________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
ननु कथं परं चारित्रकारणमसावित्याशङ्कयाह
पदंपदेन मेधावी, यथारोहति पर्वतम् ।
सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् ॥५॥ इह पदं पदिकोच्यते, ततः पदेन पदेन यदारोहणं तन्निपातनात् पदंपदेनेत्युच्यते, ततः पदंपदेन मेधावी बुद्धिमान् यथेति दृष्टान्तार्थः आरोहति आक्रामति पर्वतम् उज्जयन्तादिकं सम्यक् हस्त-पादादिशरीरावयवभङ्गाभावेन तथैव तेनैव प्रकारेण नियमाद् अवश्यन्तया धीरो निष्कलङ्कानुपालित-श्रमणोपासकसमाचारः चारित्रपर्वतं सर्वविरतिमहाशैलमिति ।।५।।
આ વિશેષ ગૃહસ્થ ધર્મ ચારિત્રનું સફલ કારણ કેવી રીતે છે એવી આશંકા કરીને તેનો ઉત્તર આપતા ગ્રંથકાર કહે છે :
જેવી રીતે બુદ્ધિશાળી માનવ એક એક પગથિયું ચઢતાં ગિરનાર વગેરે પર્વત ઉપર સારી રીતે ચડી જાય છે, તે જ રીતે ધીર માનવ ચારિત્રરૂપી મહાપર્વત ઉપર અવશ્ય ચડે છે.
સારી રીતે ચડી જાય છે એટલે હાથ - પગ વગેરે શરીરનાં અંગો ભાંગે નહિ તે રીતે ચડી જાય છે. ઘર એટલે જેણે નિરતિચારપણે શ્રાવકના આચારોનું પાલન Bथु छ मेवो मानव. (५)
ननु एतदपि कथमित्थमित्याह
स्तोकान् गुणान् समाराध्य, बहूनामपि जायते।
यस्मादाराधनायोग्यस्तस्मादादावयं मतः ॥६॥ इति ॥ स्तोकान् तुच्छान् गुणान् श्रमणोपासकावस्थोचितान् समाराध्य पालयित्वा बहूनां सुश्रमणोचितगुणानां 'स्तोकानामाराधनायोग्यो जात एव' इति अपिशब्दार्थः, जायते भवति यस्मात् कारणादाराधनायोग्यः परिपालनोचितः अविकलाल्पगुणाराधनाबलप्रलीनबहुगुणलाभबाधककर्मकलङ्कत्वेन तद्गुणलाभसामर्थ्यभावात् तस्मात् कारणादादौ प्रथमत एव अयम् अनन्तरप्रोक्तो गृहस्थधर्मो मतः सुधियां सम्मतः इति। पुरुषविशेषापेक्षोऽयं न्यायः, अन्यथा तथाविधाध्यवसायसामर्थ्यात्तदा एवाबलीभूतचारित्रमोहानां स्थूलभद्रादीनामेतक्रममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात् ।।६।।
૨૦૯