________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा १६ परसमयवक्तव्यतायामकारकवादिमतखण्डनाधिकारः
- शाश्वतत्वमेव भूयः प्रतिपादयितुमाह -
- पृथिवी आदि नित्य हैं, यह बताने के लिए फिर सूत्रकार कहते हैंदुहओ [ते ण विणस्संति, नो य उप्पज्जए असं। सव्वेऽवि सव्वहा भावा नियत्तीभावमागया
॥१६॥ छाया - द्विधाऽपि न विनश्यन्ति, न चोत्पद्यतेऽसन् । सर्वेऽपि सर्वथा भावाः नियतीभावमागताः ॥
व्याकरण - (दुहओ) अव्यय । (ण) अव्यय (विणस्संति) क्रिया (नो य) अव्यय (उप्पज्जए) क्रिया (असं) कर्म (सब्वे) भाव का विशेषण (सव्वहा) अव्यय । (नियत्तीभावं) आगया का कर्म (आगया) भाव का विशेषण । (भावा) कर्ता ।
अन्वयार्थ - (दहओ) दोनों प्रकार से, वे पर्वोक्त छः ही पदार्थ (ण विणस्संति) नष्ट नहीं होते हैं । (असं) तथा अविद्यमान पदार्थ (नो य उप्पज्जए) उत्पन्न नहीं होता है । (सव्वे वि) सभी (भावा) पदार्थ (सव्वहा) सर्वथा (नियत्तीभाव) नित्यता को (आगया) प्राप्त हैं ।
भावार्थ - पृथिवी आदि पाँच महाभूत तथा छट्ठा आत्मा, कारण-वश या बिना कारण दोनों ही प्रकार से नष्ट नहीं होते हैं । तथा असत् वस्तु की उत्पत्ति नहीं होती है । सभी पदार्थ सर्वथा नित्य हैं।
टीका - 'ते' आत्मषष्ठाः पृथिव्यादयः पदार्था 'उभयत' इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानां स्वत एव निर्हेतुको विनाशः, तथा च ते ऊचुः - 'जातिरेव हि भावानां, विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्रोत् पश्चाल्स केन च ? ||१||"
यथा च वैशेषिकाणां लकुटादिकारणसान्निध्ये विनाशः सहेतुकः, तेनोभयरूपेणापि विनाशेन लोकात्मनोर्न विनाश इति तात्पर्यार्थः, यदिवा- 'दुहओ' ति द्विरूपादात्मनः स्वभावाच्चेतनाचेतनरूपान्न विनश्यन्तीति, तथाहिपृथिव्यप्तेजोवाय्वाकाशानि स्वरूपापरित्यागतया नित्यानि, 'न कदाचिदनीदृशं जगदिति कृत्वा, आत्माऽपि नित्य एव, अकृतकत्वादिभ्यो हेतुभ्यः, तथा चोक्तम्"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्न्यापो, न शोषयति मारुतः ||२|| 'अच्छेद्योऽयमभेद्योऽयमविकार्याऽयमुच्यते । नित्यः सततमः स्थाणुरचलोऽयं सनातनः ||३||
भगवद्गीता अ.-२, श्लोक २३-२४] एवं च कृत्वा नासदुत्पद्यते, सर्वस्य सर्वत्र सद्भावाद् असति च कारकव्यापाराभावात् सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिः स्यादिति, तथा चोक्तम् - “असदकरणादुपादानग्रहणाद सर्वसम्भवाऽभावात् । शक्तस्य शक्यकरणात, कारणभावाच्च सत्कार्यम् ||१||"
एवं च कृत्वा मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात्, यदि चासदुत्पद्येत ततो यतः कुतश्चिदेव स्यात्, नावश्यमेतदर्थिना मृत्पिण्डोपादानमेव क्रियेत, इति, अतः सदेव कारणे कार्यमुत्पद्यत इति एवं च कृत्वा सर्वेऽपि भावा:-पृथिव्यादय आत्मषष्ठाः 'नियतिभावं' नित्यत्वमागता नाभावरूपतामभूत्वा च भावरूपतां प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा चाभिहितम्- “नासतो जायते भावो, नाभावो जायते सतः" इत्यादि ।
अस्योत्तरं नियुक्तिकृदाह- 'को वेएई'त्यादि प्राक्तन्येव गाथा, सर्वपदार्थनित्यत्वाऽभ्युपगमे कर्तृत्वपरिणामो न स्यात्, ततश्चात्मनोऽकर्तृत्वे कर्मबन्धाभावस्तदभावाच्च को वेदयति ?, न कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं च सति कृतनाशः स्यात्, तथा असतश्चोत्पादाऽभावे येयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात्, ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिस्मरणादिकं च न प्राप्नोति, यच्चोक्तं 'सदेवोत्पद्यते' तदप्यसत्, यतो यदि सर्वथा सदेव कथमुत्पादः ?' उत्पादश्चेद् न तर्हि सर्वथा सदिति, तथा चोक्तम्1. अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ।। इति पाठभेदो गीतायाम् ।