________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
वाक्कर्मेति भावः, इह च सामाचारी- श्रावकस्याट्टहासो न कल्पते कर्तुम्, यदि नाम हसितव्यं तदेषदेवेति १। तथा कुत्कुचः कुत्सितसंकोचनादिक्रियायुक्तः, तद्भावः कौत्कुच्यम् अनेकप्रकारमुख-नयनादिविकारपूर्विका परिहासादिजनिता भण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र सामाचारी- तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्तुं स्थानेन वा स्थातुमिति। एतौ च कन्दर्पकौत्कुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, प्रमादरूपत्वात् तयोः २। तथा मुखमस्यास्तीति मुखरस्तद्भावः कर्म वेति मौखर्यं धाष्ट्यप्रायमसभ्यासत्यासंबद्धप्रलापित्वम्, अयं च पापोपदेशव्रतस्यातिचारो, मौखर्ये सति पापोपदेशसंभवात् ३। तथा असमीक्ष्यैव तथाविधकार्यमपर्यालोच्यैव प्रवणतया यद् व्यवस्थापितमधिकरणं वास्युदूखल-शिलापुत्रक-गोधूमयन्त्रकादि तदसमीक्ष्याधिकरणम्। अत्र सामाचारी- श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंस्रप्रदानव्रतस्यातीचारः ४।।
तथा उपभोगस्य उपलक्षणत्वाद् भोगस्य च उक्तनिर्वचनस्याधिकत्वम् अतिरिक्तता उपभोगाधिकत्वम्, इहापि सामाचारी- उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिकः स्याद्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरु पभोगे? तत्र स्नाने तावद् गृहे एव स्नातव्यम्, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि झाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरीति, अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य ५। अपध्यानाचरितव्रते त्व नाभोगादिना अपध्याने प्रवृत्तिरतिचार इति स्वयमभ्यूयम्, कन्दर्पादय आकुट्या क्रियमाणा भङ्गा एवावसेया इति ।।३०।।
હવે ત્રીજા ગુણવ્રતના અતિચારો કહે છે :
કંદર્પ, કૌત્કચ્ય, મૌખર્ય, અસમીક્ષ્યાધિકરણ અને ઉપભોગાધિકત્વ એ પાંચ ત્રીજા ગુણવ્રતના અતિચારો છે.
કંદર્પ કંદર્પ એટલે કામ. કામનો હેતુ બને (=કામને ઉરોજે) એવો વિશિષ્ટ વચનપ્રયોગ પણ કંદર્પ જ છે, અર્થાત મોહને પ્રદીપ્ત કરે તેવી વાણી બોલવી તે કંદર્પ. અહીં સામાચારી આ પ્રમાણે છે:- શ્રાવકને અટ્ટહાસ કરવું ન કલ્પ, જો હસવું હોય તો જરાક મોં મલકાય તેટલું) જ હશે. કીકુચ્યઃ કુત્કચ એટલે અશિષ્ટ સંકોચન આદિ ક્રિયાથી યુક્ત, અર્થાત અશિષ્ટપણે શરીરનું સંકોચન વગેરે ક્રિયા કરે તે કુકુચ. કુત્કચનો ભાવ તે કૌત્કચ્ય. આનો ભાવાર્થ આ પ્રમાણે છે:- મુખ, આંખ વગેરે
૧૭૨