Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
Catalog link: https://jainqq.org/explore/002393/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ aaaaaabaabar enererere BIBLIOTHECA INDICA: A resen COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL NEW SERIES, No. 1206. योगशास्त्रम् । खोपज्ञविवरणसहितम् । SIR WILLAMJONES ' MDCCXLVI MDCCXCM THE YOGASASTRA. With the commentary called SVOPAJNAVIVARANA. BY AAAAAAAAAA SRI HEMACHANDRACHARYA. EDITED BY ÇASTRA VIÇARADA JAINACARYA CRĪ VIJAYA DHARMA SŪRI. FASCICULUS II. Calcutta: PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS. AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1909. BABASAVAVA Page #2 -------------------------------------------------------------------------- ________________ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 57, PARK STREET, CACUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MR. BERNARD QUARITCH, 11, GRAFTON STREET, NEW BOND STREET, LONDON, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. 1. 1919 0 : ... 11 CS CS 10400 O CON Complete copies of those works marked with an asterisk * cannot be supplied.--som of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series Advaita Brahma Siddhi, Fasc. 2, 4 @ /10/ each ... Rs. 1 Advaitachinta Kaustubba, Fasc. 1-3 @ /10/ each ... *Agni Purāna, Fasc. 3-14 @ 10/ each ... Aitarēya Brühmana, Vol. I, Fasc. 1-5; Vol. II, Fasc. l Fasc. 1-5, Vol. IV, Fase. 1-8 @ /10/ each Aitereya Lochana. • Anu Bhāşhya, Fasc. 2-5 @ /10/ each Aphorisms of Sündilya, (English) Fasc. 1 @ 1... Astasāhasrika Prajñāpāramita. Fasc. 1-6 @ 10 each *Atharvana Upanishad, Fase 3-5 @ /10/ each Atmatattaviveka, Fasc. I. @ 110/ each ... Acvavaidyaka, Fasc. 1-5 @ /10/ each ... ... 3 Avadana Kalpalatā, (Sans. and Tibetan) Vol. 1, Fasc. 1-6 ; Vol. 11. Fasc. 1-5 @ 1/ each... A Lower Ladakhi version of Kesarsaga. Fasc. 1--3 @ 1/- each ... Bālam Bhatti, Vol. I, Fasc. 1-2, Vol 2, Fasc. 1 @ 710/ each ... Baudhāyana Srauta Shtra, Fasc. 1-3 Vol. II, Fase 1 @ /10/ each *Bhāmati, Fasc. 4-8 @ /10/ each Bhätta Dipikā Vol. I, Fasc. 1-5 @ /10 each Brahma Sutra, Fasc. 1 @ /10/ each ... Brhaddēvata Fasc. 1-4 @ /10/ each ... Brhaddharma Purāma Fase 1-6 @ /10/ each Bodhiearyāvatāra of Cantideva, Fasc. 1-5 @ /107 each Cataduşani, Fasc. 1-2 @ /10/ each Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each ... Catapatha Brahmana, Vol I, Fasc. 1-7, Vol II, Fasc. I-5, Fasc. 1-7 Vol. 5, Fasc. 1-4 @ /10/ each Ditto Vol. 6, Fasc. 7 Catasähasrika Prajnaparamita Part, I. Fasc. I--12 @ /10/ each .. *Caturvarga Chintamani, Vol. II, řase. 1-25; Vol. III. Part I, Fasc. 1-18. Part II, Fasc. 1-10. Vol. IV. Fasc. 1-6 @ /10, each Ditto Vol. 4, Fasc. 7 . . Clockavartika, (English) Fasc. 1-6 @ 1/4) each ... Qrauta Satra of Apastamba, Fasc. 9-17 @ /10/ each Ditto Çankhāyana, Vol. I, Fasc. 1-7; Vol. II, Fasc. 1-4, Vol. III, Fasc. 1-4 @ /10/ each ; Vol 4, Fasc. 1 Cri Bhäshyam, Fac. 1-3 @ /10/ each ... Þāna Kriya kaumudi, Fasc 1 - 2 @ /10/ each Gadadhara Paddhati Kalasära Vol. ), Fasc. 1-7 @ /10/ each Ditto Achārasărah Vols. II, Fasc. 1-3 @ /10/ each Gobhiliya Grihya Sutra, Fasc. 4-12 @ /10/ each ... Ditto Vol. II. Fasc. Kāla Viveka, Fasc. 1-7 @ /10/ each ... Kātantra, Fasc. 1-6 @ /12/ each Katha Sarit Sägara, (English) Fasc. 1-14 @ 1/4/ each *Kūrma Purāņa, Fasc. 3-9 @ /10/ each ... Lalita-Vistara, (English) Fasc. 1-3 @ 1/- each *Lalitavistara. Fasc. 3-6 @ /10/ each ... Madana Parijāta, Fasc. 1-11 @ /10/ each Mahā-bhāsya-pradipödyota, Vol. 1, Fasc. 1-9; Vol. It, Fasc. Fasc. 1-6 @ /10/ each Manutika Sangraha, Fasc. 1-3 @ /10/ each Márkaņdēya Purāna, (English) Fasc. 1-9 @ 1/- each . Markandeva Purana. Fasc. 5-7 @ /10/ each 0 1 - no 07 C. 19 coco ... 16 14 - Page #3 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः दौर्यमाणः कुशेनापि यः खाङ्गे हेन्त - ट्र्यते । निर्मन्तून् स कथं जन्तूनन्तयेन्निशितायुधैः ॥ २४ ॥ दीर्यमाणे विदार्यमाण: कुशेन दर्भेण अपि शब्दादास्तां शस्त्रेण यः स्वाङ्गे शरोरे हन्तेति प्रतिबोध्यामन्त्रणे दूयते उपतभ्यते । निम्मंन्तूनिरपराधान् जन्तून् स कथं अन्तयेदन्तं प्रापयेत् । निशितायुधैः कुन्तादिभिः श्रमानुसारेणापि परपोडामजानन्नेवं निन्द्यते । तथाच मृगया व्यापृतान् चत्रियान् प्रति केनचिदुक्तम् रसातलं यातु यदत्र पौरुषं 'क्व नीतिरेषाऽशरण्यो ह्यदोषवान् । निहन्यते 'यद्दलिनातिदुर्बलो हहा महाकष्टमराजकं जगत् ॥ १ ॥ २४ ॥ २०१ निर्मातुं क्रूरकर्माणः क्षणिकामात्मनो धृतिम् । समापयन्ति सकलं जन्मान्यस्य शरीरिणः ॥ २५ ॥ क्रूरं रौद्रं कर्म हिंसादि येषां ते क्रूरकर्माणो लुब्धकादयः । श्रात्मनः स्वस्य धृतिं स्वास्थ्यलक्षणं निर्मातुमिति सम्बन्धः । धृतेर्विशेषणं क्षणिकामिति चाजन्मशाश्वतिकष्धृतिनिमित्तं कदाचित्किचि (१) कुनीति | (२) गच यद्बलिनापि दुर्बलो | Page #4 -------------------------------------------------------------------------- ________________ । योगशास्त्रे बिरुद्दमपि क्रियेत । क्षणिकतिनिर्माणार्थं तु समापयन्ति समाप्ति नयन्ति जन्म अन्यस्य वध्यस्य शरीरिणः । अयमर्थः परप्राणिमांसजन्यक्षणिकटप्तिहेतोराकालिकं परस्यायुः समाप्यत इति महदिदं वैशसम् । यदाह योऽशाति यस्य तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका दृप्तिः प्राणैरन्यो वियुज्यते ॥ १ ॥ २५॥ मियखेत्युच्चमानोऽपि देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ॥ २६ ॥ नियस्व त्वमित्युच्यमानोऽपि न तु मार्यमाणो देही जन्तुर्जायमानमृत्युरिव दुःखितो भवतीति सर्वप्राणिप्रतीतम् । प्रहरणैः कुन्ततोमरादिभिर्मार्यमाणो विनाश्यमानः स वराको देही कथं भवेत् । परमदुःखित एव भवेदित्यर्थः । मरणवचनेनाऽपि दूयमानस्य निशितैः शौर्मारणमिति मृतमारणं तत्कथं सकर्ण: कुर्यादिति निन्दा ॥ २६ ॥ हिंसाफलं दृष्टान्तहारणाह श्रूयते प्राणिघातेन रौद्रध्यानपरायणी । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥ २७ ॥ श्रूयते पाकर्ण्यते एतदागमे । यदुत प्राणिघातेन हेतुना सुभूम Page #5 -------------------------------------------------------------------------- ________________ २०३ द्वितीयः प्रकाशः। ब्रह्मदत्तौ चक्रवर्तिनौ सप्तमं नरकं गतौ। हिंसाया नरकगमनहेतुत्वं न रौद्रध्यानमन्तरेण भवति । अन्यथा सिंहवधकतपस्विनो. ऽपि नरकः स्यादित्युक्तं रौद्रध्यानपरायणौ हिंसानुबन्धिध्यानयुक्तावित्वर्थः । यथा तौ नरकं गतौ तथा कथानकहारण दर्श्यते । तथाहि वसन्तपुरनामायां पुर्यामुच्छन्द्रवंशकः । अासीचुत इवाकाशादग्निको नाम दारकः ॥ १ ॥ सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । साडीनः परिभ्राम्यवगमत्तापसाश्रमम् ॥ २ ॥ तमग्निं तनयत्वेनाग्रहीत्कुलपतिनमः। ... जमदग्निरिति स्वातिं स लोकेषु ततोऽगमत् ॥ ३ ॥ तप्यमानस्तपस्तीक्ष्णं प्रत्यक्ष इव पावकः । तेजसा दुःसहेनासौ पप्रथे पृथिवीतले ॥ ४ ॥ अत्रान्तरे महाबाहो नाना वैखानर: सुरः । धन्वन्तरिश्च तापसभक्तो व्यवदतामिति ॥ ५॥ एक आहाहतां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् ॥ ६ ॥ आर्हतेषु जघन्यो यः प्रविष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरतिरिच्यते ॥ ७ ॥ तदानीं मिथिलापुयां नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीपतिः ॥ ८ ॥ Page #6 -------------------------------------------------------------------------- ________________ २०४ :: योगशास्त्रे दीक्षा श्रीवासुपूज्यान्ते ग्रहीतुं भावतो यतिः । गच्छंश्चम्पापुरौं ताभ्यां देवाभ्यां ददृशे पथि ॥॥ परीक्षाकाझ्या ताभ्यां पानावे ढौकिते नृपः । तृषित: चुधितोऽप्यौज्झदौराः सत्त्वाञ्चलन्ति न ॥ १० ॥ क्रकचैरिव चक्राते क्रूरैः कर्करकण्टकैः । पौडां देवी देवस्य मृदुनोः पादपनियोः ॥ ११ ॥ पादाभ्यां प्रक्षरद्रतधाराभ्यां तादृशेऽध्वनि । तूलिकातलसञ्चारं संचेरे च तथापि सः ॥ १२ ॥ निर्ममे गीतनृत्यादि ताभ्यां क्षोभाय भूपतेः । तमोघमभवत्तत्र दिव्यास्त्रमिव गोत्रज ॥ १३ ॥ तो सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाद्यापि महाभाग महदायुयुवासि च ॥ १४ ॥ स्वच्छन्दं च तद्भोगान् का धौर्यद्यौवने तपः । निशीथक्कत्यं कः प्रात: कुर्यादुद्योगवानपि ॥ १५ ॥ यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । ग्रहीयास्त्वं तपस्तात द्वितीयमिव वाईकम् ॥ १६ ॥ राजोचे यदि बह्वायुर्बहुपुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवईते ॥ १७ ॥ लोलन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणाने रणे यो हि शूरः शूरः स उच्यते ॥ १८ ॥ तस्मिनचलिते सत्त्वासाधु साध्विति वादिनी। तौ गतौ तापसोत्कृष्टं जमदग्नि परीक्षितम् ॥ १८ ॥ Page #7 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वल्मीकाकोर्णपादान्तं दान्तं तौ तमपश्यताम् ॥ २० ॥ तस्य श्मश्रुलताजाले नोडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ॥ २१ ॥ चटकश्चटकामूचे यास्यामि हिमवगिरौ । अन्यासक्तो नैष्यसि त्वमिति तं नान्वमंस्त सा ॥ २२ ॥ गोघातपातकेनाहं गृह्ये नायामि चेप्रिये । इत्युक्तशपथं भूयश्चटकं चटकाऽब्रवीत् ॥ २३ ॥ ऋषेरस्यैनसा गृह्ये शपेथा इति चेप्रिय । २०५ विसृजामि तदैव त्वां पन्थानः सन्तु ते शिवाः ॥ २४ ॥ इत्याकर्ण्य वचः क्रुद्धो जमदग्निमुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पक्षिणौ ॥ २५ ॥ आचचक्षे ततो हन्त कुर्वाणे दुष्करं तपः । उष्णरश्माविव ध्वान्तमाः पापं मयि कोदृशम् ॥ २६ ॥ अथर्षिं चटकोवाच मा कुपस्ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यश्रौषोस्त्वं न किं श्रुतिम् ॥ २७ ॥ तत्तथा मन्यमानोऽयं मुनिरेवमचिन्तयत् । ममाकलत्रपुत्रस्य प्रवाहे सूत्रितं तपः ॥ २८ ॥ क्षुभितं तं परिज्ञाय धिग् भ्वान्तस्तापसैरिति । जन्ने धन्वन्तरिः श्राड: प्रत्येति प्रत्ययात्र, कः ॥ २८ ॥ बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्प्राप पुरं नेमिक कोष्टकम् ॥ ३० ॥ Page #8 -------------------------------------------------------------------------- ________________ योगशास्त्र जितशत्रुमहीपासं तत्र भूयिष्ठकन्यकम् । स प्रेसुः कन्यकामेकां दक्षं हर इवागमत् ॥ ३१ ॥ कत्वाभ्युत्थानमुर्वीशः प्राञ्जलिस्तमभाषत। ' किमर्थमागता यूयं ब्रूत किं करवायहम् ॥ ३२ ॥ कन्यार्थमागतोऽस्मीति मुनिनोले नृपोऽब्रवीत् । मध्ये शतस्य कन्यानां त्वां येच्छति यहाण ताम् ॥ ३३ ॥ स कन्यान्तःपुरं गत्वा जगाद नृपकन्यकाः। धर्मपत्नी मम काचिद्भवतीभ्यो भवत्विति ॥ ३४ ॥ जटिलः पलित: क्षामो भिक्षाजीवो वदग्विदम् । न लज्जसे त्वमिति ताः कृतथूत्कारमूचिर ॥ ३५ ॥ समीरण इब क्रुहो जमदग्निमुनिस्ततः । पधिज्येषामयच्यामाः कन्याः कुक्षीचकार ता: ॥ २६ ॥ . प्रथाङ्गणे रेणुपुञ्चै रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवोच्च ताम् ॥ ३७॥ स तस्या इच्छसौत्युबा मातुलिङ्गमदर्शयत् । तया प्रसारित: पाणि: पाणिग्रहणसूचकः ॥ ३८ ॥ . तां मुनिः परिजग्राह रोरो धनमिवोरसा । साई गवादिभिस्तस्मै ददौ च विधिववृपः ॥ ३८ ॥ स श्यालीनेहसम्बन्धादेकोनं कन्यकाशतम् । सज्जीचक्रे तप:शक्त्या धिग्मूढानां तपोव्ययः ॥ ४० ॥ नोवाश्रमपदं तां च स मुग्धमधुराततिम् । हरिखौमिव लोलाक्षी प्रेम्णा मुनिरवईयत् ॥ ४१ ॥ Page #9 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । अङ्गुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दपलोलावनमवाप सा ॥ ४२ ॥ साक्षीतज्वलदग्निर्जमदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥ ४३ ॥ . ऋतुकाले स जचे तां चरं ते साधयाम्यहम् । . यथा ब्राह्मसमूईन्यो धन्य उत्पद्यते सुतः ॥ ४४ ॥ सोवाच हस्तिनपुरेऽनन्तवीर्यस्य भूपतः । पत्नास्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् ॥ ४५ ॥ ब्रानं सधर्मचारिण्यै क्षात्रं तज्जामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् ॥ ४६ ॥ साचिन्तयदहं तावदभूवमटवीमृगौ। . माभूभाहक सुतोऽपीति क्षात्रं चस्मभक्षयत् ॥ ४७ ॥ सादाबानं चहें स्वस्रे जातौ च तनयो तयोः । तब रामो रेणुकायाः कतवीर्यश्च तत्वसुः ॥ ४८॥ क्रमेण वधे राम ऋषित्वे पैटकेऽपि सः । क्षा प्रदर्शयंस्तेजो हुताशनमिवाम्भसि ॥ ४८ ॥ विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारको। विद्या तस्यातिसारात्या विस्मृताकाशगामिनी ॥ ५० ॥ रामिण प्रतिचरितो भेषजाद्यैः स बन्धुवत् । रामाय सेवमानाय विद्यां पारशबौं ददौ ॥ ५१ ॥ मध्येशरवणं गत्वा तां च विद्यामसाधयत् । राम: परशुरामोऽभूत्तत: प्रति विश्रुतः ॥ ५२ ॥ का। Page #10 -------------------------------------------------------------------------- ________________ २०८ योगशास्त्रे श्रन्येद्युः पतिमापृच्छ्य रेणुकोत्कण्ठिता स्वसुः । जगाम हस्तिनपुरे प्रेम्णो दूरे न किञ्चन ॥ ५३ ॥ श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्योऽरमयत्कामः कामं निरङ्कुशः ॥ ५४ ॥ ऋषिपत्नया तथा राजाहल्ययेव पुरन्दरः । अन्वभूश्च यथाकामं सम्भोगसुखसम्पदम् ॥ ५५ ॥ अनन्तवीर्यात्तनयो रेणुकायामजायत । ममतायामिवोतथ्यः सधर्मिण्यां बृहस्पतेः ॥ ५६ ॥ तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वोचते ॥ ५७ ॥ तां पुत्रसहितां वल्ली मकालफलितामिव । सञ्जातकोपः परशरामः परशुनाऽच्छिनत् ॥ ५८ ॥ तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः । कोपमुद्दीपयामास कृशानुमिव मारुतः ॥ ५८ ॥ ततच्चावार्यदोर्वीर्योऽनन्तवीर्यो महीपतिः । जमदग्न्याश्रमं गत्वाभावोन्मत्त इव द्विपः ॥ ६० ॥ तापसानां कृतत्रासः समादाय गवादि सः । मन्दं मन्दं परिक्रामन् केसरोव न्यवर्त्तत ॥ ६१ ॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत्साक्षादिवान्तकः ॥ ६२ ॥ सुभटग्रामसंग्रामकौतुको जमदग्निजः । पर्शुना खण्डशश्चक्रे दारुवद्दारुणेन तम् ॥ ६३ ॥ Page #11 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | राज्ये निवेशयाञ्चक्रे तस्य प्रकृतिपूरुषः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः ॥ ६४ ॥ स तु मातृमुखाच्छ्रुत्वा मृत्युव्यतिकरं पितुः । श्रदिष्टा हरिवागत्य जमदग्निममारयत् ॥ ६५ ॥ रामः पितृवधक्रुडो द्राग्गत्वा हस्तिनापुरे । अमारयत्क्कतवीर्यं किं यमस्य दवीयसि ॥ ६६ ॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥ ६७ ॥ रामाक्रान्तपुराद्राज्ञौ कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेणीवागमत्तापसाश्रमम् ॥ ६८ ॥ कृपाधनैर्भूग्टहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात्परशुरामतः ॥ ६८ ॥ चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽजनि । ग्गृह्णन् भूमिं सुखेनाभूत्लुभूमो नामतस्ततः ॥ ७० ॥ क्षत्रियो यत्र यत्त्रासीत्तत्र तत्राप्यदीप्यत । पर्शुः परशुरामस्य कोपाग्निरिव मूर्त्तिमान् ॥ ७१ ॥ रामोऽगादन्यदा तत्त्राश्रमे पर्शुश्च सोऽज्वलत् । क्षत्रं चासूचयडूम इव धूमध्वजं तदा ॥ ७२ ॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपखिनः । इत्यचुस्तापसीभूताः चत्रिया वयमास्महे ॥ ७३ ॥ रामोऽप्यमर्षात्रिःक्षत्रां सप्तकृत्वो वसुन्धराम् । निर्ममे निस्तृणां शैलतटोमिव दवानलः ॥ ७४ ॥ २७ २०८ Page #12 -------------------------------------------------------------------------- ________________ .२१० योगशास्त्रे तुमक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ॥ ७५ ॥ राम: पप्रच्छ 'नैमित्तानन्येद्य कुतो वधः । सदा वैरायमाणा हि शकन्ते परतो मृतिम् ॥ ७६ ॥ यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोच्यतेऽमूस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ॥ ७७ ॥ रामोऽथ कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्रास्थापयत्स्थालमग्रतः ॥ ७८ ॥ अथाश्रमे प्रतिदिनं लालयद्भिस्तपस्विभिः । निन्येऽङ्गणद्रुम इव सभूमो वृद्धिमद्भुताम् ॥ ७८ ॥ विद्याधरो मेघनादोऽन्येद्यनैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् ॥ ८० ॥ तस्या वरं वरीयांसं सुभूमं तेऽप्युपादिशन् । दत्त्वा कन्यां ततस्तस्मै तस्यैवाभूत्स सेवकः ॥ ८१ ॥ कूपभक इवानन्यगोऽथ पप्रच्छ मातरम्। सुभूमः किमियानेव लोकोऽयमधिकोऽपि किम् ॥ २ ॥ माताप्यचौकथदथो लोकोऽनन्तो हि वत्सक । मक्षिकापदमानं हि लोकमध्येऽयमाश्रमः ॥ ८३ ॥ अस्मिन् लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कतवीर्योऽभूत्तत्र राजा महाभुजः ॥ ८४ ॥ (१) प ड नैमित्तानधान्येद्युः कुतो मम। (२). चड वधो। Page #13 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । हत्त्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षितिं निःक्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ॥ ८५ ॥ तत्कालं हास्तिनपुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणे क्रुद्धः क्षात्रं तेजो हि दुर्द्दरम् ॥ ८६ ॥ तत्र सत्रे ययौ सिंह इव सिंहासनेऽविशत् । दंष्ट्रास्ताः पायसोभूताः सुभुजो बुभुजे च सः ॥ ८७ ॥ उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जघ्निरे मेघनादेन व्याघ्रेण हरिणा इव ॥ ८८ ॥ प्रस्फुरद्दंष्ट्रिकाकेशी दशनैरधरं दशन् । ततो रामः क्रुधा कालपाशाक्कृष्ट इवाययौ ॥ ८८ ॥ रामेण मुमुचे रोषात्सुभूमाय परश्वधः । विध्यातस्तत्क्षणं तस्मिन् स्फुलिङ्ग इव वारिणि ॥ ८० ॥ अस्त्राभावात्सुभूमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रोबभूव तत्सद्यः किं न स्यात्पुण्यसम्पदा ॥ ११ ॥ चक्रवर्त्त्यष्टमः सोऽथ तेन चक्रेण भाखता । शिरः परशरामस्य पङ्कजच्छेदमच्छिदत् ॥ ८२ ॥ क्षमां निःक्षत्रियां रामः सप्तकृत्वो यथा व्यधात् । एकविंशतिक्कृत्वस्तां तथा निर्ब्राह्मणामसौ ॥ ८३ ॥ क्षुण्णक्षितिपहस्त्यश्वपदातिव्यूहलोहितैः । वाहयन् वाहिनीर्नव्याः स प्राक् प्राचोमसाधयत् ॥ ८४ ॥ स च्छिन्नानेक सुभटमुण्डमण्डितभूतलः । दक्षिणाशां दक्षिणाशापतिरन्य इवाजयत् ॥ ८५ ॥ २११ Page #14 -------------------------------------------------------------------------- ________________ योगशास्त्रे भटास्थिभिर्दन्तुरयन् शक्तिशडरिवाभितः । रोधी नीरनिधेः सोऽथ प्रतीचीमजयहिशम् ॥ ६ ॥ हेलोद्घाटितवैताव्यकन्दरः स्थाममन्दरः । म्लेच्छान्विजेतुं भरतोत्तरखण्डं विवेश सः ॥ १७ ॥ उच्छलच्छोणितरसच्छटाछुरितभूतलः । म्लेच्छांस्तवाथ सोऽभाजौदिचूनिव महाकरी ॥ १८ ॥ एवं चतुर्दिशं भ्राम्यन् घरट्टवणकानिव । दलयन् सुभटानुस् स षट्खण्डामसाधयत् ॥ ६ ॥ उज्जासयन्नसुमतामिति नित्यरौद्र. ध्यानानलेन सततं ज्वलदन्तरामा । प्रासाद्य कालपरिणामवशेन मृत्यु सां सप्तमौं नरकभूमिमगात्नुभूमः ॥ १० ॥ इति सुभूमश्चक्रवर्तीकथानकम् ॥ अथ ब्रह्मदत्तकथा साकेतनगरे चन्द्रावतंसस्य सुतः पुरा। नामतो मुनिचन्द्रोऽभूञ्चन्द्रवन्मधुराततिः ॥ १ ॥ निर्विमः कामभोगेभ्यो भारभ्य इव भारिकः । मुनेः सागरचन्द्रस्य पाखें जग्राह स व्रतम् ॥ २॥ प्रव्रज्यां जगतः पूज्यां पालयबयमन्यदा । देशान्तर विहाराय चचाल गुरुणा सह ॥ ३ ॥ स तु भिक्षानिमित्तेन पथि ग्रामं प्रविष्टवान् । सार्थाद्धष्टोऽटवीमाट यथच्युत इवैणकः ॥ ४ ॥ Page #15 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | स तत्र क्षुत्पिपासाभ्यामाक्रान्तो ग्लानिमागतः । चतुर्भिः प्रतिचरितो वल्लवेर्बान्धवैरिव ॥ ५ ॥ स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ॥ ६ ॥ प्रवव्रजुस्ते तत्पार्श्वे चत्वारः शमशालिनः | चतुर्विधस्य धर्मस्य चतस्र इव मूर्त्तयः ॥ ७ ॥ व्रतं तेऽपालयन् सम्यक् किन्तु हौ तत्र चक्रतुः । धर्मे जुगुप्सां चित्रा हि चित्तवृत्तिः शरीरिणाम् ॥ ८ ॥ जग्मतुस्तपसा तौ द्यां जुगुप्साकारिणावपि । स्वर्गाय जायतेऽवश्यमप्येकाहः कृतं तपः ॥ ८ ॥ चुत्वा ततो दशपुरे शाण्डिल्यब्राह्मणावुभौ । युग्मरूपौ सुतौ दास्यां जयवत्यां बभूवतुः ॥ १० ॥ तौ क्रमाद्यौवनं प्राप्तौ पित्रादिष्टौ च जग्मतुः । रक्षितुं क्षेत्रमोदृग् हि दासेराणां नियोजनम् ॥ ११ ॥ तयोः शयितयोर्नक्तं निःसृत्य वटकोटरात् । एक: कृष्णाहिना दष्टः कृतान्तस्येव बन्धुना ॥ १२ ॥ ततः सर्पोपलम्भाय द्दितोयोऽपि परिभ्रमन् । वैरादिवाश तेनैव दष्टो दुष्टेन भोगिना ॥ १३ ॥ तावनाप्तप्रतीकारौ वराकौ मृत्युमापतुः । यथाssयातौ तथा यातौ निष्फलं जन्म धिक्तयोः ॥ १४ ॥ कालिञ्जरगिरिप्रस्थे मृग्या यमलरूपिणौ । मृगावजनिषातां तौ वटधाते सहैव च ॥ १५ ॥ २१३ Page #16 -------------------------------------------------------------------------- ________________ योगशास्त्रे प्रोत्या सह चरन्तौ तौ मृगौ मृगयुणा हतौ।। बाणेनैकेनैककालं कालधर्ममुपैयतः ॥ १६ ॥ ततोऽपि मृतगङ्गायां राजहंस्या उभावपि । अजायेतां सुतौ युग्मरूपिणौ पूर्वजन्मवत् ॥ १७ ॥ क्रीडन्तावेकदेशस्थी कृत्वा जालेन जालिकः। . ग्रीवां भंवा ऽवधौडम्भहीनानां हौदृशौ गतिः ॥ १८ ॥ वाराणस्यां ततोऽभूतां भूतदत्ताभिधस्य तौ। महाधनसमृद्धस्य मातङ्गाधिपतेः सुतौ ॥ १८ ॥ चित्रसम्भूतनामानौ तौ मिथः मेहशालिनौ।। न कदापि व्ययुज्येतां सम्बद्धौ नखमांसवत् ॥ २० ॥ वाराणस्यां तदा चाभूच्छङ्ग इत्यवनीपतिः । प्रासौच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः ॥ २१ ॥ अपरेयुः सोऽपराधे महीयसि महीभुजा। अर्पितो भूतदत्तस्य प्रच्छन्त्रवधहेतवे ॥ २२ ॥ तेनोचे नमुचिश्छदं त्वां रक्षामि निजामवत् । पाठयस्यात्मजी मे त्वं यदि भूमिगृहस्थितः ॥ २३ ॥ प्रतिपन्नं नमुचिना तमातङ्गपतेर्वचः। : जनो हि जीवितव्यार्थी तबास्ति न करोति यत् ॥ २४ ॥ विचित्राचित्रसम्भूतौ स तथाऽध्यापयत् कलाः । . रेमेऽनुरक्तया साई मातङ्गपतिभार्यया ॥ २५ ॥ ज्ञात्वा तद्भूतदत्तेनारेभे मारयितुं स तु । .. सहते कः स्वदारेषु पारदारिकविप्लवम् ॥ २६ ॥ Page #17 -------------------------------------------------------------------------- ________________ २१५ द्वितीयः प्रकाशः । २१५ ज्ञात्वा मातङ्गपुत्राभ्यां स दूरणापसारितः । सैवास्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा ॥ २७ ॥ ततो नि:मृत्य नमुचिर्गतवान् हस्तिनापुर । चक्रे सनत्कुमारेण सचिवश्चक्रिणा निजः ॥ २८ ॥ इतश्च चित्रसम्भूतौ बभतुर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव ॥ २८ ॥ तो स्वादु जगतुर्गीतं हाहाइड्पहासिनौ। . . वादयामासतुरूणामतितुम्बुरुनारदौ ॥ ३० ॥ गीतप्रबन्धानुगतैः सुव्यक्तैः सप्तभिः स्वरैः। तयोर्वादयतोर्वेणुं किं करन्ति स्म किनराः ॥ ३१ ॥ मुरज धौरघोषं तौ वादयन्तौ च चक्रतुः । गृहौतमुरकं कालातोद्यकष्णविडम्बनाम् ॥ ३२ ॥ शिवः शिवोर्वशौरम्भामुनकेशीतिलोत्तमाः । यवाव्यं न विदाञ्चक्रुस्तौ तदप्यभिनिन्यतः ॥ ३३ ॥ सर्वगान्धर्वसर्वस्वमपूर्व विखकाम्प्रणम् । प्रकाशयद्भामताभ्यां न जड़े कस्य मानसम् ॥ ३४ ॥ तस्यां पुरि प्रववृत्ते कदाचिन्मदनोत्सवः । निरीयुः पौरचर्चय॑स्तत्र संगीतपेशला: ॥ ३५ ॥ चर्चरी निर्ययौ तत्र चित्रसम्भूतयोरपि । जग्मुस्तत्रैव तहौताक्लष्टा: पौरा मृगा इव ॥ २६ ॥ राज्ञो व्यज्ञपि केनापि मातङ्गाभ्यां पुरीजनः । ..... गीतनावष्य सर्वोऽयमात्मवन्मलिनः कृतः ॥ ३७॥ Page #18 -------------------------------------------------------------------------- ________________ २१६ योगशास्त्रे मापेनापि पुराध्यक्ष: साक्षेपमिदमाजपि । न प्रवेश: प्रदातव्यो नगर्यामनयोः क्वचित् ॥ ३८ ॥ तत:प्रभृति तौ वाराणस्या दूरण तस्थतः । प्रवृत्तश्चैकदा तत्र कौमुदीपरमोत्सवः ॥ ३८ ॥ . राजशासनमुल्लङ्घय लोलेन्द्रियतया च तो। । प्रविष्टौ नगरौं भृङ्गो गजगहतटीमिव ॥ ४० ॥ उत्सवं प्रेक्षमाणौ तौ सर्वाङ्गीणावगुण्ठनौ । दस्युवबगरीमध्ये छवं छन्नं विचरतुः ॥ ४१ ॥ क्रोष्टुवत्क्रोष्टुशब्देन पोरगीतेन तौ ततः । अगायतां तारतारमलङ्ग्या भवितव्यता ॥ ४२ ॥ आकर्य कर्णमधुरं तहोतं युवनागरैः। मधुवन्मक्षिकाभिस्तो मातङ्गो परिवारितौ ॥ ४३ ॥ कावेताविति विज्ञातुं लोकः कष्टावगुण्ठनौ ।' अरे तावेव मातङ्गावित्याक्षेपेण भाषितौ ॥ ४४ ॥ नागरैः कुव्यमानौ तौ यष्टिभिर्लोष्टुभिस्ततः । खानाविव रहात्युयों नतग्रोवौ निरीयतुः ॥ ४५ ॥ तौ सैन्यशशवलोकैहन्यमानी पदे पदे। स्खलत्पादौ कथमपि गम्भीरोद्यानमीयतुः ॥ ४६ ॥ तावचिन्तयतामेवं धिग् नौ 'दु तिदूषितम् । कलाकौशलरूपादि पयोध्रातमिवाहिना ॥ ४७ ॥ (१) सगड दुर्जाति-। Page #19 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणायाः शान्तेवेताल उत्थितः ॥ ४८ ॥ कलालावण्यरूपाणि स्थूतानि वपुषा सह । तदेवानर्थसदनं तृणवत्यज्यतां क्षणात् ॥ ४८ ॥ इति निश्चित्य तौ प्राणपरिहारपरायणौ । मृत्युं साक्षादिव द्रष्टुं चेलतुर्दक्षिणामभि ॥ ५० ॥ ततो दूरं प्रयातौ तौ गिरिमेकमपश्यताम् | यत्रारूदैर्भुवीक्ष्यन्ते करिण: किरिपोतवत् ॥ ५१ ॥ भृगुपातेच्छया ताभ्यामारोहह्नयां महामुनिः । ` ददृशे पर्वते तस्मिन् जङ्गमो गुणपर्वतः ॥ ५२ ॥ प्रावृषेण्यामिवाम्भोदं मुनिं गिरिशिरः स्थितम् । दृष्ट्वा प्रनष्टमन्तापप्रसरौ तौ बभूवतुः ॥ ५३ ॥ तौ प्राग्दुःखमिवोज्झन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयोर्भृङ्गाविव सद्यो निपेततुः ॥ ५४ ॥ समाप्य मुनिना ध्यानं कौ युवां किमिहागतौ । इति पृष्टौ स्ववृत्तान्तं तावशेषमशंसताम् ॥ ५५ ॥ स ऊचे भृगुपातेन वपुरेव हि शीर्यते 1 शौर्यते नाशुभं कर्म जन्मान्तरशतार्जितम् ॥ ५६ ॥ त्याज्यं वपुरिदं वाश्चेद् ग्टहीतं वपुषः फलम् । तच्चापवर्गस्वर्गादिकारणं परमं तपः ॥ ५७ ॥ इत्यादि देशना वाक्यसुधानिधतमानसौ । तस्य पार्श्वे जग्टहतुर्यतिधर्म मुभावपि ॥ ५८ ॥ . २८ २१७ Page #20 -------------------------------------------------------------------------- ________________ २१८ योगशास्त्रे प्रधीयानो क्रमेणाथ तो गौतार्थों बभूवतुः । पादरेण ग्रहोतं हि किंवा न स्यान्मनखिनाम् ॥ ५ ॥ षष्ठाष्टमप्रभृतिभिस्ती तपोभिः सुदुस्तपैः । क्रशयामासतुहं प्रातनः कर्मभिः सह ॥ ६ ॥ ततो विहरमाणौ तौ ग्रामाद्रामं पुरात्पुरम्। . . कदाचिप्रतिपेदाते नगरं हस्तिनापुरम् ॥ ६१ ॥ तौ तत्र रुचिरोयाने पेरतुदुंखरं तपः । सम्भोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् ॥ ६२ ॥ सभूतमुनिरन्येचुर्मासक्षपणपारणे । पुरे प्रविष्टो भिक्षार्थ यतिधर्मोऽङ्गवानिव ॥ ६३ ॥ गेहाडेहं परिभाम्यवीर्यासमितिपूर्वकम् । स राजमार्गापतितो दृष्टो नमुचिमन्त्रिणा ॥ ६४ ॥ मातङ्गदारकः सोऽयं महत्तं ख्यापयिष्यति। . मन्त्रीति चिन्तयामास पापाः सर्वत्र शहिताः ॥ ६५ ॥ यावन्ममर्म कस्यापि प्रकाशयति न घसी। तावविर्वासयाम्येनमिति पत्तीबायुक्त सः ॥ ६६ ॥ स ताडयितुमारेभे तेन पूर्वोपकार्यपि । क्षीरपाणमिवाहीनामुपकारोऽसतां यतः ॥ ६ ॥ लकुरैः कुव्यमानोऽसौ सस्थबोजमिवोत्कटः । स्थानात्ततोऽपचक्राम त्वरितं त्वरितं मुनिः ॥ ६८ ॥ प्रमुच्चमानः कुटाकैर्बियबपि मुनिस्तदा।। शान्तोऽप्यकुप्यदापोऽपि तप्यन्ते वड़ितापतः ॥ ३८ ॥ . Page #21 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। २१८ निर्जगाम मुखात्तस्य बाष्यो नीलः समन्ततः । प्रकालोपस्थिताम्भोदविक्रमं बिभ्रदम्बरे ॥ ७० ॥ तेजोलेश्योललासाथ ज्वालापटलमालिनी। तडिमण्डलसाहीमिव द्यामभितन्वती । ७१ ॥ प्रतिविष्णुकुमारं तं तेजोलेश्याधरं ततः । प्रसादयितुमाजग्मुः पौराः सभयकौतुकाः ॥ ७२ ॥ राजा सनत्कुमारोऽपि ज्ञात्वा तत्र समाययो। उत्तिष्ठति यतो वहिस्तहि विध्यापयेत्सुधीः ॥ ७३ ॥ नत्वोचे तं नृपः किं वो युज्यते भगवविदम् । चन्द्राश्माकांशतप्तोऽपि नाचिर्मुञ्चति जातचित् ॥ ७४ ॥ . एभिरत्यपराई यत्कोपोऽयं भवतामतः । .. . . क्षीराधेमण्यमानस्य कालकूटमभूव किम् ॥ ७५ ॥ न स्याल्याचेचिरं न स्याचिरं चेत्तत्फलेऽन्यथा । खलनेह इव क्रोधः सतां तमहेऽत्र किम् ॥ १६ ॥ तथापि नाथ नाथामि कोपं मुञ्चेतरोचितम् । भवादृशाः समदृशो अपकार्युपकारिषु ॥ ७७ ॥ चित्रोऽप्यत्रान्तरे ज्ञात्वा सम्भूतमुनिमभ्यगात् । सान्वयितुं भद्रमिव हिपं मधुरभाषितः ॥ ७ ॥ तस्य कोप उपाशाम्यञ्चित्रवाक्यैः श्रुतानुगः । पयोवाहपयःपूरैगिरेरिव दवानल: ॥ ७ ॥ 'महाकोपतमोमुक्तः शशा इव पार्वणः । (१) ग प ड तीब्रकोप Page #22 -------------------------------------------------------------------------- ________________ २२० योगशास्त्रे क्षणादासादयामास प्रसादं म महामुनिः ॥ ८० ॥ वन्दित्वा क्षमयित्वा च लोकस्तस्माबावर्तत।। सम्भूतश्चित्रमुनिना तदुधानमनीयत ॥ ८१ ॥ पश्चात्तापं चक्रतुस्तौ पर्यटद्भिगृहे रहे। ....... आहारमात्रककृते प्राप्यते व्यसनं महत् ॥ २॥ शरीरं गत्वरमिदं ह्याहारेणापि पोषितम् ।... किमनेन शरीरेण किंवाहारण योगिनाम् ॥ ८३ ॥ चेतसीति विनिश्चित्य कृतसंलेखनौ पुरा। उभौ चतुर्विधाहारप्रत्याख्यानं प्रचक्रतुः ॥ ८४ ॥ . कः पराभूतवान्साधु वसुधाम्पाति मय्यपि । इति जिज्ञासतो राजो मन्त्री व्यजपि केनचित् ॥ ८५॥ अर्याबार्चति यः सोऽपि पाप: किमुत हन्ति यः। . इत्यानाययदुर्वीशो दस्युवलंयमय्य तम् ॥ ८६ ॥ अन्योऽपि साधुविध्वंसं माविधादिति शुद्धधीः । तं बई पुरमध्येन सोऽनैषीकाधुसविधौ ॥ ८७ ॥ नमबृपशिरोरत्नभाभिरम्भोमयोमिव । कुर्वत्रुर्वी स उर्बीशपुङ्गवस्ताववन्दत ॥ ८८ ॥ सव्यपाणिग्रहीतास्यवस्विकापिहिताननौं। उद्दक्षिणकरौ तौ तमाशशंसतुराशिषा ॥ ८८ ॥ यो वोपराधवान् सोऽस्तु 'खकर्मफलभाजनम् । राजा सनत्कुमारणत्यदर्शि नमुचिस्तयोः ॥ १० ॥ (१) क छ स्वकर्मफलभागसौ। Page #23 -------------------------------------------------------------------------- ________________ हितीयः प्रकाश: । २२१ प्रमोचि नमुचिं: प्राप्तः पञ्चत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव ॥ १ ॥ निर्वास्य कर्मचण्डालश्चण्डाल इव पत्तनात् । वध्योऽप्यमोच्चसौ राजा मान्यं हि गुरुशासनम् ॥ २२ ॥ सपनीभिश्चतुःषष्टिसहस्त्रैः परिवारिता। वन्दितुं तौ सुनन्दागात् खीरबमथ. चक्रिणः ॥ १३ ॥ सा सम्भूतमुनेः पादपद्मयोललितालका। पपातास्येन कुर्वाणा भुवमिन्दुमतीमिव ॥ १४ ॥ तस्थाचालकसंस्पर्श सम्भूतमुनिरन्वभूत्। .. रोमाञ्चितच सद्योऽभूलान्वेषी हि मन्मथः ॥ १५ ॥ अथ सान्तःपुरे राजि तावनुज्ञाप्य जम्मुषि। रागाभिभूतः सम्भूतो निदानमिति निममे ॥ ८ ॥ दुष्करस्य मदीयस्य यद्यस्ति तपस:फलम् । .... तत्स्त्रीरत्नपतिरहं भूयासं भाविजन्मनि ॥ ८७ ॥ चित्रोऽप्यूचे काहसीदं मोक्षदात्तपसः फलम् । मौलियोग्यन रन पादपीठं करोषि किम् ॥ १८ ॥ मोहात्कृतं तबिदानमिदानीमपि मुच्यताम् । मिथ्यादुष्कतमस्यास्तु मुन्ति न भवादृशाः ॥ ८ ॥ एवं निवार्यमाणोऽपि सम्भूतचित्रसाधुना। निदानं नामुचदहो विषयेच्छा बलीयसी ॥ १० ॥ नियूंढानशनौ तौ तु प्राप्तायुःकर्मसंक्षयो। ... सौधर्म समजायेतां विमाने सुन्दर सुरौ ॥१॥ . Page #24 -------------------------------------------------------------------------- ________________ २२२ . योगशास्त्र थुखा जीवोऽथ चिवस्य प्रथमस्वर्गलोकतः।। पुरे पुरिमतालाख्ये महेभ्यतनयोऽभवत् ॥ २॥ . चुत्वा सम्भूतजीवोऽपि काम्पिल्ये बमभूपतेः। भार्यायाधुलनीदेव्याः कुक्षौ समवतीर्णवान् ॥ ३ ॥ . चतुर्दगमहास्वप्रसूचितागामिवैभवः । पथ जज्ञे सुतस्तस्था: प्राथा इव दिवाकरः ॥ ४ ॥ ब्रह्ममग्न इवानन्दाद ब्रह्मभूपतिरस्य च । ब्रह्माण्ड विश्रुतां ब्रह्मदत्त इत्यभिधां व्यधात् ॥ ५ ॥ वध स जगबेत्रकुमुदानां मुदं दिशन्। . पुष्थन् कलाकलापन कलानिधिरिवामलः ॥६॥ वक्त्राणि ब्रस इव चत्वारि ब्रह्मणोऽभवन् । प्रियमिवाणि तत्रैकः कटकः काशिभूपतिः ॥ ७ ॥ कणेरुदत्तसंशोऽन्यो हस्तिनापुरनायकः। दोश्च कोशलाधीशश्चम्पेशः पुष्पचूलकः ॥८॥ ते बेहाहर्षमेकैकमेकैकस्य पुरं युताः । पञ्चाप्यधिवसन्ति सम खर्दुमा इव नन्दनम् ॥ ८॥ ब्रह्मणो नगरेऽन्येास्ते यथायोगमाययुः । तव च क्रीडतां तेषां ययौ काल: कियानपि ॥ १० ॥ ब्रह्मदत्तस्य पूर्णेषु वर्षेषु हादशेष्यथ । परलोकगतिं भजे ब्रह्मराजः शिरोरुजा ॥ ११ ॥ नवौईदेहिकं ब्रह्मभूपतेः कटकादयः ।। उपाया इव मूर्तास्ते चत्वारोऽमन्त्रयविति ॥ १२ ॥ Page #25 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। . २२३ ब्रह्मदत्त: गिर्यावदेकैकस्तावदत्र नः। तस्थ प्राहरिक इव वर्षे वर्षेऽस्तु रक्षकः ॥ १३ ॥ : दीर्घस्त्रातुं सुहद्राज्यं तैः संयुज्य न्ययुज्यत। .. तत: स्थानाद्यथास्थानमथ जग्मुस्त्रयोऽपि ते ॥ १४ ॥ प्रदीर्घबुदिदी?ऽपि ब्रह्मणो राज्यसम्पदम् । . उक्षेवारक्षक क्षेत्रं स्वच्छन्दं बुभुजे तत: ॥ १५ ॥ . निरहुशतया कोशं चिरगूढं स मूढधीः। सर्वमन्वेषयामास परममेव दुर्जनः ॥ १६ ॥ . स प्राक् परिचयादन्तरन्तःपुरमनर्गलः । सञ्चचाराधिपत्यं हि प्रायोऽन्धं करणं नृणाम् ॥ १७ ॥ एकान्ते चुलनीदेव्या सोऽतिमात्रममन्त्रयत् । वचोभिननिपुणेर्नुदन् स्मरमरैरिव ॥ १८ ॥ पाचारं ब्रह्ममुक्तं लोकं चावगणय्य सः। .. संप्रसतयुलन्याभू(राणौन्द्रियाणि हि ॥ १८ ॥ ब्रह्मराजे पतिप्रेममित्रस्नेहं च मावुभौ। जहतुकूलनीदीर्घावहो सर्वषः स्मरः ॥ २० ॥ मुखं विलसतोरेवं यथाकामीनयोस्तयोः । बहवो व्यतियान्ति स्म मुहर्तमिव वासराः ॥ २१ ॥ ब्रअराजस्य हृदयं हैतीयकमिव स्थितम् । मन्नानासीदरिदं स्पष्टं दुशेष्टितं तयोः ॥ २२ ॥ सचिवोऽचिन्तयञ्चेदं चुलनी स्त्रीखभावतः । प्रकार्यमाचरत्वेषा सत्यो हि विरलाः स्त्रियः ॥ २३ ॥ Page #26 -------------------------------------------------------------------------- ________________ २२४ योगशास्त्र सकोशान्तःपुरं राज्यं न्यासे विश्वासतोऽर्पितम् । यहिद्रवति दीर्घस्तदकार्य नास्य किञ्चन ॥ २४ ॥ तदसावाचरत्किञ्चित्कुमारस्यापि विप्रियम् । पोषकस्यापि नामीयो मार्जार इव दुर्जनः ॥ २५ ॥ विमृश्येति वरधनुसंनं स्वसतमादिशत् । तत्तत् ज्ञापयितुं नित्यं ब्रह्मदत्तं च वितुम् ॥ २६ ॥ विज्ञप्ते मन्त्रिपुत्रेण वृत्तान्ते ब्रह्मनन्दनः । शनैः प्राकाशयकोपं नवोद्भिन्न इव हिपः ॥ २७ ॥ ब्रह्मदत्तोऽसहिष्णुस्त मालदुश्चरितं ततः । .. मध्ये शुद्धान्तमंगमगृहीत्वा काककोकिले ॥ २८ ॥ वर्णसङ्करतो वध्यावतावन्यमपीदृशम् । . निश्चितं निग्रहीयामि तवेत्युञ्चरुवाच सः ॥ २८ ॥ काकोऽहं त्वं पिकोत्यावां निजिक्षत्यसाविति । दोघेणोक्तोऽवदहेवी माभैषीर्बालभाषितात् ॥ ३० ॥ एकदा भद्रवशया सह नीत्वा मृगहिपम् । .. साक्षेपं तहदेवोचे कुमारो मारसूचकम् ॥ ३१ ॥ इति श्रुत्वाऽवदहीर्घः साकूतं बालभाषितम् । .. : ततथुलन्युवाचेति यद्यस्त्येवं ततोऽपि किम् ॥ ३२ ॥ हंस्याऽन्ये युबकं बड्डाभ्यधत्त ब्रह्मसूरिति । अनया रमते घेष सहे कस्यापि नेदृशम् ॥ ३३ ॥ दीर्घोऽवादीदिदं देवो वपुत्रस्य गिशोः शृण । पसरुनिवरोषाग्निधूमोडारोपमा गिरः ॥ ३४ ॥ Page #27 -------------------------------------------------------------------------- ________________ २२५ हितीयः प्रकाशः । वईमानः कुमारोऽयं तदवश्यं भविष्यति। पावयोरतिविघ्नाय करेखोरिव केसरी ॥ ३५ ॥ न यावत्कवचहरः कुमारो हन्त जायते । तावद्विषद्रुम इव बालोऽप्युमूवताममौ ॥ २६ ॥ चुलन्यूचे कथं राज्यधरः पुत्रो विहन्यते । तिरयोऽपि हि रक्षन्ति पुत्रान् प्राणानिवामनः ॥ ३० ॥ दीर्घोऽब्रवीत्युवमूर्त्या तव कालोऽयमागतः । मामुहस्त्वं मयि सति सुतास्तव न दुर्लभाः ॥ ३८ ॥ विमुच्चापत्यवात्सल्यं शाकिनीव चुलन्यथ । रतस्नेहपरवशा प्रतिशुश्राव तत्तथा ॥ ३८ ॥ सामन्त्रयहिनाभ्योऽयं रथा च वचनीयता । यहदानवणं सेक्वं कार्य च पितर्पणम् ॥ ४॥ क उपायोऽधवास्त्वेष विवाह्यो ब्रह्मसूरसौ । वासागारमिषात्तस्य कार्य जतुग्रहं ततः ॥ ४१ ॥ गूढप्रवेशनिःसारे तबीहाहादनन्तरम् । सुषुप्ते ससुषेऽप्यस्मिन् ज्वाल्यो निशि हुताशनः ॥ ४२ ॥ उभाभ्यां मन्वयित्वैवं पुष्यचूलस्य कन्यका । हता वैवाहिकौसर्वसामग्री चोपचक्रमे ॥ ४३ ॥ तयोग्य क्रमाकूतं विज्ञाय सचिवो धनुः । इति विनपयामास दीर्घराज कताञ्जलिः ॥ ४४ ॥ कलावित्रीतिकुशलः सूनुर्वरधनुर्मम । वह लिहयुवेवास्तु त्वदाचारयधूर्वहः ॥ ४५ ॥ Page #28 -------------------------------------------------------------------------- ________________ योगशास्त्र - जरगव इवाहं तु यातायातेषु निःसहः । गत्वा कचिदनुष्ठानं करोमि त्वदनुज्ञया ॥ ४६॥ कमप्यनथं कुर्वीत मायाव्येष गतोऽन्यतः। प्राशतेति तं दी| धीमद्भाः को न शङ्कते ॥ ४७ ॥ मायाक्ततावहित्थोऽथ दीर्घः सचिवमूचिवान्। राज्येन त्वां विना न: किं यामिन्येव विना विधुम् ॥४८ ॥ धर्म सवादिनाऽत्रैव कुरु मागास्त्वमन्यतः । राज्यं भवादृशै ति सदृक्षैरिव काननम् ॥ ४८ ॥ ततो भागीरथीतीरे सहहिर्विदधे धनुः । धर्मस्येव महाच्छत्रं पवित्रं सत्रमण्डपम् ॥ ५० ॥ सत्रं च पान्यसार्थानामनपानादिना ततः। प्रवाहमिव गाङ्गं सो ऽनवच्छिन्नमवाहयत् ॥ ५१ ॥ दानमानोपकारात्तैः स प्रत्ययितपूरुषः । चक्रे सुरङ्गां विक्रोशां ततो जतुगृहावधि ॥ ५२ ॥ इत: प्रच्छन्नलेखेन सौहार्दद्रुमवारिणा। 'इमं व्यतिकरं पुष्पचूलमज्ञापयहनुः ॥ ५३ ॥ जाला तत्पुष्पचूलोऽपि सुधीः स्वदुहितः पदे। प्रेषयामास दासेरौं हंसीस्थाने बकोमिव ॥ ५४ ॥ पित्तले च स्वर्ममिति पौष्पचूलौति सा जनैः । लक्षिता भूषणमणिद्योतिताशाविशत्पुरोम् ॥ ५५ ॥ (१) चड इति। Page #29 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । मूर्च्छहीतिध्वनितूर्यपूर्यमाणे नभस्तले । मुदा तां चुलनी ब्रह्मसूनुना पर्यणाययत् ॥ ५६ ॥ चुलन्यप्यखिलं लोकं विसृज्य रजनीमुखे । कुमारं समुषं प्रेषोज्जातर्ष वासवेश्मनि । ५७ ॥ सवधूकः कुमारोऽपि विसृष्टान्यपरिच्छदः । तत्रागाहरधनुना च्छाययेव स्वया सह ॥ ५८ ॥ वार्ताभिमन्त्रिपुत्रेण ब्रह्मदत्तस्य जाग्रतः । निशाई व्यतिचक्राम कुतो निद्रा महात्मनाम् ॥ ५८ ॥ चुलन्यादिष्टपुरुषैः फल्क नमिताननैः । ज्वलेति प्रेरित इव वासगृहेऽज्वलच्छिखी ॥ ६० ॥ धूमस्तोमस्ततो विष्वक् पूरयामास रोदसौम् । चुलनीदीर्घदुष्कृत्यदुष्कोतिप्रसरोपमः ॥ ६१ ॥ सप्तजिह्वोऽप्यभूत्कोटिजिह्वो ज्वालाकदम्बकैः । तत्सवें कवलीकर्तुं बुभुक्षित इवानलः ॥ ६२ ॥ किमेतदिति संपृष्टो ब्रह्मदत्तेन मन्वितूः । संक्षेपादाचचक्षे ऽदथुलनीदुष्टचेष्टितम् ॥ ६३ ॥ प्राक्रष्टुं त्वामितः स्थानाद्रूपं करिकरादिव । अस्ति तातेन दत्तेह सुरङ्गा सत्रगामिनी ॥ ६४ ॥ प्रत्र पार्णिप्रहारेण प्रकाशौकत्य तत्क्षणात् । योगीव विवरहारं तद्दारं प्रविशाधुना ॥ ६५ ॥ पातोयपुटवत्सोऽथ पाणिनाऽऽस्फोट्य भूपुटम् । सुरङ्गया समितोऽगाद्रत्नरन्फ्रेण सूत्रवत् ॥ ६६ ॥ Page #30 -------------------------------------------------------------------------- ________________ २२८ योगशास्त्र. सुरङ्गान्ते धनुतौ तुरङ्गावध्यरोहताम् । राजमन्त्रिकुमारौ तौ रेवन्तीविडम्बको ॥ १७ ॥ पञ्चाशद्योजनौं क्रोशमिव पञ्चमधारया। प्रखी जग्मतुरुच्छासी ततः पञ्चत्वमापतुः ॥ ६८ ॥ ततस्तौ पादचारण प्राणवाणपरायणौ। जग्मतुर्निकषा ग्रामं कच्छात्वोष्टकनामकम् ॥ ३८ ॥ प्रोवाच ब्रह्मदत्तोऽथ सखे वरधनोभुना । स्पईमाने इवान्योऽन्यं बाधेते तुत्तृषा च माम् ॥ ७० ॥ क्षणमत्र प्रतीक्षखत्युक्त्वा तं मन्दिनन्दनः । ग्रामादाकारयामास नापितं वपनेच्छया । ७१ ॥ मन्त्रिपुत्रस्य मन्त्रेण तत्रैव ब्रह्मनन्दनः । वपनं कारयामास चुलामात्रमधारयत् ॥ ७२ ॥ तथा कषायवस्त्राणि पवित्राणि स धारयन् ।। . सध्याभ्रच्छन्नबालांशमालिलोलामधारयत् ॥ ७३ ॥ कण्ठे वरधनुन्यस्तं अनसूत्रमधत्त च ।। ब्रह्मपुत्री ब्रह्मपुत्रसादृश्यमुवाह च ॥ ७४॥ मन्त्रिसूब्रह्मदत्तस्य वक्षःश्रीवत्सलाछितम् । पट्टेन पिदधे प्राट् पयोदेनेव भास्करम् ॥ ७५ ॥ एवं वैषपरावत्तं ब्रह्मसू: सूत्रधारवत् । पारिपार्खिकवन्मन्त्रिपुत्रोऽपि विदधे तथा । ७६ ॥ ततः प्रविष्टौ ग्रामे तौ पार्वणाविन्दुभास्करी। केनापि हिजवर्येण भोजनाय निमन्त्रितौ ॥ ७७ ॥ Page #31 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । सोऽथ तौ भोजयामास भक्त्या राजानुरूपया । प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः ॥ ७८ ॥ कुमारस्याचतामूर्हि चिपन्तो विप्रगेहिनी । श्वेतवस्त्रयुगं कन्यां चोपनिन्येऽप्सरः समाम् ॥ ७८ ॥ जचे ततो वरधनुर्बटोरस्थाकलापटोः । कण्ठे बन्नासि किमिमां मूढे शण्डस्य गामिव ॥ ८० ॥ ततो द्विजवरेणोचे ममेयं गुणबन्धुरा । कन्या बन्धुमती नास्या विनामुमपरो वरः ॥ ८१ ॥ षट्खण्डपृथिवोपाता पतिरस्या भविष्यति । इत्याख्यायि निमित्तज्ज्ञैर्निवितं चायमेव सः ॥ ८२ ॥ तैरेवाख्यायि मे पट्टच्छवश्रीवत्सलाञ्छनः । भोच्यते यस्तवग्गृहे तस्मै देया स्वकन्यका ॥ ८३ ॥ जज्ञे च ब्रह्मदत्तस्योद्दाहः सह तया तदा । भोगिनामुपतिष्ठन्ते भोगाः काममचिन्तिताः ॥ ८४ ॥ तामुषित्वा निशां बन्धुमतोमाश्वास्य चान्यतः | ययौ कुमार एकत्रावस्थानं सहिषां कुतः ॥ ८५ ॥ प्रातर्ग्रामं प्रापतुस्तौ तत्र चाशृणुतामिदम् | पन्यानोऽधिब्रह्मदत्तं सर्वे दीर्घेण रोधिताः ॥ ८६ ॥ प्रस्थितादुत्पथेनाथ पेततुस्तौ महाटवीम् । निरुद्धां खापदैर्दीर्घपुरुषैरिव दारुणैः ॥ ८७ ॥ ततः कुमारं हृषितं मुक्ता वटतरोरधः | वारिणेऽगाद्दरधनुर्मनस्तुख्येन रंहसा ॥ ८८ ॥ २२८ Page #32 -------------------------------------------------------------------------- ________________ योगशास्त्रे ततो वरधनुः सोऽयमुपलक्ष्य न्यरुध्यत । रुषितैर्दोधपुरुषैः पोत्रिपोत इव खभिः ॥ ८ ॥ गृह्यतां गृह्यतामेष वध्यतां वध्यतामिति । भौषणं भाषमाणैस्तैर्जग्रहे ववधे च सः ॥ ८ ॥ संज्ञामधिब्रह्मदत्तं पलायखेति सोऽकत। पलायिष्ट कुमारोऽपि समये खलु पौरुषम् ॥ ८१ ॥ ततस्तस्या महाटव्या महाटव्यन्सरं जवात् । ब्रह्मसूरामीवागादात्रमादाश्रमान्तरम् ॥ ८२ ॥ स तु तत्र कताहारो विरमररसै: फल: हतीये दिवसे ऽपश्यदेकं तापसमग्रतः ॥ ३ ॥ कुत्राथमो वो भगवविति पृष्ठस्तपखिना। स स्वाश्रमपदं निन्ये तापसा यतिथिप्रियाः ॥ ८४ ॥ सोऽथापश्यत्कुलपतिं ववन्दे पिटवन् मुदा। . प्रमाणमन्तःकरणमविज्ञातेऽपि वस्तुनि ॥ ८५ ॥ ऊचे कुलपतिवत्स तवातिमधुराकतः । को हेतुरवागमने मरौ सुरतरोरिव ॥ ८६ ॥ ततो महामनस्तस्य विश्वस्तो ब्रह्मर्निजम् । वृत्तान्तमाख्यप्रायेण गोप्यं न खलु तादृशम् ॥ ८७ ॥ दृष्टस्ततः कुलपतिाहरगहूदाक्षरम् ।। विधास्थित इवात्मेको भ्राताहं त्वपितुर्लघुः ॥ ८ ॥ ततो निजगृहं प्राप्तस्तिष्ठ वत्स यथासुखम् । अस्मत्तपोभिवईख सहवासमन्मनोरथैः ॥ ६ ॥ Page #33 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। २३१ कुर्वन् जनदृगानन्दममन्दं विश्ववल्लभः । असो तत्राश्रमे तस्थौ प्रावटकालोऽप्युपस्थितः ॥ २०० ॥ तत्राऽसौ निवसंस्तेन बलेनेव जनार्दनः । शास्त्राणि शस्त्राण्य स्त्राणि सर्वाण्यध्याप्यते स्म च ॥ १ ॥ वर्षात्यये समायाते सारसालापबन्धुरै। । बन्धाविव फलाद्यर्थं प्रचेलुस्तापसा वनम् ॥ २ ॥ सादरं कुलपतिना वार्यमाणोऽप्यगाहनम् । तैः सह ब्रह्मदत्तोऽपि कलभ: कलभैरिव ॥ ३ ॥ भ्रमवितस्ततोऽपश्यहिणमूत्रं तत्र दन्तिनः । प्रत्यग्रमिति सोऽमस्त हस्ती कोऽप्यस्ति दूरतः ॥ ४ ॥ तापसर्वार्थमाणोऽपि ततः सोऽनुपदं व्रजन् । योजनपञ्चकस्यान्ते नाग नगमिवैक्षत ॥ ५ ॥ नि: शङ्ख बहपर्यशः कुर्वन् गर्जितमूर्जितम् । मल्लो मन इवाह्रास्त गृहस्ती मत्तहस्तिनम् ॥ ६ ॥ क्रुडोडुषितसर्वाङ्गो व्याकुञ्चितकर: करी। निष्कम्पकर्णस्तानास्यः कुमारं प्रत्यधावत ॥ ७ ॥ इभोऽभ्यर्णेऽभ्यगाद्यावत् कुमारस्तावदन्तरे । उत्तरीयं प्रचिक्षेप तं वञ्चयितुमभवत् ॥ ८॥ . प्रभखण्डमिव नश्यदन्तरिक्षात्तदंशकम् । दशनाभ्यां प्रतीयेष क्षणादेषोऽत्यमर्षण: ॥ ८ ॥ एवंविधाभिश्चेष्टाभिः कुमारस्तं मतङ्गाजम् । लीलया खेलयामासाहिण्डिक इवोरगम् ॥ १० ॥ Page #34 -------------------------------------------------------------------------- ________________ २३२ योगशास्त्रे सखेव बहादत्तस्थानान्तरे कतडम्बरः । धाराधरोऽम्बुधाराभिरुपद्राव तं गजम् ॥ ११ ॥ ततो रसित्वा विरसं मगनाशं ननाश स: । कुमारोऽपि भ्रमबद्रिदिग्मूढः प्राप निम्नगाम् ॥ १२ ॥ उत्ततार कुमारस्तां नदी मूर्तामिवापदम् । ददर्थ च तटे तस्याः पुराणं पुरमुइसम् ॥ १३ ॥ कुमारः प्रविशंस्तस्मिवपश्यइंशजालिकाम् । .. तत्रासिवसुनन्दो चोत्यातकेतुविधू इव ॥ १४ ॥ तो गृहीत्वा पाणन कुमारः शखकौतुकी। . चिच्छेद कदलीच्छेदं तां महावंशजालिकाम् ॥ १५ ॥ वंशजालान्तर चासो स्फुरदोष्ठदल शिरः । ददर्श पतितं पृथ्वयां स्थलपनमिवाग्रतः ॥ १६ ॥ सम्यक् पश्यनपश्यञ्च ब्रह्मसूस्तत्र कस्यचित्। वल्गुलीकरणस्थस्य कबन्धं धूमपायिनः ॥ १७ ॥ हा विद्यासाधनधनो निधनं प्रापितो मया । कोऽप्येषोऽनपराधो धिग् मामिति स्वं निनिन्द सः ॥१८॥ पग्रतः स ययौ यावत्तावदुद्यानमेक्षत। सुरलोकादवतौलमवन्यामिव नन्दनम् ॥ १८ ॥ स तत्र प्रविशवये प्रासादं सप्तभूमिकम् । . प्रदर्शलप्तलोकत्रीरहस्थमिव मूर्छितम् ॥ २० ॥ पारूढेऽभलिहे तस्मिविषयां खेचरीमिव । हस्तविन्यस्तवदनां नारीमकां स ऐक्षत ॥ २१ ॥ Page #35 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । २३३ उपसृत्य कुमारस्तां पप्रच्छ स्वच्छया गिरा। का त्वमेकाकिनी किंवा किं वा शोकस्य कारणम् ॥ २२ ॥ अथ सा साध्वसाक्रान्ता जगादेति सगहदम् । महान् व्यतिकरो मेऽस्ति ब्रूहि कस्त्वं किमागतः ॥ २३ ॥ ब्रह्मदत्तोऽस्मि पञ्चालभूपतेब्रह्मणः सुतः । इति सोऽचीकथद्यावअदा सा तावदुस्थिता ॥ २४ ॥ आनन्दबाष्पसलिलोचनाञ्जलिविच्युतैः । सा कुर्वती पाद्यमिव पपातामुष्य पादयोः ॥ २५ ॥ कुमाराशरणाया मे शरणं त्वमुपागतः। मज्जतो नौरिवाम्भोधौ वदन्तौति रुरोद सा ॥ २६ ॥ तेन पृष्टा च साप्यूचे त्वन्माटचातुरस्माहम् । नाम्रा पुष्पवती पुष्पचूलस्याङ्गपतेः सुता ॥ २७ ॥ कन्यास्मि भवते दत्ता विवाहदिवसोन्मुखी। हंसीव रन्तुमुद्याने दीर्घिकापुलिनेऽगमम् ॥ २८ ॥ दुष्टविद्याधरणाहं नाट्योन्मत्ताभिधेन तु। अत्रापत्यानीतास्मि रावणेनेव जानकी ॥ २८ ॥ दृष्टिं सोऽसहमानो मे विद्यासाधनहेतवे । सूर्पणखासूनुरिव प्राविशदंशजालिकाम् ॥ ३० ॥ धूमपस्यो पादस्य तस्य विद्याद्य सेत्साति । शक्तिमान् सिद्ध विद्यः स किल मां परिणेष्यति ॥ ३१ ॥ ततस्तद्धवृत्तान्तं कुमारोऽस्यै न्यवेदयत् । हर्षस्योपरि हर्षोऽभूप्रियाला विप्रियच्छिदा ॥ ३२ ॥ २० Page #36 -------------------------------------------------------------------------- ________________ २३४ योगशास्त्रे तयोरथ विवाहोऽभूहान्धर्वोऽन्योऽन्यरतयोः । श्रेष्ठो हि क्षत्रियेष्वेव निमन्त्रोऽपि सकामयोः ॥ ३३ ॥ रममाणस्तया साई विचित्रालापपेशलम् । स एकयामामिव तां वियामामत्यवाहयत् ॥ ३४ ॥ तत: प्रभातसमये ब्रह्मदत्तेन शुश्रुवे । आकाशे खेचरस्त्रीणां कुररोणामिव ध्वनिः ॥ ३५ ॥ अकस्माज्जायते कोऽयं खे शब्दो नष्टष्टिवत् । तेनेति पृष्टा संभ्रान्ता पुष्पवत्येवमब्रवीत् ॥ २६ ॥ भगिन्यौ त्वद्विषो नाट्योन्मत्तस्येमे समागते । नाम्ना खण्डा विशाखा च विद्याधरकुमारिके ॥ ३७ ॥ तविमित्तं विवाहोपस्करपाणी इमे मुधा। अन्यथा चिन्तितं कार्य दैवं घटयतेऽन्यथा ॥ ३८॥ अपसर्प क्षणं तावद्यावत्त्वगुणकोर्त्तनैः । लभेऽहमनयोर्भावं त्वयि रागविरागयोः ॥ ३८ ॥ रागे रतां प्रेरयिष्थे पताकां तत्त्वमापतेः । विरागे चलयिष्यामि खेतां गच्छेस्तदाऽन्यतः ॥ ४० ॥ ब्रह्मदत्तस्ततोऽवादोन्माभैषीर्भीरु न त्वहम् । ब्रह्मसूनुः किमते मे तुष्टे रुष्टे करिष्यतः ॥ ४१ ॥ उवाच पुष्पवत्येवं नैताभ्यां वच्मि ते भयम् । एतत्सम्बन्धिन: किन्तु मा विरौत्सुर्नभश्चराः ॥ ४२ ॥ तस्याश्चित्तानुवृत्त्या तु तत्रैवास्थात् स एकतः । अथ पुष्पवती खेतां पताकां पर्यचौचलत् ॥ ४३ ॥ Page #37 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । २३५ ततः कुमारस्तां दृष्ट्वा तप्रदेशाच्छनैः शनैः । प्रियानुरोधादगमनहि भौस्तादृशां नृणाम् ॥ ४४ ॥ आकाशमिव दुर्गाहमरण्यमवगाह्य सः । दिनान्तेऽर्क इवाम्भोधिं प्रापदेकं महासरः ॥ ४५ ॥ ततः प्रविश्य तवासी सुरेभ इव मानसे । सात्वा स्वच्छन्दमत्यच्छाः सुधा इव पपावपः ॥ ४६॥ निःसत्य ब्रह्मसूर्होरात्तीरमुत्तरपश्चिमम् । सताकणदलिखाने: सौनातिकमिवाभ्यगात् ॥ ४७ ॥ तत्र तेन द्रुमलताकुङ्गे पुष्पाणि चिन्वती । वनाधिदेवता साक्षादिव काप्यक्षि सुन्दरी ॥ ४८ ॥ . दध्याविति कुमारोऽपि जन्मप्रभृतिवेधसः । रूपाण्यभ्यस्यतोऽमुथा सञ्जातं रूपकौशलम् ॥ ४८ ॥ सा दास्या सह जल्पन्तो कटाक्षः कुन्दसोदरैः । कण्ठे मालामिवास्यन्ती तं पश्यन्त्यन्यतो ययौ ॥ ५० ॥ पश्यन् कुमारस्तामेव प्रस्थितो यावदन्यत: । वस्त्रभूषणताम्बूलभूदासी तावदाययौ ॥ ५१ ॥ . सा वस्त्राद्यर्पयित्वोचे या त्वया ददृशेऽत्र सा। सत्यङ्कारमिव स्वार्थसिद्धेः प्रेषीदिदं त्वयि ॥ ५२ ॥ प्रादिष्टा चास्मि यदमु मन्दिरे तातमन्त्रिणः । नयाप्तिथ्याय तथ्याय स हि वेत्ति यथोचितम् ॥ १३ ॥ सोऽगात् सह तया वेश्म नागदेवस्य मन्त्रिण: । पमात्योऽप्यभ्युदस्थात्तमाकष्ट इव तद्गुणैः ॥ ५४ ॥ Page #38 -------------------------------------------------------------------------- ________________ २३६ योगशास्त्रे श्रीकान्तया राजपुत्रा वासाय तव वेश्मनि । प्रेषितोऽसौ महाभागः सन्दिश्येति जगाम सा ॥ ५५ ॥ उपास्यमानः स्वामीव विविधं तेन मन्त्रिण । क्षणदां क्षपयामास क्षणमेकमिवेष ताम् ॥ ५६ ॥ मन्त्री राजकुलेऽनैषीत्कुमारं क्षणदात्यये । अर्घादिनोपतस्थेऽमुं बालार्कमिव भूपतिः ॥ ५७ ॥ वंशाद्यपृष्ट्वापि नृपः कुमाराय मृतां ददौ । श्रकृत्यैव हि तत्सर्वं विदम्ति न तद्दिदः ॥ ५८ ॥ उपायंस्त कुमारस्तां हस्तं हस्तेन पीडयन् । अन्योऽन्यं संक्रमयितुमनुरागमिवाभितः ॥ ५८ ॥ ब्रह्मदत्तोऽन्यदा क्रीडन् रहः पप्रच्छ तामिति । एकस्याज्ञातवंशादे: पित्रा दत्तासि मे कथम् ॥ ६० ॥ श्रीकान्ता कान्तदन्तांशधौताधरदलाऽब्रवीत् । राजा शबरसेनोऽभूद्दसन्तपुरपत्तने ॥ ६१ ॥ तत्सूनुर्मे पिता राज्ये निषसः क्रूरगोत्रिभिः । पर्यस्तोऽशिश्रियदिमां पल्लों सबलवाहनः ॥ ६२ ॥ भिल्लानुपनमय्यात्र वार्वेग इव वेतसान् । ग्रामघातादिना तातः पुष्णाति खं परिग्रहम् ॥ ६३ ॥ जातास्मि चाहं तनया तातस्यात्यन्तवल्लभा । 'स्वामिन् सम्पदिवोपायांश्चतुरस्तनयाननु ॥ ६४ ॥ (१) न ग च उपायानां श्रीरिवानु चतुर्णां तनुजन्मनाम् । श्रीवत्पश्चादुपायानां चतुर्णां तनुजन्मनाम् । Page #39 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । २३७ स मामुद्यौवनामूचे सर्वे मे हेषिणो नृपाः । बयेह स्थितया वीक्ष्य शंस्यो यस्ते मतो वरः ॥ ६५ ॥ तस्थुषी चक्रवाकीव सरस्तोरे निरन्तरम् । ततःप्रभृति पश्यामि सर्वानेकैकशोऽध्वगान् ॥ ६६ ॥ मनोरथानामगतिः खप्नेऽप्यत्यन्तदुर्लभः । प्रार्यपुत्रागतोऽसि त्वं मद्भाग्योपचयादिह ॥ ६७ ॥ स पल्लोपतिरन्येद्युमघातकृते ययौ। कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसौ ॥ ६८ ॥ लुण्यमाने ततो ग्राम कुमारस्य सरस्तटे । पादाजयोवरधनुरेत्य हंस इवापतत् ॥ ६८ ॥ कुमारकण्ठमालम्बा मुक्तकण्ठं रुरोद च'। नवीभवन्ति दुःखानि सञ्जाते होष्टदर्शने ॥ ७० ॥ तत: पीयूषगण्डषैरिवालापैः सुपेशलः । पाखास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिमूः ॥ ७१ ॥ वटेऽधस्त्वां तदा मुत्वा गतोऽहं नाथ पाथसे। सुधाकुण्डमिवापश्यं किञ्चिदग्रे महासरः ॥ ७२ ॥ तुभ्यमम्भोजिनोपत्रपुटेनादाय वार्यहम् । यमदूतैरिवागच्छन् रुडः संवर्मितैमेंटैः ॥ ७३ ॥ अरे वरधनो ब्रूहि ब्रह्मदत्तः क विद्यते । इति तैः पृच्छामानः सबवेग्मोत्यहमब्रुवम् ॥ ७४ ॥ (१) ग च सः। Page #40 -------------------------------------------------------------------------- ________________ ३८ योगशास्त्रे तस्करैरिव निःशङ्ख ताद्यमानोऽथ तैरहम् । इत्यवोचं यथाब्रह्मदत्तो व्याघ्रण भक्षितः ॥ ७५ ॥ तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वद्दर्शनपथेऽभ्ये त्याकार्ष संज्ञां पलायने ॥ ७६ ॥ परिवाड्दत्तगुटिकां मुखेऽहं क्षिप्तवांस्ततः । तत्प्रभावेन नि:संज्ञो मृत इत्युज्झितोऽस्मि तैः ॥ ७७ ॥ चिरं गतेषु तेष्वास्यादाक्कथ गुटिकामहम् । त्वां नष्टार्थमिवान्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ॥ ७८ ॥ तत्रैककोऽपि ददृशे परिव्राजकपुङ्गवः । साक्षादिव तपोराशिनमश्चक्रे मया ततः ॥ ७ ॥ सोऽवदन् मां वरधनो मित्रमस्मि धनोरहम् । वसुभागो महाभागो ब्रह्मदत्तः क वर्त्तते ॥ ८ ॥ आचचक्षे मयाप्यस्य विश्वं विश्वस्य सूनृतम् । स च मे दुष्कथाधूमानास्यः पुनरभ्यधात् ॥ ८१ ॥ तदा जतुम्हे दग्धे दीर्घः प्रातरुदैक्षत । करङ्गमेकं निर्दग्धं करङ्कत्रितयं न हि ॥ ८२ ॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽखपदानि च । धनोर्बुड्या प्रनष्टौ वां ज्ञात्वा तस्मै चुकोप सः ॥ ८३ ॥ बडा युवां समानतुं प्रत्याशं साधनामि सः । अस्वलगमनान्यर्कमहांसीवादिदेश च ॥ ८४ ॥ पलायितो धनुमन्त्री जनयित्री तु सा तव । दीर्घेण नरक इव क्षिप्ता मातङ्गपाटके ॥ ८५ ॥ Page #41 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । २३८ गण्डोपरिष्टापिटकेनेवा” वार्तया तया । दुःखोपयुद्धवदुःखः काम्पोल्यं गतवानहम् ॥ ८६ ॥ छद्मकापालिकोभूय तत्र मातङ्गपाटके । वेश्म वेश्मानुप्रवेशमस्थां शश इवानिशम् ॥ ८७॥ पृच्छामानश्च लोकेन तत्र भ्रमणकारणम् । अवोचमिति मातङ्गया विद्यायाः कल्प एष मे ॥ ८८ ॥ तत्रैवं भ्राम्यता मैत्री मया विखासभाजनम् । अजायतारक्षक स्य मायया किं न साध्यते ॥ ८८ ॥ अन्येद्युस्तन्मुखेनाम्बामवोचं यत्करोत्यसौ। त्वत्पुत्रमित्रकौण्डिन्यो महाव्रत्यभिवादनम् ॥ ८ ॥ हितीयेऽङ्गि स्वयं गत्वा जनन्या बोजपूरकम् । प्रदां सगुटिकं जग्धेनासंज्ञा तेन साऽभवत् ॥ ११ ॥ मृतेति तां पुराध्यक्षो गत्वा राजे व्यजिज्ञपत् । राज्ञादिष्टाः स्वपुरुषास्तस्याः संस्कारहेतवे ॥ २ ॥ तत्रायाता मयोक्तास्ते संस्कारोऽस्याः क्षणेऽत्र चेत् । महाननर्थो वो राजश्चेति जग्मुः स्खधाम ते ॥ १३ ॥ पारक्षं चावदं त्वं चेत् सहायः साधयाम्यहम् । सर्वलक्षणभाजोऽस्था मन्त्रमेकं शबन तत् ॥ ८४ ॥ पारक्ष: प्रतिपदे तत्तेनैव सहितस्ततः । सायमादाय जननों श्मशानेगां दवोयसि ॥ ५ ॥ स्थण्डिले मण्डलादीनि मया निर्माय मायया। पूर्देवौनां बलिं दातुमारक्ष: प्रेषितस्ततः ॥ ८६ ॥ Page #42 -------------------------------------------------------------------------- ________________ २४० योगशास्त्रे गते तस्मिन्नहं मातुरपरां गुटिकामदाम् । निद्राच्छेद इवोजृम्भा सोदस्थाज्जातचेतना ॥ ८७ ॥ खं ज्ञापयित्वा रुदती निवार्य स्म नयामि ताम् । कच्छग्रामे रहे तातसुहृदो देवशम्मणः ॥ ८ ॥ इतस्ततो भ्रमन्नेषोऽन्वेषयंस्त्वामिहागमम् । दिल्या दृष्टोऽधुना साक्षात्पुण्यराशिरिवासि मे ॥ १८ ॥ ततः परं कथं नाथ प्रस्थितोऽसि स्थितोऽसि च । तेनेति पृष्टः स्खं वृत्तं कुमारोऽपि न्यवेदयत् ॥ ३०० ॥ अथ कोऽप्येत्य तावूचे ग्रामे दीर्घभटाः पटम् । युभत्तुल्यचिरूपाझं दर्शयन्तो वदन्त्यदः ॥ १ ॥ ईग्नरौ किमायातावरेत्याकर्ण्य गां मया । दृष्टाविह युवां यहां 'रुचितं कुरु तं हि तत् ॥ २॥ ततस्तस्मिन् गतेऽरण्यमध्येन कलभाविव । पलायमानौ कौशाम्बौं प्रापतुस्तौ पुरौं क्रमात् ॥ ३ ॥ तत्र सागरदत्तस्य श्रेष्ठिनो बुद्दिलस्य च।। उद्यानेऽपश्यतां लक्षपणं तो कुक्कुटाहवम् ॥ ४ ॥ उत्पत्योत्पत्य नखरैः प्राणाकर्षाटैरिव । युयुधाते ताम्रचूडौ चञ्चाचञ्चविवोच्चकैः ॥ ५ ॥ तत्र सागरदत्तस्य जात्यं शक्तं च कुक्कुटम् । भद्रेभमिव मिश्वेभोऽभाङ्क्षोडुद्धिलकुक्कुटः ॥ ६ ॥ (१) क छ रुचिरं। Page #43 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ततो वरधनुः स्माह कथं जात्योऽपि कुक्कुट : 1 भग्नस्ते सागरानेन पश्याम्येनं यदीच्छसि ॥ ७ ॥ सागराऽनुज्ञया सोऽप्यपश्यत् बुडिलकुक्कुटम् । तत्पादयोरयःसूचीर्यमदूतौरिवैचत ॥ ८ ॥ लक्षयन् बुद्दिलोऽप्यस्य लतार्द्धं छन्न्रमिष्टवान् । सोऽव्याख्यत्तं व्यतिकरं कुमारस्य जनान्तिके ॥ ८ ॥ ब्रह्मदत्तोऽप्ययःसूचोः कृष्ट्वा बुडिलकुकुटम् । भूयोऽपि सागर श्रेष्ठकुक्कुटेनाभ्ययोजयत् ॥ १० ॥ असूचिकः कुक्कुटेन तेन बुडिलकुक्कुटः । क्षणादभञ्जि निब्बानां छद्म बाह्यं कुतो जयः ॥ ११ ॥ हृष्टः सागरदत्तस्तावारोप्य स्यन्दनं स्वकम् । जयदाने कसुहृदो निनाय निलये निजे ॥ १२ ॥ स्वधामनीव ताम्नि तयोर्निवसतोरथ । किमप्याख्यद्दरधनोरेत्य बुद्धिलकिङ्करः ॥ १३ ॥ तस्मिन् गते वरधनुः कुमारमिदमभ्यधात् । बहुद्दिलेन लताईं दित्सितं मेऽद्य पश्य तत् ॥ १४ ॥ सोऽदर्शयत्ततो हारं निर्मलस्थलवर्त्तुलेः । कुर्वाणं मौक्तिकैः शुक्रमण्डलस्य विडम्बनाम् ॥ १५ ॥ हारे बहं स्वनामाङ्कं ब्रह्मसूर्लेखमेक्षत । आगाश्च वाचिकमिव मूर्त्तं वत्साख्यतापसी ॥ १६ ॥ अक्षतानि तयोर्मूईि चिम्राशीर्वादपूर्वकम् । ન नोत्वान्यतो वरधनुं किञ्चिदाख्याय सा ययौ ॥ १७ ॥ ३१ २४१ Page #44 -------------------------------------------------------------------------- ________________ २४२ योगशास्त्रे नचाख्यातुं समारंभे मन्त्रिसूर्ब्रह्मसूनवे। प्रतिलेखं हारबद्धलेखस्येयमयाचत ॥ १८ ॥ श्रीब्रह्मदत्तनामाङ्को लेखोऽयं प्रथयख तत् । को ब्रह्मदत्त इति सा मया पृष्टेदमब्रवीत् ॥ १८ ॥ अस्ति श्रेष्ठिसुता रत्नवती नामेह पत्तने । रूपान्तरण कन्यात्वं प्रपन्नेव रतिर्भुवि ॥ २० ॥ भ्रातुः सागरदत्तस्य बुडिलस्य च तहिने। . कुक्कुटायोधनेऽपश्यद्ब्रह्मदत्तमिमं हि सा ॥ २१ ॥ ततःप्रभृति ताम्यन्तौ कामात सा न शाम्यति । . शरणं ब्रह्मदत्तो मे स एवेत्याह चानिशम् ॥ २२ ॥ खयं लिखित्वा चान्येचुर्लेखं हारेण संयुतम् । अर्ग्यतां ब्रह्मदत्तस्येत्युदिला सा ममार्पयत् ॥ २३ ॥ दासहस्ते मया लेख: प्रेषीत्युत्बा स्थिता सती। मयापि प्रतिलेखं तेऽर्पयित्वा सा व्यसृज्यत ॥ २४ ॥ दुर्वारमारसन्तापः कुमारोऽपि ततो दिनात् । . 'मध्याह्नार्ककरोत्तमः करीव न सुखं स्थितः ॥ २५ ॥ कौशाम्बीखामिनोऽन्येार्दोघेण प्रहिता नराः । नष्टशल्यवदङ्गे तो तत्रान्वेष्टुं समाययुः ॥ २६ ॥ (१) ड मध्याह्नार्क करैस्तप्तः ।'. Page #45 -------------------------------------------------------------------------- ________________ २४३ हितीयः प्रकोशः राजादेशेनकौशाम्बयां प्रवृत्तेऽन्वेषणे सयोः। सागसे भूगृहे शिवा तौ जुगोप विधानवत् ॥ २७ ॥ निशि तौ निर्यियासन्ती रथमारोप्य सागरः । कियन्तमपि पन्यानं निनाय ववले ततः ॥ २८ ॥ तौ गच्छन्तौ पुरो मारीमुद्याने समपश्यताम् । अस्त्रपूर्णरथारूढाममरीमिव नन्दने ॥ २८ ॥ लग्ना किमियती वेला युबयोरिति सादरम् । तयोक्तो तौ बभाषाते. कावावां वैलि वा कथम् ॥ ३० ॥ अथाभाषत सा पुामस्यां श्रेष्ठी महाधनः । धनप्रवर इत्यासौड़नदस्येव सोदरः ॥ ३१ ॥ वेष्ठिश्रेष्ठस्य तस्याहमष्टानां तनुजन्मनाम् । उपरिष्टादिवेकी(गुणानामिवाभवम् ॥ ३२ ॥ उद्यौवनास्मिनुद्याने यक्षमाराधयं बहु । अत्युत्तमवरप्रात्यै स्त्रीणां नाऽन्यो मनोरथः ॥ ३३ ॥ तुष्टो भक्त्यैष मे यक्ष: वरो वरमिदं ददौ । ब्रह्मदत्तश्चक्रवर्ती तव भर्ता भविष्यति ॥ ३४ ॥ सागरबुद्धिलश्रेष्ठिकुक्कुटाजौ य एष्यति । श्रीवत्सी ससखा तुल्यरूपो ज्ञेयः स तु त्वया ॥ ३५ ॥ मदायतनवर्त्तिन्या: प्रथमस्ते भविष्यति । मेलको ब्रह्मदत्तेन तज्जाने सोऽसि सुन्दर ॥ ३६ ॥ एोहि तन्मां विरहदहनाती चिरादिह । विध्यापय पयःपूरेणेव सङ्गेन सम्पति ॥ २० ॥ Page #46 -------------------------------------------------------------------------- ________________ २४४ योगशास्त्रे तथेति प्रतिपद्यास्या अनुरागमिवालधुम् । सोऽधितष्ठौ रथं तां च गन्तव्यं कति पृष्टवान् ॥ ३८ ॥ मत्यूचे मगधपुरे मत्पिव्यो धनावहः। अस्ति श्रेष्ठयावयोर्बह्रीं प्रतिपत्तिं स दास्यति ॥ ३८ ॥ तदितस्तत्र गन्तव्यमिति रत्नवतीगिरा। ब्रह्मसूर्मन्त्रिपुत्रेण मूतेनाखाननोदयत् ॥ ४० ॥ . कौशाम्बीदेशमुखवय क्षणेन ब्रह्मनन्दनः । क्रीडास्थानं यमस्येव प्राप भौमां महाटवीम् ॥ ४१ ॥ सुकण्टकः कण्टकश्च तत्र चौरचमूपती। ब्रह्मदत्तं रुरुधतुः खानाविव महाकिरिम् ॥ ४२ ॥ ससैन्यौ युगपत् कालरात्रिपुत्राविवोत्कटौ। शरैर्नभो मण्डपवच्छादयामासतुश्च तौ ॥ ४३ ॥ .. पात्तधन्वा कुमारोऽपि गर्जेचौरवरूथिनीम् । निषिधेषुभिर्धारासारैर्दवमिवाम्बुदः ॥ ४४ ॥ कुमार वर्षति शरान् ससैन्यौ तौ प्रणेशतः। . हन्त प्रहारिणि हरौ हरिणानां कुतः स्थितिः ॥ ४५ ॥ कुमारं मन्त्रिसूरेवमूचे श्रान्तोऽसि सङ्गरात् । मुहत्तं स्वपिहि स्वामिंस्तदिहेव रथे स्थित: ॥ ४६ ॥ स्यन्दने ब्रह्मदत्तोऽपि रत्नवत्या समन्वितः । सुष्वाप गिरिनितम्बे करिण्येव करी युवा ॥ ४७ ॥ विभातायां विभावयां प्राप्यैकामथ निम्नगाम्। . तस्थुः श्रान्तास्तुरङ्गाश्च कुमारश्च व्यबुध्यत ॥ ४८ ॥ Page #47 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। २४५ . विबुडस्तु स नापश्यत्स्यन्दने मन्विनन्दनम् । पयसे किं गतः स्यादित्यसकगाजहार तम् ॥ ४॥ . सोऽलब्धप्रतिवाग् दृष्ट्वा रथाग्रं रक्तपशिलम् । विलपन् हा हतोऽस्मीति मूर्छितो न्यपतद्र्थे ॥ ५० ॥ . उत्थितो लब्धसंज्ञः सन् हाहा वरधनो सखे । कासीति लोकवत् क्रन्दन् रत्नवत्येत्यबोधि सः ॥ ५१ ॥ विपनो ज्ञायते नैव स तावद्भवतः सखा। ... तस्य वाचाप्यमाङ्गल्यं नाथ कत्तुं न. युज्यते ॥ ५२ ॥ त्वत्कार्याय गतः क्वापि स भविष्थत्यसंशयम् । . यान्ति नाथमपृष्ट्वापि नाथकार्याय मन्त्रिण: ॥ ५३ ॥ स तवोपरि भत्त्यैव रक्षितो नूनमेष्यति। स्वामिभक्तिप्रभावो हि भृत्यानां कवचायते ॥ ५४ ॥ स्थान प्राप्ताः करिथामो नरैस्तस्य गवेषणम् । युज्यते नेह तु स्थातुमन्तकोपवने वने ॥ ५५ ॥ तहाचा सोऽनुदद्र्थ्यान् प्रपेदे मगधक्षितः । सोमग्रामं दविष्ठं हि वाजिनां मरुतां च किम् ॥ ५६ ॥ . ग्रामेशेन सदःस्थेन दृष्ट्वा निन्ये स्ववेश्म सः । पजाता अपि पूज्यन्ते महान्तो मूर्त्तिदर्शनात् ॥ ५७ ॥ शोकाक्रान्त इवासोति पृष्टो ग्रामाधिपेन सः । इत्यूचे मत्सखा चौरैयुध्यमानो गतः क्वचित् ॥ ५८ ॥ तस्य प्रवृत्तिमानथे सौताया इव मारुतिः । इत्याना ग्रामणीः सवीं तां जगाहे महाटवीम् ॥ ५० ॥ Page #48 -------------------------------------------------------------------------- ________________ योगशास्त्रे. प्रथैत्य प्रामणोरूचे दृष्टः कोऽपि वने नहि । प्रहारपतित: किन्तु प्राप्त 'एष शरो मया ॥ ६ ॥ हतो वरधनुर्नूनमिति चिन्तयतस्ततः । .' ब्रह्मसूनोः शोक इव तमोभूरभवनिशि ॥ ६१ ॥ यामे तुरीये यामिन्यास्तत्र चौराः समापतन् । ते तु भग्नाः कुमारेण मारेणेव प्रवासिनः ॥ ६२ ॥ ततोऽनुयातो चामण्या ययौ राजग्रह क्रमात् । स चामुचनवती तहहिस्तापसाश्रमे ॥ ६३ ॥ विशन् पुरं स ऐक्षिष्ट हर्म्यवातायनस्थिते ।। साक्षादिव रतिप्रीती कामिन्यौ नवयौवने ॥४॥ ताभ्यां सोऽभिदधे प्रेमभाजं त्यका जनं ननु । यत्तदा गतवान् युतां तत् किं से प्रत्यभाषत ॥ ६५ ॥ व्याजहार कुमारोऽपि प्रेमभाग् बत को जनः । स कदा च मया त्यतः कोऽहं के वा युवामिति ॥ ६६ ॥ प्रसौदागच्छ विश्राम्य नाथेत्यालापनिष्ठयोः । प्राविशदत्तोऽपि मनसोव तयोर्गृहे ॥ ६७ ॥ तिष्ठमाने कृतस्रानाशनाय ब्रह्मसूनवे । कथयामासतुस्ते खां कथामवितथामिति ॥ ६८ ॥ अस्ति विद्याधरावासः कलधौतशिलामयः । मेदिन्यास्तिलक इव वैताव्यो नाम पर्वतः ॥ ६८ ॥ . . . . (१) ड एकः। Page #49 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । अमुष्य दक्षिणश्रेण्यां नगरे शिवमन्दिरे । राजास्ति ज्वलनशिखोऽलकायामिव गुह्यकः ॥ ७० ॥ विद्याधरपतेस्तस्य द्युतिद्योतितदिग्मुखा । प्रिया विद्युच्छिखेत्यस्ति विद्युदम्भोमुचो यथा ॥ ७१ ॥ तयोः प्राणप्रिये नाव्योन्मत्ताभिधसुतानुजे । ३४७ 'नाम्ना खण्डा विशाखा च पुत्रप्रावावां बभूविव ॥ ७२ ॥ तातः सौधेऽन्यदा सख्याग्निशिखेन सहालपन् । गच्छतोऽष्टापदगिरिं गोर्वाणान् खे निरैचत ॥ ७३ ॥ ततः स तौर्थयात्रार्थं चलितोऽचालयच नौ । सुहृदं चाग्निशिखं तं धर्मेष्टं हि योजयेत् ॥ ७४ ॥ प्राप्ता अष्टापदं तत्रापश्याम मणिनिर्मिताः । प्रतिमास्तीर्थनाथानां मानवर्णसमन्विताः ॥ ७५ ॥ स्नानं विलेपनं पूजां विरचय्य यथाविधि । तास्त्रिः प्रदक्षिणीकृत्यावन्दामहि समाहिताः ॥ ७६ ॥ प्रासादात्रिःसृतैर्दृष्टौ रक्ताशोकतरोरधः । चारणश्रमणौ मूर्त्तिमन्ताविव तपःशमौ ॥ ७७ ॥ तौ प्रणम्योपविश्याग्रे शुशुम श्रद्धया वयम् । अज्ञानतिमिरच्छेद कौमुदीं धर्मदेशनाम् ॥ ७८ ॥ पप्रछाग्निशिखः कः स्वात्कन्ययोरनयोः पतिः । तावूचतुर्योह्यनयोर्भ्रातरं मारयिष्यति ॥ ७८ ॥ हिमेनेव शशी म्लानो जातस्तातस्तया गिरा । श्रवामपीत्यवोचाव वाचा वैराग्यगर्भया ॥ ८० Page #50 -------------------------------------------------------------------------- ________________ योगशास्त्रे . संसारासारतासारा देशनायैव एवे। सहिषादनिषादेन किं तात परिभूयसे ॥ ८१ ॥ अलमस्माकमप्येवं विधैर्विषयजेः सुखैः। प्रवृत्ते तत्प्रभृत्यावां वातुं निजसहोदरम् ॥ २ ॥ भ्राम्यनपश्यन्मे भ्राताऽन्यदा पुष्पवतौमसौ। मातुलस्य त्वदीयस्य पुष्पचूलस्य कन्यकाम् ॥ ३ ॥ रूपेणाद्भुतलावण्यपुण्येन हतमानसः । .. तां जहार स दुर्बुद्धिः बुद्धिः कर्मानुसारिणी ॥ ८४ ॥ सोऽसहिष्णुदृशं तस्या विद्यां साधयितुं ययौ। ... स्वयं संविद्रते सम्यग् भवन्तस्तु ततः परम् ॥ ८५ ॥ तदा च पुष्पवत्याख्यदावयोटिसङ्ग्यम् । शोकं धर्माक्षरैः शोकापनोद इव चानुदत् ॥ ६ ॥ अन्यच्च पुष्पवत्यूचेऽभ्यगम्योऽयमिहागतः। .. ब्रह्मदत्तोऽस्तु वां भर्ता नान्यथा हि मुनेर्गिरः ॥ ८७ ॥ खोकतं च यदावाभ्यां तया च रभसावशात् । । पताकाचालि धवला त्यनावां त्वं गतस्ततः ॥ ८८ ॥ यदास्मद्भाग्यवेगुण्यावागतोऽसि न चेक्षितः । . भान्वा सर्वत्र निर्विसे पावामिह तदागते ॥ ८ ॥ पुण्यरसि समायातः पुरा पुष्पवतीगिरा। वृतोऽसि वरयावां तहतिरेकस्त्वमावयोः ॥ २० ॥ गान्धर्वेण विवाहेन स उपायंस्त ते अपि । भोगी हि भाजनं स्त्रीणां सरितामिव सागरः ॥ १ ॥ Page #51 -------------------------------------------------------------------------- ________________ काशः। २४८ हितीयः प्रकाशः। २४९ रममाणः समं ताभ्यां गङ्गोमाभ्यामिवेखरः। तत्रातिवाहयामास तां निशां ब्रह्मनन्दनः ॥ २ ॥ यावन्मे राज्यलाभः स्वात्पुष्थवत्याः समीपतः । तावद्युवाभ्यां स्थातव्यमित्युक्त्वा व्यसृजच्च ते ॥ ८३ ॥ तथैत्यादृतवत्यौ ते सलोकस्तञ्च मन्दिरम् । गन्धर्वनगरमिव ततः सर्व तिरोदधे ॥ ८४ ॥ अथाश्रमे रत्नवतीमन्वेष्टुं ब्रह्मसूरगात् । अपश्यंस्तत्र पप्रच्छ नरमेकं शुभाततिम् ॥ १५ ॥ दिव्याम्बरधरा नारी रत्नाभरणभूषिता। कापि दृष्टा महाभाग त्वयातीतदिनेऽद्य वा ॥ ८६ ॥ स जचे नाथ नाथेति रुदती योमयेक्षिता। प्रत्यभिज्ञाय नप्त्रीति तत्पिटव्याय चार्पिता ॥८७ ॥ तहरोऽसौति तेनोक्तस्तथेति ब्रह्मसूर्वदन् । निन्ये तेन प्रहृष्टेन तत्पिटव्यनिकेतनम् ॥ १८ ॥ रखवस्या पिटव्योऽपि ब्रह्मदत्तं व्यवाहयत् । ऋद्या महत्या धनिनां सर्वमीषल्करं यत: ॥ ८ ॥ सया विषयसौख्यानि समं सोऽनुभवत्तथा । मृतकार्य वरधनोरपरेयुः प्रचक्रमे ॥ ४०० ॥ साक्षादिव परे तेषु भुञ्जानेषु दिजन्मसु । विप्रवेषो वरधनुस्तनागत्याब्रवीदिति ॥ १ ॥ मम चेोजनं दस्थ साक्षाहरधनोर्हि तत् । इति श्रुतिसुधैवास्य श्रुता वाग् ब्रह्मसूनुना ॥ २ ॥ Page #52 -------------------------------------------------------------------------- ________________ ३५. योगशास्त्रे स तं दृष्ट्वा परिष्वङ्गादेकोकुर्वविवात्मना । अपयन्त्रिव हर्षास्त्रेनिनायान्तर्गृहं ततः ॥ ३ ॥ जचे पृष्टः कुमारेण स्वकृत्तं सोऽकथयत्तदा । सुप्ते त्वयि निरुद्धोऽहं चौरैः दीर्घभटयथा ॥ ४ ॥ वृक्षान्तरस्थितेनैकदस्युनेकेन पत्रिणा । हतोऽहं पतित: पृथ्वयां तिरोऽधां च लतान्तरे ॥ ५॥ गतेषु तेषु चौरेषु मध्येवृक्षं तिरीभवन् । आतिरन्तर्जलमिव क्रमेण ग्राममानुवम् ॥ ६॥ . भवत्प्रवृत्तिं ग्रामेशाविज्ञायाहमिहागमम् । दिध्याऽपश्यं भवन्तं च कलापीव पयोमुचम् ॥ ७ ॥ अथोचे ब्रह्मदत्तस्तमस्माभिः स्थास्यते ननु। विना पुरुषकारेण क्लीवैरिव कियञ्चिरम् ॥ ८॥ अत्रान्तरे च सम्प्राप्तसाम्राज्यमकरध्वजः । मधुवनदको यूनां प्रादुरासोन्मधूत्सवः ॥ ८ ॥ तदा च राज्ञो मत्तेभः स्तभं भवाऽपशृङ्गलः । निर्ययौ त्रासिताशेषमो मृत्योरिवानुजः ॥ १० ॥ ततो नितम्बभाराती काञ्चित् कन्यां स्खलङ्गतिम् । करी करण जग्राहावष्य पुष्करिणीमिव ॥ ११ ॥ तस्यां च शरणार्थिन्यां क्रन्दन्त्यां दोनचक्षुषि । जज्ञे हाहारवो विश्वदुःखबीजाक्षरोपमः ॥ १२ ॥ रे मातङ्गासि मातङ्गः स्त्रियं राव लज्जये। इत्युक्तः स कुमारेण तां विमुच्य तमभ्यगात् ॥ १३ ॥ Page #53 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । उतमुत्य दन्तसोपाने पादं विन्यस्य हेलया। पारोह कुमारस्तमशिवयदथासनम् ॥ १४ ॥ वाक्पादाङ्गुशयोगेन खं योगेनेव योगविन् । वशौचकार तं नागं कुमारस्तरसा ततः ॥ १५ ॥ साधुसाध्वित्युच्यमानो जनैर्जयजयेति च । कुमारः करिणं स्तम्भे नीत्वाबनाहशामिव ॥ १६ ॥ सस्तो नरेन्द्रस्तत्रागात्तं च दृष्ट्वा विसिपिये। प्राकृतिविक्रमश्चास्य कस्य चित्रीयते नवा ॥ १७ ॥ कोऽयं कुतो वा च्छत्रात्मा किं सूर्यो वासवोऽथवा । राजेत्युक्त रत्नवत्याः पिटव्यस्तमचीकथत् ॥ १८ ॥ सतो विशाम्पतिः कन्याः पुण्यमानीकतोत्सवः । दक्ष: क्षपाकरायेव ब्रह्मदत्ताय दत्तवान् ॥ १८ ॥ परिणीय स तास्तत्र सुखं तिष्ठनथाऽन्यदा। जरत्येत्यैकयेत्यूचे भ्रमयित्वांशकाञ्चलम् ॥ २० ॥ इह वैश्रवणोऽस्त्याव्यः श्रिया वैश्रवणोऽपरः । तस्य च श्रीमति म सुता श्रीरिव वारिधः ॥ २१ ॥ मोचिता भवता व्यालादाहोरिन्दुकलेव या। सा 'त्वामेव पतीयन्ती ततःप्रभृति ताम्यति ॥ २२ ॥ यथा गजात्त्वया बाता तथा वायस्व तां स्मरात् । रहाण पाणिं त्वं तस्या यथा हृदयमग्रहीः ॥ २३ ॥ १) च ड त्वामेवाभिलषन्ती। Page #54 -------------------------------------------------------------------------- ________________ २५२ योगशास्त्रे उपयेमे कुमारस्तां विविधोद्दाहमङ्गलैः । सुबुहिमन्त्रिणः कन्यां नन्दां वरधनुः पुन: ॥ २४ ॥ पप्रथात पृथिव्यां तौ तिष्ठन्तौ तत्र शक्तितः । माभियोगौ प्रतस्थाते ततो वाराणसी प्रति ॥ २५ ॥ श्रुत्वायान्तं ब्रह्मदत्तं ब्रह्माणमिव गौरवात् ।। अभ्येत्य संमुखं वाराणसोशः स्वग्रहेऽनयत् ॥ २६ ॥ कटकः कटकवी नाम पुत्रों निजां ददौ । चतुरङ्गचमू चास्मै मूर्त्तामिव जयश्रियम् ॥ २७ ॥ कणेरुदत्तश्चम्भेशो धनुमन्त्री तथाऽपरे। भगदत्तादयोऽप्येयुपाः श्रुत्वा तदागमम् ॥ २८ ॥ कृत्वा वरधनुं सेनान्यं सुषेणमिवार्षभिः । दीर्घ दीर्घपथे नेतुं प्रतस्थे ब्रह्मनन्दनः ॥ २८ ॥ दीर्घस्य दूत: कटकराजमेत्यैवमूचिवान्। ' दोघेण सममाबाल्यमैत्री त्यक्तं न युज्यते ॥ ३० ॥ तत: कटक इन्यू चे ब्रह्मणा सहिताः पुरा । सोदा इव 'पञ्चाप्यभवाम सुहदो वयम् ॥ ३१ ॥ खर्जुषोब्रह्मणः पुत्र राज्ये च बातमर्पिते । दोघेण धिकृतं नाऽत्ति शाकिन्यपि समर्पितम् ॥ ३२ ॥ ब्रह्मणः पुत्रभाण्डे यही? दीर्घमचिन्तयत्। आचचारातिपापं तच्छपचोऽपि किमाचरेत् ॥ ३३ ॥ (१) ख ग च पञ्चापि समाताः। Page #55 -------------------------------------------------------------------------- ________________ २५३ हितीय: प्रकाशः। तहच्छ शंस दीर्घाय ब्रह्मदत्तोऽभ्युपेत्यसौ। युडाख यदि वा नश्येत्युचा दूतं व्यसर्जयत् ॥ ३४ ॥ तत: प्रयाणैरच्छिन्त्रैः काम्पील्यं ब्रह्मसूर्ययौ। सदोघमप्यरौत्सोत्तबभः सार्कमिवाम्बुदः ॥ ३५ ॥ दोघः सर्वाभिसारेण रणसारेण पत्तनात् । दण्डाक्रान्तो निरसरहिलादिव महोरग: ॥ २६ ॥ चुलन्यपि तदात्यन्तवैराग्यादाद व्रतम् । पाखें पूर्णाप्रवर्तिन्याः क्रमाविर्वृतिमाप च ॥ ३७ ॥ पुरोगा दीर्घराजस्य पुरोगैब्रह्मजन्मनः । नदोयादांस्यकूपारयादोभिरिव जनिरे ॥ ३८ ॥ दो?ऽप्यमर्षादुबामिदंष्ट्रिकाविकटाननः । वराह व धावित्वा हन्तुं प्रवकृते परान् ॥ ३८ ॥ ब्रह्मदत्तस्य पादातरथसाघादिकं बलम् । पर्यास्यत नदीपूरेणेव दोघेण वेगिना ॥ ४० ॥ ब्रह्मदत्तस्ततः क्रोधारणाक्षो युयुधे खयम् । गर्जता दीर्घराजेन गर्जन् दन्तीव दन्तिना ॥ ४१ ॥ उभावपि बलिष्ठौ तावस्त्राण्यस्त्रनिरासतुः । कल्लोलेरिव कल्लोलान् युगान्तोभ्रान्तवारिधी ॥ ४२ ॥ ज्ञात्वाऽथ सेवक इवावसरं प्रसरदद्युति । डुढौके ब्रह्मदत्तस्य चक्रं दिक्चक्रजित्वरम् ॥ ४३ ॥ ततो जहार दीर्घस्य तेनाश ब्रह्मसूरसून् । विमर्दो विद्युतः को वा गोधानिधनसाधने ॥ ४४ ॥ Page #56 -------------------------------------------------------------------------- ________________ २५४ योगशास् जयतादेष चक्रौति भाषिणो मागधा इव । ब्रह्मदत्तोपरि सुराः पुष्पवृष्टिं वितेनिरे ॥ ४५ ॥ पौरैः पितेव मातेव देवतेव स वीक्षितः | पुरं विवेश काम्पोल्यं सुत्रामेवामरावतीम् ॥ ४६ ॥ विभिन्नस्वामिनोद्भूतसोमनिर्मूलनादसी । षट्खण्डां साधयित्वोवमेकखण्डां विनिर्ममे ॥ ४७ ॥ संवत्सरैर्द्वादशभिरुपेत्योपेत्य सर्वतः । तस्याभिषेको विदधे भरतस्येव राजभिः ॥ ४८ ॥ चतुःषष्टिसहस्रान्तःपुरस्वौपरिवारितः । स राज्यसौख्यं दुभुजे प्राक्तपोभूरुहः फलम् ॥ ४८ ॥ अन्धेत्युर्नाव्यसङ्गीते तस्य दास्या समर्पितः । स्वर्वधूगुम्फितइव विचित्रः पुष्पगेन्दुकः ॥ ५० ॥ ब्रह्मदत्तस्तु तं दृष्ट्वा दृष्टपूर्वी मयेदृशः । कुत्रापीति व्यधादन्तरूहापोहं मुहुर्मुहुः ॥ ५१ ॥ प्राक्पञ्चजन्मस्मरणोत्पत्तेस्तत्कालमेव च । 'सौधर्मे दृष्टवानेतदित्यज्ञासोन्महीपतिः ॥ ५२ ॥ स सिक्तञ्चन्दनाम्भोभिः स्वस्थोभूयेत्यचिन्तयत् । कथं मेलिष्यति स मे पूर्वजन्मसहोदरः || ५३ ॥ तं ज्ञातुकामः श्लोकार्थसमस्यामेवमार्पयत् । आख दासौ मृगौ हंसौ मातङ्गावमरौ तथा ॥ ५४ ॥ (१) क चड मूर्च्छित्वा ज्ञातवानेतं सौधर्मे दृष्टवानिति । Page #57 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । २५५ पईलोकसमस्यां मे य इमां पूरयिथति ।। राज्याई तस्य दास्यामोत्यसावघोषयत्पुरे ॥ ५५ ॥ लोकाई तत्तु सर्वोपि कण्ठस्यं निजनामवत् । पठनकार्षीत्यथाई न चापूरिष्ट कश्चन ॥ ५६ ॥ तदा च पुरिमतालाचित्रजीवो महेभ्यमूः । . जातिस्मृतः प्रव्रजितो विहरनेकदा ययौ ॥ ५७ ॥ तत्र कस्मिंश्चिदुद्याने प्रामुकस्थण्डिलखितः । नोकाई तत्तु पठत: सोऽत्रौषीदारघटिकात् ॥ ५८ ॥ एषा नौ षष्टिका जातिरन्योऽन्याभ्यां वियुक्तयोः । नोकापराईमेवं स सम्पूर्य तमपाठयत् ॥ ५८ ॥ : लोकापराई तद्रानः पुरस्तादारटिकः । .. पपाठ कः कविरिति तत्पृष्टस्तं मुनिं जगौ ॥ ६ ॥ स पारितोषिकं तम्मै वितीर्योत्कण्ठया ययौ। तत्रोद्याने मुनि द्रष्टुं धर्मद्रुममिवोहतम् ॥ ६१ ॥ वन्दित्वा तं मुनिं तत्र बाष्पपूर्णविलोचनः । निषसादान्तिके राजा सनेहः पूर्वजन्मवत् ॥ ६२ ॥ आशीर्वादं मुनिर्दत्त्वा कपारसमहोदधिः । . अनुग्रहार्थं भूपस्य प्रारंभे धर्मदेशनाम् ॥ ६३ ॥ ... राजबसार संसार सारमन्यव किञ्चन । सारोऽस्ति धम्म एवैक: सरोजमिव कर्दमे ॥ ६४ ॥ (३) च ड तचिन्। Page #58 -------------------------------------------------------------------------- ________________ योगशास्त्रे शरीरं यौवनं लक्ष्मीः स्वाम्यं मित्राणि बान्धवः । सर्वमप्यनिलोडूतपताकाञ्चलचञ्चलम् ॥ ६५ ॥ बहिरङ्गान् द्विषोऽजैषीर्य्यथा साधयितुं महीम् । अन्तरङ्गान् जय तथा मोक्षसाधनहेतवे ॥ ६६ ॥ ग्रहाण यतिधर्म तत्पृथक्कृत्य त्यजापरम् । राजहंसो हि गृह्णाति विभज्य क्षीरमभसः ॥ ६७ ॥ ब्रह्मदत्तस्ततोऽवादीद दिघ्या दृष्टोऽसि बान्धव । इयं तवैव राज्यश्री च भोगान् यथारुचि ॥ ६८ ॥ सपसो हि फलं भोगाः सन्ति ते किं तपस्यसि । उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ॥ ६८ ॥ मुनिरूचे ममाप्यासन् धनदस्येव सम्पदः । मया तास्तुणवत्त्यता भवभ्रमणभोरुणा ॥ ७० ॥ सौधर्मात्क्षोणपुण्योऽस्मिन्बागतोऽसि महोतले । इतोऽपि क्षीणपुण्यः सन् राजन्मा गा अधोगतिम् ॥ ७१ ॥ आयें देश कुले श्रेष्ठे मानुष्यं प्राप्य मोक्षदम् । साधयस्यमुना भोगान् सुधया पायुशौचवत् ॥ ७२ ॥ स्वर्गाच्चुत्वा क्षीणपुण्यौ भ्रान्तावावां कुयोनिषु । यथा तथा स्मरन् राजन् किं बाल इव मुह्यसि ॥ ७३ ॥ तेनैवं बोध्यमानोऽपि नाबुद्ध वसुधाधवः । कुतः कतनिदानानां बोधिबीजसमागमः ॥ ७४ ॥ तमबोध्यतमं बुड्डा जगाम मुनिरन्यतः । कालादिष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिकाः ॥ ७५ ॥ Page #59 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । '२५७ घातिकम्मक्षयात्प्राप्य केवलज्ञानमुत्तमम् । भवोपग्राहिकर्माणि हत्वा प्राप. परं पदम् ॥ ७६ ॥ ब्रह्मदत्तोऽपि संसारसुखानुभवलालसः । सप्तातिवाहयामास शतानि शरदा क्रमात् ॥ ७७ ॥ कदाचित्प्राक्परिचितो हिजः कश्चिज्जगाद तम् । चक्रवर्तिन् स्वयं मुझे यत्तन्मे देहि भोजनम् ॥ ७८ ॥ ब्रह्मदत्तोऽप्यवोचत्तं मदन हिज दुर्जरम् । चिरेण जीर्यमाणं तु महोन्मादाय जायते ॥ ७९ ॥ कदर्योऽस्यवदानेऽपि धित्वामिति वदन् दिजः । अभोजि सकुटुम्बोऽपि भूभुजा भोजनं निजम् ॥ ८० ॥ निशायामथ विप्रस्य बोजादिव तदोदनात् । शतशाखः सारोन्मादतरुः प्रादुरभूदृशम् ॥ ८१ ॥ अन्नातजननीजामिस्नुषाव्यतिकरं मिथः । पशवत्महपुत्रोऽपि विप्रः प्रववृते रते ॥ २ ॥ ततो विराम यामिन्या हिजो ग्रहजनश्च सः । गिया दर्शयितुं स्वास्यमन्योऽन्यमपि नाशकत् ॥ ८३ करेणानन रानाऽस्मि सकुटुम्बो विडम्बितः । चिन्तयनित्यमर्षेण नगराविरगाहिजः ॥ ८४ ॥ दूरादश्वस्थपत्राणि काणयन् शर्कराकणैः । तेन कश्चिदजापालो ददृशे भ्रमता बहिः ॥ ८५ ॥ मदरसाधनायालमसाविति विमृश्य सः । तं मूल्येनेव सत्कारेणादायैवमवोचत ॥ ८६ ॥ ३३ . Page #60 -------------------------------------------------------------------------- ________________ २५८ योगशास्त्रे राजमार्गे गजारूढो यः खेतच्छत्रचामरः । याति कथ्थे दृशौ तस्य त्वया प्रक्षिप्य गोलिके ॥ ८७ ॥ विप्रवाचमजापालः प्रतिपदे तथैव ताम् । पशुवत्पशुपाला हि न विमृश्य विधायिनः ॥ ८८ ॥ सोऽथ कुड्यान्तरे स्थित्वा समं प्रक्षिप्य गोलिके।' 'प्रास्फोटयद् दृशौ राज्ञो नाज्ञा लङ्घया विधेः खलु ॥८॥ सोऽङ्गरक्षरजापाल: प्राप्त श्येनैरिव हिकः । हन्यमानस्तमेवाख्यहि विप्रियकारकम् ॥ ४० ॥ तच्छ्रुत्वा पार्थिवोऽवोचडिग् धिग् जातिर्हिजन्मनाम् । यत्रैते भुञ्जते पापास्तत्र भञ्जन्ति भाजनम् ॥ ८१ ॥ यः स्वामीयति दातारं दत्तं तस्मै वरं शुने । न जातु दातुमुचितं कृतघ्नानां हिजन्मनाम् ॥ २२ ॥ वञ्चकानां वृशंसानां खापदानां पलादिनाम् । सृष्टिं हिजानां योऽकार्षीविग्राह्य : प्रथमं हि सः ॥ ८३ ॥ इति जल्पननल्पात् पृथ्वोपतिरघातयत् । सपुत्वबन्धुमित्रं तं विप्रं मशकमुष्टिवत् ॥ ८४ ॥ दृशोरन्धीकृतस्तेन हृदयेऽन्धीकृत: क्रुधा । विप्रान् सोऽघातयत् सर्वान् पुरोधःप्रभृतीनपि ॥ १५ ॥ (१) खच छ अस्फोटयत् । (२) खचड प्राप्तः । Page #61 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । २५८ २५८ सोऽमात्यमादिदेशैवं नेत्ररेषां दिजन्मनाम् । विशालं स्थालमापूर्य निधेहि पुरतो मम ॥ ८६ ॥ रोट्रमध्यवसायं तं राज्ञो विज्ञाय मन्त्रापि । श्लेभातकफलैः स्थालं पूरयित्वा पुरो न्यधात् ॥ ८७ ॥ मुमुदे ब्रह्मदत्तोऽपि पाणिना संस्पृशम्मुहुः । विप्राणां लोचनैः स्थालं साधु पूर्णमिति ब्रुवन् ॥ ८८ ॥ स्पर्श स्त्रीरत्वरूपायाः पुष्यवत्वास्तथा नहि । यथाऽऽसोब्रह्मदत्तस्य तत्स्थालस्पर्शने रतिः ॥ ८ ॥ त कदाचन स स्थालमपसारयदग्रतः । दुम्मदी मदिरापात्रमिव दुर्गतिकारणम् ॥ ५०० ॥ विप्रनेत्रधियाऽमृङ्गात् श्लेभातकफलानि सः । फलाभिमुखपापद्रोः सज्जयन्निव दोहदम् ॥ १ ॥ तस्यानिवर्त्तको रोट्राध्यवसायोऽत्यवईत । अशुभं वा शुभं वाऽपि सर्व हि महतां महत् ॥ २ ॥ तस्यैवं वसुधेशस्य रोद्रध्यानानुबन्धिनः । पापपशवराहस्य ययुर्वर्षाणि षोडश ॥ ३ ॥ यातमु षोडशयुतेषु समाशतेषु सप्तखसी क्षितिपतिः परिपूरितायुः । हिंसाऽनुबन्धिपरिणामफलातुरूपां तां सप्तमी नरकलोकभुवं जगाम ॥ ५०४ ॥ २७ ॥ ॥ इति ब्रह्मदत्तचक्रवर्त्तिकथानकम् ॥ Page #62 -------------------------------------------------------------------------- ________________ योगशास्त्रे · पुनरपि हिंसकाविन्दति । कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायण: ॥ २८ ॥ कुणिर्विकलपाणि: वरमिति मनागिष्टे मन्तमव्ययं पङ्गः पादविकल: कुत्सितं शरीरमशरीरं नञः कुत्मार्थत्वात् तडिद्यते यस्य सोऽशरीरी कुष्ठी विकलाङ्गः कुणिपङ्गुकुष्ठिनस्ते हि विकलाङ्गत्वादेव हिंसामकुर्वन्तो मनाक् श्रेष्ठाः सम्पूर्ण सर्वाङ्गोऽपि क्कतपरिकरबन्धं हिंसापरायण: पुमानतु श्रेष्ठः । ननु रौद्रध्यानपरायणस्य या हिंसा सा नरकहेतुत्वान्विन्द्याऽस्तु या तु शान्तिकनिमित्तं प्रायश्चित्तभूता हिंसा या वा कुलक्रमायाता मत्स्यबन्धानामिव सा रौद्रध्यानरहितत्वान्न दोषायेत्याह ॥ २८ ॥ हिंसा विघ्नाय जायेत विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा कृता कुलविनाशनी ॥ २६ ॥ रौद्रध्यानमन्तरेणाप्यविवेकालोभाद्दा या शान्तिनिमित्तं कुलक्रमाद्दा हिंसा सा न केवलं पापहेतुः प्रत्युत विघ्नशान्तिनिमित्तं क्रियमाणा समरादित्य कथोक्तस्य यशोधरजीवस्य सुरेन्द्रदत्तस्येव पिष्टमयकुक्कुटवधरूपा विघ्नाय जायेत कल्पेत अस्मत्कुलाचारोऽयमिति बुद्याऽपि कृता हिंसा कुलमेव विनाश यति ॥ २८ ॥ Page #63 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । इदानी कुलक्रमायातामपि हिंसां परिहरन् पुमान् प्रशस्य एवेत्याह। अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत् । स श्रेष्ठः सुलस व कालसौकरिकात्मजः ॥ ३० ॥ वंश: कुलं कुलक्रमायातामपि हिंसां य: 'परिहरेत् स श्रेष्ठः प्रशस्य तमः मुलस इव तस्य विशेषणं कालसौकरिकात्मजः कालसौकरिको नाम सौनिकस्तस्यात्मजः पुत्रः । यदाह अवि इच्छन्ति य मरणं न य परपीडं कुणन्ति मणसा वि । जे सुविइअसुगइपहा सोयरिपो जहा मुलसो॥ सुलसकथानकं सम्प्रदायगम्यम् । सचायं महर्दि मगधष्वस्ति पुरं राजग्रहाभिधम् । तत्र श्रीवीरपादाअभृङ्गोऽभूच्छणिको नृपः ॥ १ ॥ तस्य प्रियतमे नन्दाचिलणे शीलभूषण । अभूतां देवकोरोहिण्याविवानकदुन्दुभैः ॥ २॥ नन्दायां नन्दनो विखकुमुदानन्दचन्द्रमाः । नामाऽभयकुमारोऽभूदुभयान्वयभूषणः ॥ ३ ॥ (१) ख परित्यजेत् । (२) अपि इच्छन्ति च मरणं न च परपोडां कुर्वन्ति मनसापि । ये सविहितसुगतिपथाः सौकरिक सुतो यथा सुलमः ॥ १ ॥ Page #64 -------------------------------------------------------------------------- ________________ २६२ योगशास्त्रे राजा तस्य परिज्ञाय प्रकष्टं बुद्धिकौशलम् । ददौ सर्वाधिकारित्वं गुणा हि गरिमास्पदम् ॥ ४ ॥ अन्यदा श्रीमहावीरो विहरन् परमेश्वरः ।। जगत्पूज्यः पुरे तस्मिन्बागत्य समवासरत् ॥ ५ ॥ श्रुत्वा स्वामिनमायातं जङ्गमं कल्पपादपम् । कृतार्थमानी तत्रागान्मुदितः श्रेणिको नृपः ॥ ६ ॥ यथास्थानं निषसेषु देवादिषु जगहुरुः । .. प्रारभ दुरितध्वंस'देशनी धम्मदेशनाम् ॥ ७ ॥ तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च। . निषसादोपतीर्थेशमलर्क इव कुष्टिमे ॥ ८॥ ततो भगवतः पादौ निजपूयरसेन सः । निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा ॥ ८ ॥ तहीक्ष्य श्रेणिक: क्रुडो दध्यौ वध्योऽयमुत्थितः। . पापीयान् यज्जगत्तर्येवमाशातनापर: ॥ १० ॥ अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । नियस्खेत्यथ जीवति श्रेणिकेन क्षुते सति ॥ ११ ॥ क्षतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥ १२ ॥ जिनं प्रति मियखेति वचसा रुषितो नृपः । इतः स्थानादुच्छ्रितोऽसौ ग्राह्य इत्यादिशगटान् ॥ १३ ॥ (१) क ग छ प्रत्यादेशनीं। Page #65 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । देशनान्ते महावीरं नत्वा कुष्ठो समुत्थितः । रुरुधे श्रेणिकभटैः किरातैरिव शूकरः ॥ १४ ॥ स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्रक्क बिम्बविडम्बनाम् ॥ १५ ॥ पत्तिभिः कथिते राज्ञा क एष इति विस्मयात् । विज्ञप्तो भगवानस्मै देवोऽसावित्य चोकथत् ॥ १६ ॥ पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देव: कथमभूदेष कुष्ठी वा केन हेतुना ॥ १७ ॥ अथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानोकोऽभवनृपः ॥ १८ ॥ तस्यां नगर्य्यामेकोऽभून्रामतः सेडुको द्दिजः । सौमा सदा दरिद्राणां मूर्खाणामवंधिः परः ॥ १८ ॥ गर्भिण्याऽभाणि सोऽन्येद्युर्ब्राह्मण्या सूतिकर्मणे । भट्टानय घृतं मह्यं सह्या नह्यन्यथा व्यथा ॥ २० ॥ सोऽप्यूचे तां प्रिये नास्ति मम कुत्रापि कौशलम् । येन किञ्चिल कापि कलाग्राह्या यदीश्वराः ॥ २१ ॥ उवाच सा च तं भट्टं गच्छ सेवख पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित्कल्पपादपः ॥ २२ ॥ तथेति प्रतिपद्यासौ नृपं पुष्पफलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिव सागरम् ॥ २३॥ (१) ख विज्ञापयामास । २६३ Page #66 -------------------------------------------------------------------------- ________________ • योगशास्त्रे कदाचिदथ कौशाम्बी चम्पेशे नामितैर्बलैः । घनतुनेव मेधैौररुध्यत समन्ततः ॥ २४ ॥ सानीकोऽपि शतानीको मध्येकौगाम्बि तस्थिवान् । प्रतीक्षमाण: समयमन्तर्बिलमिवोरगः ॥ २५ ॥ चम्पाधिपोऽपि कालेन बहुना सनसैनिकः। प्राषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ॥ २६ ॥ तदा पुष्पार्थमुद्याने गत: सेडुक ऐक्षत। तं क्षीणसैन्यं प्रत्यूषे निष्पभोडुमिवोडुपम् ॥ २७ ॥ तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणबलस्तेरिर्भग्नदंष्ट्र इवोरगः ॥ २८ ॥ यद्यद्योत्तिष्ठसे तस्मै तदा ग्राह्यः सुखेन सः । बलीयानपि खिन्नः सबखिन्नेनाभिभूयते ॥ २८ ॥ तहचः साधु मन्वानो राजा सर्वाभिसारतः । निःससार शरासारसारनासौरदारुण: ॥ ३० ॥ ततः पश्चादपश्यन्तो नेशुश्चम्पेशसैनिकाः । अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः ॥ ३१ ॥ चम्माधिपतिरेकाङ्गः कान्दिशीकः पलायितः । तस्य हस्त्यश्वकोशादि कौशाम्बीपतिरग्रहीत् ॥ ३२ ॥ हृष्टः प्रविष्टः कौशाम्बौं शतानीको महामनाः । उवाच सेडुकं विप्रं ब्रूहि तुभ्यं ददामि किम् ॥ ३३ ॥ विप्रस्तमूचे याचिष्थे पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो ग्यहिणां गृहिणीं विना ॥ ३४ ॥ Page #67 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । २६५ भट्टः प्रहृष्टो भटिन्ये तदशेष शशंस स: । चेतमा चिन्तयामास सा चैवं दुदिशालिनी ॥ ३५ ॥ यद्यमुना ग्राहयिष्ये नृपाद्रामादिकं तदा । करिष्यत्यपरान्दारान्मदाय विभव: खलु ॥ ३६ ॥ दिनं प्रत्येक पालोय स्तथाग्रामनभोजनम् । दीनारो दक्षिणायां च याय इत्यन्वशात्पतिम् ॥ ३७ ॥ ययाचे तत्तथा विप्रो राजाऽदात्तद्ददविदम् । करतोऽब्धिमपि प्राप्य ग्रहात्यात्मोचितं पयः ॥ ३८ ॥ प्रत्यहं तत्तथा लेभे प्राप्य सम्भावनां च सः । पुंसां राजप्रसादो हि वितनोति महाघताम् ॥ ३८ ॥ राजमान्योऽयमित्येष नित्यं लोकैद्यमन्त्रात । यस्य प्रसनो नृपतिस्तस्य कः स्यान्न सेवकः ॥ ४० ॥ अग्ने भुक्तं चालयित्वा बुभुजेऽने कशोऽप्यसो । प्रत्यहं दक्षिणालोभाडिग्धिग्लोभो दिजन्मनाम् ॥ ४१ ॥ उपाचीयत विप्रोऽसौ विविधैर्दक्षिणाधनैः । प्रासरत्पत्रपौत्रैश्च पादैरिव वटद्रुमः ॥ ४२ ॥ स तु नित्यमजीर्णाववमनादूईगैरसैः । श्रामरभूषितत्वगवस्थ इव लाक्षया ॥ ४३ ॥ कुष्ठी क्रमेण सञ्जज्ञे शौर्णघ्राणांहिपाणिकः । तथैवामुक्त राजाग्रे सोऽटतो हव्यवाडिव ॥ ४४ ॥ (१) स ग ड आलोपः। Page #68 -------------------------------------------------------------------------- ________________ योगशास्त्रे एकदा मन्विभिभूपो विज्ञप्तो देव कुष्ठासौ । सञ्चरिष्णुः कुष्ठरोगो नास्य योग्यमिहाशनम् ॥ ४५ ॥ सन्त्यस्य नीरुजः पुत्रास्तेभ्यः कोऽप्यत्र भोज्यताम् । 'यङ्गितप्रतिमायां हि स्थाप्यत प्रतिमान्तरम् ॥ ४६ ॥ एवमस्त्विति राज्ञोक्तेऽमात्यैर्विप्रस्तथोदितः। स्वस्थान स्थापयत्पुत्रं गृहे तस्थौ स्वयं पुनः ॥ ४७॥ मधुमण्डकवद्क्षुद्रमक्षिकाजालमालित: । पुत्रगुहादपि बहिः कुटीरे क्षेपि स दिजः ॥ ४८ ॥ बहिःस्थितस्य तस्याज्ञां पुत्वा अपि न चक्रिरे । दारुपात्रे ददुः किन्तु शुनकस्येव भोजनम् ॥ ४ ॥ जुगुप्समाना वध्वोऽपि तं भोजयितुमाययुः ।। तिष्ठिवुर्वलितग्रीवं मोटनोत्पुटनासिकाः ॥ ५० ॥ अथ सोऽचिन्तयविप्रः श्रीमन्तोऽमी मया कृताः । एभिर्मुक्तोऽस्मानादृत्य तीर्णाम्भोभिस्तरण्डवत् ॥ ५१ ॥ तोषयन्ति न वाचाऽपि रोषयन्त्येव माममी। कुष्ठी रुष्टो न सन्तुष्टोऽभव्य इत्यनुलापिनः ॥ ५२ ॥ जुगुप्सन्ते यथैते मां जुगुप्साः स्युरमी अपि । यथा तथा करिष्यामौत्वालोयावोचदात्मजान् ॥ ५३ ॥ उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः । मुमूर्षुभिः कुटुम्बस्य देयो मोक्षित: पशु: ॥ ५४ ॥ १) ख ग ड न्यडित-। Page #69 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाश: । पशुरानीयतामेक इत्याकॉनुमोदिनः । मानिन्धिरे तेऽथ पशुं पशुवन्मन्दबुद्धयः ॥ ५५ ॥ . उदोहवं च स्वाङ्गमन्नेन व्याधिवर्तिकाः । तेनाचारि पशुस्तावद्यावत् कुष्ठी बभूव सः ॥ ५६ ॥ ददौ विप्रः खपुत्रेभ्यस्तं हत्वा पशुमन्यदा । तदाशयमजानन्तो मुग्धा बुभुजिरे च ते ॥ ५७ ॥ तोर्थे स्वार्थाय यास्यामीत्यापृच्छा तनयान् दिजः । ययावूर्द्धमुखोऽरण्यं शरस्थमिब चिन्तयन् ॥ ५८ ॥ : अत्यन्तषितः सोऽटवटव्यां पयसे चिरम् । अपश्यत्सुहृदमिव देशे नानाद्रुमे हुदम् ॥ ५८ ॥ नीरं तौरतरुस्रस्तपत्रपुष्यफलं हिजः । योममध्यन्दिनाकांशक्कथितं काथवत्पपौ ॥ ६ ॥ सोऽपाद्यथा यथा वारि भूयोभूयस्तृषातुरः । तथा तथा विरेकोऽस्य बभूव कमिभिः सह ॥ ६१ ॥ स नोरुगासोत्कतिभिरप्यहोभिदाम्भसा। मनोज्ञसर्वावयवो वसन्वेनेव पादपः ॥ ६२ ॥ आरोग्यदृष्टो ववले विप्रः क्षिप्रं स्ववेश्मने। . पुंसां वपुर्विशेषोत्यशृङ्गारो जन्मभूमिषु ॥ ६३ ॥ स पुवां प्रविशन् पौरैर्ददृशे जातविस्मयैः । देदीप्यमामो निर्मुतो निर्मोक इव पन्नगः ॥ ६४ ॥ पौरैः पृष्टः पुनर्जात इवोल्लाघः कथं त्वसि । देवताराधनादस्मोत्याचचक्षे स तु विजः ॥ ६५ ॥ 