________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा १२ परसमयवक्तव्यतायां तज्जीवतच्छरीरवाद्यधिकारः उनका यह आगम है
(विज्ञानघन एव) अर्थात् विज्ञान का पिण्ड यह आत्मा, इन भूतों से उठकर (उत्पन्न होकर) इनके नाश के पश्चात् नष्ट हो जाता है । अत: मरण के पश्चात् ज्ञान नहीं रहता ।
शङ्का - पूर्वोक्त भूतवादी के मत से तज्जीवतच्छरीरवादी के मत की क्या विशेषता है ? समाधान - "शरीर रूप में परिणत पाँच महाभूत ही दौड़ना, बोलना आदि क्रिया करते हैं ।" यह पूर्वोक्त भूतवादी का मत है। परन्तु तज्जीवतच्छरीरवादी, शरीर रूप में परिणत पाँच महाभूतों से चैतन्यशक्ति रूप आत्मा की उत्पत्ति अथवा अभिव्यक्ति मानता है तथा उन भूतों से इस चैतन्य को अभिन्न कहता है । यही इसका पूर्वोक्त भूतवादी से भेद है ॥११॥
- एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाह
- तज्जीवतच्छरीरवादी के मत में पूर्वोक्त प्रकार से धर्मीरूप आत्मा के न होने से उसके धर्म का भी अभाव है, यह दिखाने के लिए सूत्रकार कहते हैंनत्थि पुण्णे व पावे वा, नत्थि लोए इतो परे । सरीरस्स विणासेणं, विणासो होइ देहिणो१२॥ ___ छाया - नास्ति पुण्यं वा पापं वा, नास्ति लोक इतः परः । शरीरस्य विनाशेन, विनाशो भवति देहिनः ।।
व्याकरण - (नत्थि) क्रिया (पुण्णे पावे) कर्ता (वा) अव्यय । (इतो) अपादान (परे) लोक का विशेषण । (लोए) कर्ता (नत्थि) क्रिया (सरीरस्स) कर्तृषष्ठ्यन्त (विणासेण) हेतु तृतीयान्त (देहिणो) कर्तृषष्ठ्यन्त (विणासो) कर्ता (होइ) क्रिया ।
अन्वयार्थ - (पुण्णे व) पुण्य (पावे वा) अथवा पाप (नत्थि) नहीं हैं । (इतो) इस लोक से (परे) दूसरा (लोए) लोक (नत्थि) नहीं है। (सरीरस्स) शरीर के (विणासेणं) नाश से (देहिणो) आत्मा का (विणासो) नाश (होइ) होता है।
भावार्थ - पुण्य और पाप नहीं हैं । इस लोक से भिन्न दूसरा लोक भी नहीं है । शरीर के नाश से आत्मा का भी नाश होता है।
टीका - पुण्यमभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात् तदभावाच्च नास्ति अतः अस्माल्लोकात् 'परः' अन्यो लोको यत्र पुण्यपापानुभव इति । अत्र चार्थे सूत्रकारः कारणमाह'शरीरस्य' कायस्य विनाशेन भूतविघटनेन 'विनाशः', अभावो 'देहिनः', आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा पुण्यं पापं वाऽनुभवतीति । अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति। अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्ति, तद्यथा- यथा जलबुबुदो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नाऽपरः कश्चिदात्मेति । तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वङ्मात्रमेव सर्वं नान्त: कश्चित्सारोऽस्ति, एवं भूतसमुदाये विघटति सति तावन्मानं विहाय नान्तः सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, यथा वाऽलातं भ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पादयति, एवं भूतसमुदायोऽपि विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति। यथा च स्वप्ने बहिर्मुखाकारतया विज्ञानमनुभूयतेऽन्तरेणैव बाह्यमर्थम्, एवमात्मानमन्तरेण तद्विज्ञानं भूतसमुदाये प्रादुर्भवतीति। तथा यथाऽऽदर्श स्वच्छत्वात्प्रतिबिम्बितो बहिः स्थितोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न चासौ तथा, यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः स्वस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्माऽपि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्तिं समुत्पादयतीति।
अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, अस्माभिस्तु सूत्रादर्शेषु चिरन्तनटीकायां चादृष्टत्वान्नोल्लिङ्गितानीति ।
ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये न स्तः तत्कथमेतज्जगद्वैचित्र्यं घटते?