धान् वदन्ति' रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः कश्चिदात्माख्यः स्कन्धोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखा चेति वेदना वेदनास्कन्धः २ रूपविज्ञानं रसविज्ञानमित्यादिविज्ञानं विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोद्ग्राहणात्मकः प्रत्ययः ४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५ । न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्यभिचारिलिङ्गग्रहणाऽभावात्, नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला- यथाऽवस्थितार्थापरिज्ञानाद् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः 'क्षणयोगिनः' परमनिरुद्धः कालः क्षणः क्षणेन योग:- सम्बन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थः, तथा च तेऽभिदधति स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा ? यद्यविनश्वरस्ततस्तद्वयापिन्याः क्रमयोगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याऽभावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तेत यौगपद्येन वा ? न तावत् क्रमेण, यतो ह्येकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा न वा?, यदि विद्यते किमिति क्रमकरणम ?. सहकार्यपेक्षयेति चेत तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा ? यदि क्रियते किं पूर्वस्वभावपरित्यागेनापरित्यागेन वा ?, यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाऽभावात किं सहकार्यपेक्षया ?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तम्, यतः“अपेक्षेत पर कधिद्यदि कुर्वीत किचन । यदकिश्चित्करं वस्तु, किं केनचिदपेक्ष्यते ? ||१||"
अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः । अथाऽसौ नित्यो यौगपद्येनार्थक्रियां कुर्य्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणाद् द्वितीयादिक्षणेऽकर्तृत्वमायातं, तथा च सैवानित्यता । अथ तस्य तत्स्वभावत्वात्ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतम्, कृतस्य करणाभावादिति । किञ्च द्वितीयादिक्षणसाध्या अप्याः प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान्न स्वकारणेभ्यो नित्यस्योत्पाद इति । अथानित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वम्, तथाचोक्तम्"जातिरेव हि भावानां विनारी हेतुरिष्यते । यो जातश्च न च ध्वस्तो नश्येत् पश्चाल्स केन च" ||१||
ननु च सत्यप्यनित्यत्वे यस्य यदा विनाशहेतुसद्धावस्तस्य तदा विनाशः, तथा च स्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमिति एतच्चानुपासितगुरोर्वचः, तथाहि तेन मुद्रादिकेन विनाशहेतुना घटादेः किं क्रियते?किमत्र प्रष्टव्यम ? अभावः क्रियते. अत्र च प्रष्टव्यो देवानां प्रियः, अभाव इति किं पर घुदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति ? तत्र यदि पर्युदासस्ततोऽयमर्थो भावादन्योऽभावो भावान्तरं-घटात्पटादिः सोऽभाव इति, तत्र 1. णेगाऽऽहु चू० । 2. व चूर्णि ।
३४