1 . Page #70 -------------------------------------------------------------------------- ________________ २६८ योगशास्त्रे स गत्वा स्वगृहे ऽपश्यत्वपुत्रान् कुष्ठिनो मुदा। मयाऽवज्ञाफलं साधु दत्तमित्यवदन तान् ॥ ६६ ॥ सुतास्तमेवमूचुश्च भवता तात निघणम् ।। विश्वस्तेषु किमस्मासु विषेवेदमनुष्ठितम् ॥ ६७ ॥ लोकैराक्रुश्यमानोऽसौ राजनागत्य ते पुरम् । आथयज्जीविकाहारं हारपालं निराश्रयः ॥ ६८॥ तदाऽत्र वयमायाता हास्थोऽस्मदर्मदेशनाम् । श्रोतुं प्रचलितोऽमुञ्चत्तं विप्रं निजकर्मणि ॥ ६८ ॥ द्वारोपविष्टः स हारदुर्गाणामग्रतो बलिम् । जन्मादृष्टमिवामुक्त यथेष्टं कष्टितः क्षुधा ॥ ७० ॥ आकण्ठं परिभुक्तान्नदोषावीमोषणा च सः । उत्पन्नया Bषाऽकारि मरुपान्थ इवाकुल: ॥ ७१ ॥ तत्तु हाःस्थभिया स्थानं त्यक्त्वा नागात्पादिषु । असौ जलचरान् जीवान् धन्यान्मेने टषातुरः ॥ ७२ ॥ आरटन् वारि वारीति स दृषार्तो व्यपद्यत । इहैव नगरहारवाप्यामजनि दर्दुरः ॥ ७३ ॥ विहरतो वयं भूयोऽप्यागमामेह पत्तने । लोकोऽस्महन्दनार्थं च प्रचचाल ससम्भमः ॥ ७४ ॥ अस्मदागमनोदन्तं श्रुत्वाऽम्भोहारिणीमुखात् । स भेकोऽचिन्तयदिदं क्वाप्येवं श्रुतपूर्व्यहम् ॥ ७५ ॥ उहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । स्वमस्मरणवज्जातिम्मरणं तत्क्षणादभूत् ॥ ७६ ॥ Page #71 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। २६८ म दध्यौ दर्दुरश्चैवं हारे संस्थाप्य मां पुरा। हास्थो यं वन्दितुमगात्म आगाभगवानिह ॥ ७७ ॥ यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गङ्गा नहि कस्यापि पैटको ॥ ७८ ॥ ततोऽस्महन्दनाहेतोरुत्नुत्योत्प्मुत्य सोऽध्वनि । पायांस्तेऽश्वखुरक्षुस्लो भेकः पञ्चत्वमाप्तवान् ॥ ७ ॥ दर्दुराकोऽयमुत्पेदे देवोऽस्मद्भक्तिभावितः । भावना हि फलत्येव विनाऽनुष्ठानमप्यहो ॥ ८० ॥ इन्द्रः सदस्युवाचेदमुपवेणिकमाहताः । अश्रद्दधानस्तदसौ तत्परीक्षार्थमागतः ॥ ८१ ॥ गोशौर्षचन्दननायमानच चरणो मम। त्वदृष्टिमोहनायान्यमवं व्यधित वैक्रियम् ॥ ८२ ॥ अथोचे श्रेणिकः स्वामित्रमङ्गल्यं प्रभोः क्षुते । एषोऽन्येषां तु मङ्गल्यामङ्गल्यानि जगाद किम् ॥ ८३ ॥ अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां नियस्वेत्युवाच सः ॥ ८४ ॥ स त्वां जगाद जौवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल मृतस्य हि गतिस्तव ॥ ८५ ॥ जीवन् धर्म विधत्ते स्थाहिमाने नुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाभयमभाषत ॥ ८६ ॥ जीवन् पापपरी मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोचे मा जीव मा मृथाः ॥ ८७ ॥ Page #72 -------------------------------------------------------------------------- ________________ २७० ___ योगशास्त्रे तच्छुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथ जगनाथ कथं मे नरके गतिः ॥ ८८ ॥ बभाष भगवानेवं पुरा त्वमसि भूपते। बदायुनरके तेन तत्रावश्यं गमिष्यसि ॥ ८८ ॥ शुभानामशभानां वा फलं प्राग् बहकर्मणाम् । भोक्तव्यं तद् इयमपि नान्यथा कर्तुमीश्महे ॥ ८ ॥ आद्यों भाविजिनचतुर्विशती त्वं भविष्यसि । पद्मनाभाभिधो राजन् खेदं मा स्म कथास्ततः ॥ ८१ ॥ श्रेणिकोऽथावदनाथ किमुपायोऽस्ति कोऽपि सः । नरकायेन रक्ष्येऽहमन्धकूपादिवान्धल: ॥ २ ॥ भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेकपिलया भिक्षां दापयसे मुदा ॥८३ ॥ कालसौकरिकात्सूनां विमोचयसि वा यदि। तदा ते नरकान्मोक्षो राजन् जायेत नान्यथा ॥ ८४ ॥ सम्यगित्युपदेशं स हृदि हारमिवोहहन् । प्रणम्य श्रीमहावीरं चचाल खाश्रयं प्रति ॥ ८५ ॥ अत्रान्तरे परीक्षार्थ दर्दुराङ्केन भूपतः । अकार्य विदधत्साधुः कैवर्त इव दर्शितः ॥ ६६ ॥ तं दृष्ट्वा प्रवचनस्य मालिन्यं मा भवत्विति । निवार्याकार्य्यत: साम्रा स्वगृहं प्रत्यगानृपः ॥ ८७ ॥ स देवो दर्शयामास साध्वीमुदरिणी पुनः। नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ॥ ८८ ॥ Page #73 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। प्रत्यक्षोभूय देवोऽपि तमूचे साधु साधु भोः। सम्यत्वाञ्चाल्यसे नेव पर्वत: स्वपदादिव ॥ ८ ॥ नृनाथ यादृशं शक्रः सदसि त्वामचीकथत् । दृष्टस्तादृश एवासि मिथ्यावाचो न तादृशाम् ॥ १० ॥ दिवानिर्मितनक्षत्र श्रेणिकं श्रेणिकाय सः । व्यवाणयत्ततो हारं गोलकहितयं तथा ॥ १ ॥ योऽमुं सन्धास्वते हारं त्रुटितं स मरिष्यति।। इत्युदोर्य तिरोधत्त स्वप्नदृष्ट इवामरः ॥ २ ॥ दिव्यं देव्यै ददौ हारं चेल्लणायै मनोहरम् ।। गोलकहितयं तत्तु नन्दायै नृपतिर्मदा ॥ ३ ॥ दानस्यास्यास्मि योग्येति सेयं नन्दा मनस्विनी । आस्फाल्य स्फोटयामास स्तम्भे तहोलकइयम् ॥ ४ ॥ एकस्मात्कुण्डलइन्हं चन्द्रहन्हमिवामलम् । देदीप्यमानमन्यस्मात्क्षौमयुग्मं च निःसृतम् ॥ ५ ॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रष्टिवल्लाभो महतां स्यादचिन्तितः ॥ ६ ॥ राजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता। भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चकैः ॥ ७ ॥ कपिलीचे विधमे मां सवीं स्वर्णमयीं यदि । हिनस्मि वा तथाऽप्येतदक्कत्यं न करोम्यहम् ॥ ८॥ (१) च श्रेणिकं च सः। ......... Page #74 -------------------------------------------------------------------------- ________________ २७२ योगशास्त्रे कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्चयन् । दास्येऽहमर्थमर्थस्य लोभात्त्वमसि सौनिकः ॥ ८ ॥ सूनायां ननु को दोषो यया जीवन्ति मानवाः । तां न जातु त्यजामौति कालसौकरिकोऽवदत् ॥ १० ॥ सूनाव्यापारमेषोऽत्र करिष्थति कथं न्विति। नृपः क्षिप्वाऽन्धङ्कप तमहोरात्रमधारयत् ॥ ११ ॥ अथ विज्ञपयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ॥ १२ ॥ सर्वज्ञोऽभिदधे राजबन्धकूपेऽपि सोऽवधीत् । शतानि पञ्च महिषान् स्वयं निर्माय मृन्मयान् ॥ १३ ॥ तहत्वा श्रेणिकोऽपश्यत् स्वयमुद्दिविजे ततः । धिगहो मे पुरा कर्म नान्यथा भगवहिरः ॥ १४ ॥ पञ्च पञ्च शतान्यस्य महिषाविघ्नतोऽन्वहम् । कालसौकरिकस्योच्चै: पापराशिरवईत ॥ १५ ॥ इहापि रोगास्तस्यासन्दारुणरतिदारुणाः । पर्यन्तनरकप्राप्ते रुपयुत्कलितैरघेः ॥ १६ ॥ हा तात हा मातरिति व्याधिबाधाकदर्थितः।। वध्यमानः शूकरवत्कालसौकरिकोऽरटत् ॥ १७ ॥ सोऽङ्गनातूलिकापुष्पवीणाक्कणितमार्जिताः । दृष्टित्वग्नासिकाकर्णजिह्वाशूलान्यमन्यत ॥ १८ ॥ ततस्तस्य सुतस्तादृक् स्वरूपं सुलसोऽखिलम् । जगाद जगदाप्तायाभरायाभयदायिने ॥ १८ ॥ Page #75 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । २७३ जचेऽभयस्त्वत्यिता यच्चक्रे तस्येदृशं फलम् । सत्यमत्युग्रपापानां फलमत्रैव लभ्यते ॥ २० ॥ तथाऽप्यस्य कुरु प्रोत्यै विपरीतेन्द्रियार्थताम् । अमेध्यगन्धविध्वंसे भवेन्न जलमौषधम् ॥ २१ ॥ अथैत्य सुलसस्तं तु कटुतितान्यभोजयत् । अपाययदपोऽत्युष्णास्तप्त न पुसहोदराः ॥ २२ ॥ भूयिष्ठविष्ठया सुष्ठु सर्वाङ्गीणं व्य लेपयत् । जईकण्टकमय्यां च शय्यायां पर्यसूषुपत् ॥ २३ ॥ श्रावयामास चक्रीवत्क्रमेलकरवान् कटून् । रक्षोवेतालकशालघोररूपाण्यदर्शयत् ॥ २४ ॥ तैः प्रौतः सोऽब्रवीत्युत्त्रं चिरात्स्वाइद्य भोजनम् । शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ॥ २५ ॥ शब्दः श्रुतिसुधाऽमूनि रूपाण्येकं सुखं दृशोः । . भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ॥२६॥ तच्छ्रुत्वा सुलसो दध्याविदमत्रैव जन्मनि । अहो पापफलं घोरं नरके किं भविष्यति ॥ २७ ॥ सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम् । सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ॥ २८ ॥ कतो देहिकोऽभाणि सुलस: स्वजनैरिति । पितुः श्रय पदं स्याम सनाथा हि त्वया यथा ॥ २८ ॥ सुलसस्तानुवाचेदं करिष्ये कर्म नह्यदः । किञ्चिन्लेभे फलं पित्राऽप्यत्रैवामुष्य कर्मणः ॥ ३० ॥ ३५ Page #76 -------------------------------------------------------------------------- ________________ २७४ योगशास्त्रे यथा मम प्रिया प्राणास्तथाऽन्यप्राणिनामपि । स्वप्राणिताय धिगहो परप्राणप्रमारणम् ॥ ३१ ॥ हिंसाजीविकया जीवेत् कः प्रेक्ष्य फलमीदृशम् । मरणकफलं ज्ञात्वा किंपाकफलमत्ति कः ॥ ३२॥ अथ ते स्वजना प्रोचुः पापं प्राणिवधेऽत्र यत्।। तविभज्य ग्रहीष्थामो हिरण्यमिव गोत्रिणः ॥ ३३ ॥ त्वमेकं महिषं हन्या हनिष्यामोऽपरान् वयम् । अत्यल्पमेव ते पापं भविष्यति ततो ननु ॥ ३४॥ आदाय सुलस: पित्रं कुठारं पाणिना ततः । तेनाजघ्ने निजां जवां मूर्छितो निपपात च ॥ ३५ ॥ लब्धसंज्ञस्ततोऽवादीत् 'साक्रन्द: करुणवरम् । हा कुठारप्रहारण कठोरेणास्मि पीडितः ॥ ३६॥ ग्टहीत बन्धवो यूयं विभज्य मम वेदनाम् । स्यामल्पवेदनो येन पीडितं पात पात माम् ॥ ३७॥ सुलसं खिनमनसस्ते च प्रतिबभाषिरे । पीडा कस्यापि केनापि ग्रहीतुं शक्यते किमु ॥ ३८ ॥ सुलसो व्याजहारदं यद् व्यथामियतीमपि । न मे ग्रहीतुमीशिध्वे तत्कथं नरकव्यथाम् ॥ ३८ ॥ कृत्वा पापं कुटुम्बार्थे धोरां नरकवेदनाम् । एकोऽमुत्र सहिष्थेऽहं स्थास्य त्यत्रैव बान्धवाः ॥ ४० ॥ (१) च स क्रन्दन् दारुणवरम् । ड स क्रन्दन क- । Page #77 -------------------------------------------------------------------------- ________________ २७५ द्वितीयः प्रकाशः । . २७५ हिंसां तन्त्र करिथामि पैत्रिकीमपि सर्वथा । पिता भवति यद्यन्धः किमन्धः स्यात्सुतोऽपि हि ॥ ४१ म एवं याहरमाणस्य सुलसस्यातिपीडया । प्रतिजागरणायागादभयः श्रेणिकात्मजः ॥ ४२ ॥ परिरभ्य बभाष तमभयः साधु साधु भोः । सर्व ते श्रुतमस्माभिः प्रमोदायमागताः ॥ ४३ ॥ पापात्पित्रवादपक्रामन् कर्दमादिव दूरतः । त्वमेकः श्लाघ्यसे हन्त पक्षपातो गुणेषु नः । ४४ ॥ सुलसं पेशलैरेवमालापैर्धर्मवत्सलः । अनुमोद्य निजं धाम स जगाम नृपात्मजः । ४५ ॥ खाननादृत्य सुलसो ग्रहीतदादशव्रतः । दौर्गत्यभीतोऽस्थाज्जैनधर्मे रोर इवेश्वर ॥ ४६ ॥ कालसौकरिक सूनुरिवैवं यस्त्यजेत् कुलभवामपि हिंसाम् । खगसम्पददवीयसि तस्य श्रेयसामविषयो न हि किञ्चित्॥१४॥३०॥ अथ हिंसां कुर्वत्र पि दमादिभिः पुण्यमर्जयत्येव पापं च विशोधयेदित्याहदमो देवगुरूपास्तिर्दानमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥३१॥ दम इन्द्रियजयः, देवगुरूपास्तिर्देवमेवा गुरुसेवा च, दानं पात्रेषु द्रव्यविश्वाणनं, अध्ययनं धर्मशास्त्रादेः पठनं, तपः कच्छचान्द्रायणादि, एतहमादि सर्वमपि न तु किञ्चिदेव, अफलं Page #78 -------------------------------------------------------------------------- ________________ २७६ योगशास्त्र पुण्यार्जनपापक्षयादिफलरहितं चेद्यदि हिंसां शान्तिकहेतुं कु.ल. क्रमायातां वा न परित्यजेन्न परिहरेत् ॥ एवं तावन्मांसलुब्धानां शान्तिकार्थिनां कुलाचारमनुपालयतां च या हिंसा सा प्रतिषिद्धा ॥ ३१ ॥ इदानीं शास्त्रीयां हिंसां प्रतिषेधन् शास्त्रत्वेन वाऽऽक्षिपति विश्वस्तो मुग्धधौर्लोकः पात्यते नरकावनौ। अहो नृशंसैलॊभा_हिंसाशास्त्रोपदेशकैः ॥ ३२ ॥ हिंसाशास्त्रं वक्ष्यमाणं तस्योपदेशका हिंसाशास्त्रोपदेशका मन्वादयस्तैः किं विशिष्टैर्नृशंस निर्दयैः। दयावान् हि कथं हिंसाशास्त्रमुपदिशेत् । नृशंसत्वे हेतुमाह। लोभान्धैः मांसलोभान्धैः स्वाभाविक विवेकविवेकिसंसर्गचकूरहितः।। यदाहएकं हि चक्षुरमलं सहजो विवेकस्तहद्भिरेव सह संवसतिहितीयम् । एतद्दयं भुवि न यस्य स तत्त्वतोऽन्ध स्तस्यापमार्गचलने खलु कोऽपराधः ॥ १ ॥ अहो इति निर्वदे यतो विश्वस्तो विश्रब्धः विश्वस्तत्वे हेतुर्मुग्धधीः । चतुरबुद्धिहि कृत्याकृत्यं विवेचयन् न प्रतारकवचम्सु विखसिति लोकः प्राकतो जनः पात्यत क्षेप्यते नरकावनौ नरकपृथ्वयाम् ॥ ३२ ॥ Page #79 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। २७७ हिंसाशास्त्रमेव यदाहुरित्यनेन प्रस्तुत्य निर्दिशतियज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यन्जे वधोऽवधः ॥३३॥ यज्ञार्थ यज्ञनिमित्तं स्वयंभुवा प्रजापतिना पशवः सृष्टा उत्पादिताः स्वयमेवेत्ययवादः अस्य जगतो विश्वस्य यज्ञो ज्योतिष्टोमादिः भूत्यै भूतिर्विभव: तस्मात्तत्र यो वधः स न वधो विज्ञेयः हिंसाजन्यस्य पापस्यानुत्पत्तेः । एवमुच्यते । कथं पुनर्य ने हिंसादोषो नास्ति । उच्यते। हिंसा हिंस्यमानस्य महानपकारः प्राणवियोगेन पुत्रदारधनादिवियोगेन वा सर्वानर्थोत्पत्तेर्दुष्कृतस्य वा नरकादिफलविपाकस्य प्रत्यासत्तेः । यजे तु हतानामुपकारी नापकारः नरकादिफलानुत्पत्तेः ॥ ३३ ॥ एतदेवाहऔषध्यः पशवो वृक्षास्तियंञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्युच्छ्रितिं पुनः ॥३४॥ औषध्यो दर्भादयः पशवश्छागादयः वृक्षा यूपादयः तिर्यञ्चो गवाखादयः पक्षिण: कपिञ्जलादयः यज्ञार्थं यज्ञनिमित्तं निधन विनाशं प्राप्ताः । यद्यपि केषाञ्चित्तत्र निधनं नास्ति तथापि या च यावती च पौडा विद्यत इति सा निधनशब्देन लक्ष्यते । प्राप्नुवन्ति यान्ति उच्छ्रितिमुत्कर्ष देवगन्धर्वयोनित्वमुत्तरकुर्वादिषु दीर्घायुकादि च ॥ ३४ ॥ Page #80 -------------------------------------------------------------------------- ________________ योगशास्त्रे यावत्यः काश्चिच्छास्त्रे चोदिता हिंसास्ताः संक्षिप्य दर्शयतिमधुपर्के च यज्ञे च पिटदैवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥ ३५ ॥ मधुपर्कः क्रियाविशेष: तत्र गोवधो विहितः यज्ञो ज्योतिटोमादिः तत्र पशुवधो विहितः पितरो दैवतानि यत्र कर्मण्यष्टकादौ तच्च श्राई यहा पितॄणां दैवतानां च कर्म महायज्ञादि ॥ ३५ ॥ एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविहिजः । आत्मानं च पशूश्चैव गमयत्युत्तमां गतिम् ॥३६॥ एतानर्थान् साधयितुं पशून् हिंसन् हिज प्रात्मानं पश्चिोत्तमा गतिं स्वर्गापवर्गलक्षणां गमयति प्रापयति वेदतत्त्वार्थविदिति विदुषोऽधिकारित्वमाह ॥ ३६ ॥ हिंसाशास्त्रमनूद्य पुनस्तदुपदेशकानाक्षिपतिये चक्रुः क्रूरकर्माण: शास्त्रं हिंसोपदेशकम् । क्वते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः ॥३॥ ये मन्वादयः क्रूरं निघृणं कर्म येषां ते क्रूरकर्माण: शास्त्र स्मृत्यादि हिंसाया उपदेशकं चक्रुः ते हिंसाशास्त्रकार: क नरके यास्यन्तीति विस्मयः ते चास्तिकाभासा अपि नास्तिकेभ्योऽपि नास्तिकाः परमनास्तिका इत्यर्थः ॥ ३० ॥ Page #81 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। ३७८ उक्तं चेत्यनेन संवादलोकमुपदर्शयतिवरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छाच्छन्नं रक्षो न जैमिनिः ॥ ३८ ॥ वरमिति मनागिष्टो जैमिन्यपेक्षया चार्वाको लोकायतिकः वराक इति दम्भरहितत्वादनुकम्पाः । तदेवाह । योऽसौ प्रकटनास्तिकः। जैमिनिस्तु न वरं कुतः वेदोतितापसच्छन तापसवेषस्तेन छत्रं रक्षो राक्षसः अयं हि वेदोलिं मुखे कत्वा सकलप्राणिवञ्चनात् मायावी राक्षस इव। यच्चोक्तम् । यज्ञार्थं पशवः सृष्टा इति तहानानं निजनिजकर्मनिर्माणमाहात्मेन नानायोनिषु जन्तवः समुत्पद्यन्त इति व्यलोकः कस्यचित् सृष्टिवादः यज्ञोऽस्य भूत्यै सर्वस्येति त्वर्थवादः पक्षपातमात्र वधोऽवधो इति तूपहासपात्रं वचः यज्ञार्थं विनिहतार्ना चौषध्यादीनां पुनरुच्छ्रयप्राप्तिः श्रद्दधानभाषितं अकृतसुकतानां यज्ञवधमात्रेणोच्छ्रितगतिप्रास्ययोगात्। अपिच । यजहननमात्रेण यदि उच्छ्रितगतिप्राप्तिस्तहि मातापित्रादीनामपि यज्ञे वधः किं न क्रियते। यदाहुःनाहं वर्गफलोपभोगढषितो नाभ्यर्थितस्त्वं मया सन्तुष्टस्तुणभक्षणेन सततं साधो न युक्तं तव । (१) च ड-मात्रम् । Page #82 -------------------------------------------------------------------------- ________________ २८० योगशास्त्र खगं यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यचं किं न करोषि माटपिटभिः पुत्रैस्तथा बान्धवैः ॥१॥ मधुपर्कादिषु च हिंसा श्रेयसे नान्यत्रेति स्वच्छन्दभाषितं, को हि विशेषो हिंसाया येनैका श्रेयस्करी नान्येति । पुण्यात्मानस्तु सर्वाऽपि हिंसा न कर्त्तव्येत्याहुः । यथा 'सब्वे जीवा वि इच्छंति जीविउं न मरजिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णम् ॥ १ ॥ यत्तूक्तं आत्मानं च पशूश्चैव गमयत्युत्तमां गतिमिति । तदतिमहासाहसिकादन्यः को वक्तुमर्हति । अपि नाम पशोरहिंस्रस्थाकामनिर्जरयोत्तमगतिलाभः संभवेत् द्विजस्य तु निशातकपाणिकाप्रहारपूर्व सौनिकस्येव निर्दयस्य ' हिंसतः कथमुत्तमगतिसंभावनाऽपि स्यात् ॥ ३८ ॥ एतदेव विशेषाभिधानपूर्वकमुपसंहरबाहदेवोपहारव्याजेन यतव्याजेन येऽथवा । घ्नन्ति जन्तून् गतवृणा घोरां ते यान्ति दुर्गतिम् ॥३६॥ देवा भैरवचण्डिकादयस्तेभ्यः उपहारो बलिः स एव व्याजं छद्म तेन महानवमीमाधाष्टमीचैत्राष्टमीनमसितकादिषु देवपूजाच्छद्म (१) सर्वे जीवा अपि इच्छन्ति जीवितुं न मर्तुम् ।। तस्मात् प्राणिवधं घोरं निर्गन्या वर्जयन्ति ॥ १ ॥ Page #83 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । २८१ ना ये जन्तुघातं कुर्वन्ति ये च यज्ञव्याजेन गतष्घृणा निर्दयास्ते घोरां रौद्रां दुर्गतिं नरकादिलक्षणां यान्ति अत्र देवोपहारव्याजेनेति विशेषाभिधानं यज्ञव्याजेनेत्युपसंहारः अपि च निराबाधे धर्मसाधने स्वाधीने साबाधपराधीनधर्मसाधनपरिग्रहो न श्रेयान् । यदाहु:-- अक् चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति ॥ ३८ ॥ एतदेवाह - , शमंशौलदयामूलं हित्वा धर्मं जगदितम् । अहो हिंसाऽपि धर्माय जगदे मन्दबुद्धिभिः ॥ ४० ॥ शमः कषायेन्द्रियजयः शीलं सुखभावता दया भूतानुकम्पा एतानि मूलं कारणं यस्य स तथा धर्मोऽभ्युदयनिःश्रेयसकारणं तं किं विशिष्टं जगदितं हित्वा उपेक्ष्य शमशोलादीनि धर्मसाधनान्युपे - क्ष्येत्यर्थः, अहो इति विस्मये हिंसा अपि धर्मसाधनबहिर्भूता धर्मसाधनत्वेन मन्दबुदिभिरुक्ता सर्वजनप्रसिद्धानि शमशोलादोनि धर्मसाधनान्युपेच्य अधर्मसाधनमपि हिंसां धर्मसाधनत्वेन प्रतिपादयतां परेषां व्यक्तैव मन्दबुडिता । एवं तावल्लोभमूला शान्त्यर्था कुलक्रमायाता यज्ञनिमित्ता देवोपहारहेतुका च हिंसा प्रतिषिद्धा ॥ ४० ॥ पिटनिमित्ता अवशिष्यते तां प्रति निषेधितुं परशास्त्रीयां षट्ोकी मनुवदति - ३६ Page #84 -------------------------------------------------------------------------- ________________ योगशास्त्रे हविर्यच्चिरत्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ ४१ ॥ चिररात्रशब्दों दोर्घकालवचनः यच्चानन्त्याय केनचिडविषा दीर्घकालतृप्तिर्जायते केनचिदनन्तैव तदुभयं प्रवक्ष्यामि ॥ ४१ ॥ २.८२ तिलैर्त्रीहियवैर्माषैरह्निर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥४२॥ तिलादिग्रहणं नेतरपरिसंख्यानार्थमपि तूपात्तानां फलविशेषप्रदर्शमार्थम् । एतैर्विधिवद्दत्तेः पितरो मासं प्रीयन्ते ॥ ४२ ॥ aौ मासौ मत्स्यमांसेन चौन् मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ ४३॥ मत्स्याः पाठीनकाद्याः, हरिण मृगाः, औरभ्रा मेषाः, शकुनय आरण्यकुक्कुटाद्याः ॥ ४२ ॥ षण्मासांश्वागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ४४ ॥ छागश्वगलः, पृषतैणरुरवो मृगजातिविशेषवचनाः ॥ ४४ ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मयोर्मंसेन मासानेकादशैव तु ॥ ४५ ॥ वराह आरण्यशूकरः ॥ ४५ ॥ Page #85 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४६॥ २८३ श्रुतानुमितयोः श्रुतसंबन्धस्य बलीयस्त्वाद्गव्येन पयसा पायसेन च संबन्धो न मांसेन प्राकरणिकेन, अन्ये तु व्याख्यानयन्ति मांसेन गव्येन पयसा पायसेन वा पयसो विकारः पायसं दध्यादि पय:संस्कृते त्वोदने प्रसिद्धि: वार्षीणसो जरच्छागः यस्य पिबतो जल alf स्पृशन्ति जिह्वा कर्णौ च ॥ यदाह त्रिपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मसु ॥ १ ॥ ४६ ॥ पिटनिमित्त हिंसोपदेशकं शास्त्रमनूद्य तदुपदिष्टां हिंसां दूषयति - - इति स्मृत्यनुसारेण पितॄणां तर्पणाय या । मूढैर्विधीयते हिंसा साऽपि दुर्गतिहेतवे ॥ ४७ ॥ इति पूर्वोक्ता या स्मृतिर्धर्मसंहिता तस्मा अनुसारेणालम्बनेन पितरः पितुर्वंश्या: । यच्छ्रति: पित्रे पितामहाय प्रपितामहाय पिण्डं निर्वपेदिति । तेषां तर्पणाय तृप्तये मूढैरविचारकैर्या हिंसा विधीयते सापि न केवलं मांसलोभादिनिमित्ता दुर्गतिहेतवे नरकाय न हि खल्पाऽपि काचिहिंसा न नरकादिनिबन्धनं यत्तु पिढवतिप्रपञ्चवर्णनं Page #86 -------------------------------------------------------------------------- ________________ २८४ योगशास्त्रे तन्मुग्धबुद्धिप्रतारणमात्रं न हि तिलव्रीह्यादिभिर्मत्स्यमांसादिभिर्वा परामूनां पितृणां टप्तिरुत्पद्यते । यदाह मृतानामपि जन्तूनां यदि तृप्तिर्भवेदिह । निर्वाणस्य प्रदीपस्य स्नेहः संवई येच्छि खाम् ॥ १ ॥ इति न केवलं हिंसा दुर्गतिहेतुरेव किं तु हिंस्यमानर्जन्तुभिर्विरोधनिबन्धनत्वेन स्वस्यापि इहामुत्र च हिंसाहेतुतया भयहेतुः ॥४७॥ . अहिंस्रस्य तु सर्वजीवाभयदानशौण्डस्य न कुतोऽपि भयमस्तोत्याहयो भूतेष्वभयं दद्यातेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं तादृगासायते फलम् ॥ ४८ ॥ स्पष्टम् ॥ ४८ ॥ एवं तावहिंसापराणां मनुष्याणां नरकादि हिंसाफलमभिहितं सुराणामपि हिंसकानां जुगुप्सनीयचरितानां मूढजनप्रसिद्ध पूज्यत्वं परिदेवयते कोदण्डदण्डचक्रासिशूलशक्तिधराः सुराः । हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया ॥४६॥ हा कष्टमित्यतिशयनिदे हिंसका अपि रुद्रप्रभृतयः सुराः प्राकृतैजनैः पूज्यन्ते विविधपुष्पोपहारादिभिरचन्ते ते च यथाकथञ्चिदभ्यर्यतां नाम केवलं देवताबुद्धिस्तत्र विरुद्धा इत्याह देवताधिया हिंसकत्वे विशेषणद्वारण हेतुमाह कोदण्डदण्डचक्रासिशूलशक्ति. Page #87 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । २८५ धरा इति कोदण्डादिधरत्वाविंसकाः हिंसकत्वमन्तरण कोदण्डादीनां धारयितुमयुक्तत्वात् कोदण्डधरः शङ्करः दण्डधरो यमः चक्रासिधरो विष्णुः शूलधरौ शिवौ शक्तिधरः कुमारः उपलक्षणमन्येषां शस्त्राणां शस्त्रधराणां च ॥ ४८ ॥ . एवं प्रपञ्चतो हिंसां प्रतिषिध्य तद्विपक्षभूतमहिंसाव्रतं लोकहयेन स्तौतिमातेव सर्वभूतानामहिंसा हितकारिणी। अहिंसैव हि संसारमरावमृतसारणिः ॥ ५० ॥ अहिंसा दुःखदावाग्निप्रावृषेण्यघनावली। भवधमिरुगा नामहिंसा परमौषधी ॥ ५१ ॥ स्पष्टम् ॥ ५० ॥ ५१ ॥ - अहिंसावतस्य फलमाहदीर्घमायुः परं रूपमारोग्यं श्लाघनीयता। अहिंसायाः फलं सर्व किमन्यत्कामदैव सा ॥५२॥ अहिंसापरी हि परषामायुर्वर्धयन्ननुरूपमेव जन्मान्तरे दीर्घायुष्वं लभते तथैव पररूपमविनाशयन् प्रकष्टं रूपमाप्नोति तथैव चास्वास्थ्यहेतुं हिंसां परिहरन् परमस्वास्थ्यरूपमारोग्यं लभते सर्वभूताभयप्रदश्च तेभ्य आत्मनः नाघनीयतामश्रुते एतत्सर्वमहिंसाया: फलं कियहा शृङ्गग्राहिकया वक्तुं शक्यते । इत्याह किमन्यत्कामदैव सा यद्यत्कामयते तत्तस्मै ददाति उपलक्षणमेतदकामितस्थापि स्वर्गापवर्गादेः फलस्य दानात् । Page #88 -------------------------------------------------------------------------- ________________ २८६ योगशास्त्र अत्रान्तरे श्लोकःहेमाद्रिः पर्वतानां हरिरमृतभुजां चक्रवर्ती नराणां शीतांशुर्योतिषां स्वस्तरुरवनिरुहां चण्डरोचिग्रहाणाम् । सिन्धुस्तोयाशयानां जिनपतिरसुरामर्त्यमाधिपानां .. यहत्तबद्दतानामधिपतिपदवौं यात्यहिंसा किमन्यत् ॥ १ ॥ उक्तमहिंसाव्रतम् ॥ ५२ ॥ अथ सूनृतव्रतस्यावसरस्तञ्च नालोकविरतिव्रतमन्तरेणोपपद्यते, न च तत्फलमनुपदर्थ्यालोकादिरतिं कारयितुं शक्यः पर इत्यलोकफलमुपदर्य तहिरतिमुपदर्शयति मन्मनत्वं काहलत्वं मूकत्वं मुखरोगिताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥५३॥ मन एव मन्तृ यत्र तन्मन्मनं परस्याप्रतिपादकं वचनं तद्योगात्पुरुषो. ऽपि मन्मनस्तस्य भावो मन्मनत्वं १ काहलमव्यक्तवर्ण वचनं तद्योगात्पुरुषोऽपि काहलस्तस्य भाव: काहलत्वं २ मूकोऽवाक् तस्य भावो मूकत्वं ३ मुख स्य रोगा उपजिह्वादयस्तेऽस्य सन्ति मुखरोगी तस्य भावो मुखरोगिता ४ एतत्सर्वमसत्यफलं वीक्ष्य शास्त्रबलेनोपलभ्यासत्यं स्थूलासत्यमुत्सृजेच्छावकः । यदाहमूका जडाश्च विकला वागहीना वागजुगुप्सिताः । पूतिगन्धमुखाश्चैव जायन्तेऽनृतभाषिणः ॥ १ ॥ ५३ ॥ Page #89 -------------------------------------------------------------------------- ________________ २८७ द्वितीयः प्रकाशः । असत्यं च तच्च कन्यालोकादि वक्ष्यमाणम् तदेवाहकन्यागोभूम्यलोकानि न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्तयन् ॥५४॥ कन्यालीकं १ गवालीकं २ भूम्यलोकं ३ न्यासापहरणं ४ कूटसाक्ष्यं च ५ एतानि पञ्च स्थूलासत्यान्यकोर्तयन् जिनाः। तत्र कन्याविषयमलोकं कन्यालोकं भित्रकन्यामभिन्नां विपर्ययं वा वदतो भवति ; इदं च सर्वस्य कुमारादिदिपदविषयस्यालोकस्योपलक्षणं १ गवालीकमल्पक्षीरां बहुक्षौरां विपर्ययं वा वदतः, इदमपि सर्वचतुष्पदविषयस्यालोकस्योपलक्षणं २ भूम्यलोकं परसत्कामप्यात्मादिसत्कां विपर्ययं वा वदतः, इदं च शेषपादपाद्यपदद्रव्यविषयालोकस्योपलक्षणं ३ अथ हिपदचतुष्पदापदग्रहणमेव. कस्मात्र जतम्। उच्यते । कन्याद्यलोकानां लोके अतिगहितत्वेन रूढत्वादिति । न्यस्यते रक्षणायान्यस्मै समयंत इति न्यासः सुवर्णादिः तस्यापहरणमपलापस्तद्वचनं स्थूलमृषावादः इदं चानेनैव विशेषेण पूर्वालोकेभ्यो भेदेनोपातं ; कूटसाक्ष्य प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः, यथाहमत्र साक्षी अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः, एतानि क्लिष्टाशयसमुत्थत्वात् स्थूलासत्यानि ॥ ५४ । एतेषां स्थूलालीकले विशेषणहारण हेतुमुपन्यस्य प्रतिषेधमाह सर्वलोकविरुद्धं यद्यविश्वसितघातकम् । यदिपक्षश्च पुण्यस्य न वदेत्तदसून्तम् ॥ ५५ ॥ Page #90 -------------------------------------------------------------------------- ________________ २८८ योगशास्त्रे सर्वलोके विरुदत्वात् कन्यागोभूम्यलोकानि न वदेत् विश्वसितघातकत्वावधासापलापं न वदेत् पुण्यस्य धर्मस्य विपक्षरूपोऽधर्मस्तं हि वदन् प्रमाणीकतो विवादिभिरभ्यर्थ्यते धर्म ब्रूया. बाधर्ममिति । इति धर्मविपक्षत्वात्कूटसाक्ष्यं न वदेत् ॥ ५५ ॥ असत्यस्य फलविशेषमुपदर्शयंस्तत्परिहारमुपदिशतिअसत्यतो लघौयस्त्वमसत्याहचनौयता । अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥ ५६ ॥ लघीयस्त्वं वचनीयता चासत्यस्यैहिकं फलं, अधोगतिरामुभिकम् ॥ ५६ ॥ अथ भवतु लिष्टाशयपूर्वस्यासत्यस्य मिषेधः, प्रामादिकस्य तु का वात्याह असत्यवचनं प्राज्ञः प्रमादनापि नो वदेत् । श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥ ५७ ॥ आस्तां क्लिष्टाशयपूर्वकमसत्यवचनं, प्रामादिकमप्यज्ञानसंशयादिजनितवचनं न वदेत् येन प्रामादिकेनासत्यवचनेन श्रेयांसि भङ्गमुपयान्ति वात्ययेव महाद्रुमा इति दृष्टान्तः । यदाहुमहर्षयः'अअम्मि य कालम्मि पचप्पत्रमणागए । जमह तु न जाणेज्जा एवम ति णो वए ॥ १ ॥ (१) अतीते च काले प्रत्युत्पन्नमनागते । यमर्थ तु न जानीयात् एवमेतत् इति नो वदेत् ॥ १ ॥ * क ख ग छ ड अद्धम्मि । Page #91 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । 'अइअम्मि य कालम्मि पञ्चुप्पणमणागए । जस्थ संका भवे तं तु, एवमेअंति णो वए ॥ २ ॥ अअम्मि य कालम्मि* पञ्चुप्पत्रमणागए। निस्संकिअं भवे जं तु, एवमेअं तु निहिसे ॥ ३ ॥ एतच्चासत्यं चतुर्छ । भूतनिङ्गवो, अभूतोद्भावनं, अर्थान्तरं, गर्दा च । भूतनिङ्गवो यथा। नास्त्यात्मा, नास्ति पुण्यं, नास्ति पापं चेत्यादि। अभूतोद्भावनं यथा । सर्वगत आत्मा श्यामाक. तन्दुलमानो वा । अर्थान्तरं यथा । गामखमभिदधतः। गर्दा तु विधा। एका सावद्यव्यापारप्रवर्तनी ; यथा क्षेत्रं कषेत्यादि । द्वितीया अप्रिया ; काणं काणमिति वदतः। तृतीया आक्रोशरूपा ; यथा अरे बान्धकिनेय इत्यादि ॥ ५७ ॥ . अतिपरिहरणीयत्वमसत्यवचनस्य दर्शयन् पुनरप्यैहिकान् । . दोषानाहअसत्यवचनादरविषादाप्रत्ययादयः । प्रादुःषन्ति न के दोषाः कुपथ्यायाधयो यथा ॥५८॥ वैरं विरोध:, विषादः पश्चात्तापः, अप्रत्ययोऽविश्वासः। आदिग्रहणाद्राजावमानादयो ग्राह्यन्ते ॥ ५८ ॥ (१) अतीते च काले प्रत्युत्पन्नमनागते । यत्व शङ्का भवेत्तत एवमेतत् इति नो वदेत् ॥ २ ॥ अतीते च काले प्रत्युत्पन्नमनागते ।। निःशङ्कितं भवेत्तत्तु एवमेतत् तु निर्दिशेत् ॥ ३ ॥ (२) * क ख ग छ ड अद्धम्मि । Page #92 -------------------------------------------------------------------------- ________________ योगशास्त्र आमुभिक मृषावादस्य फलमाहनिगोदेष्वथ तिर्यक्षु तथा नरकवासिषु । उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ ५६ ॥ निगोदा अनन्तकायिका जीवास्तेषु, तिर्यक्षु गोबलीवर्दन्यायेन शेषतिर्यग्योनिषु, नरकवासिषु नैरयिकेषु ॥ ५८ ॥ इदानीं मृषावादपरिहारे अन्वयव्यतिरेकाभ्यां कालिकाचार्य वसुराजौ दृष्टान्तावाहब्रूयाभियोपरोधादा नासत्यं कालिकार्यवत् । . यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ॥ ६० ॥ भिया मरणादिभयेन, उपरोधाद्दाक्षिण्यादसत्यं न ब्रूयात् । यस्तु ब्रूते भियोपरोधादा इत्यत्रापि संबन्धनीयं, दृष्टान्तौ संप्रदायगम्यो। स चायम् । अस्ति भूरमणीमौलिमणिस्तुरमणी पुरी। यथार्थनामा तत्रासीज्जितशत्रुमहीपतिः ॥ १ ॥ रुद्रेति नामधेयेन ब्राह्मणी तत्र विश्रुता । दत्त इत्यभिधानेन तस्याः पुत्रो बभूव च ॥ २ ॥ दत्तो नितान्तदुर्दान्तो द्यूतमद्यप्रियः सदा । सेवितुं तं महीपालं प्रवृत्तो वर्तनेच्छया ॥ ३ ॥ राज्ञा प्रधानीचक्रेऽसौ छायावत्यारिपार्खकः । आरोहायोपसर्पन्त्या विषवल्लेरपि द्रुमः ॥ ४ ॥ Page #93 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । . २८१ विभेद्य प्रकतोरष राजानं निरवासयत् । पापात्मानः कपोताच खायोच्छेददायिनः ॥ ५ ॥ तस्य राज्ञो दुरात्माऽसौ राज्ये खयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि कामत्युच्छीर्षकावधि ॥ ६ ॥ पशुहिंसोत्कटान् यज्ञानज्ञो धर्मधिया व्यधात् । धूमैर्मलिनयन् विखं समूर्त्तरिख पातकः ॥ ७ ॥ विहरन् कालिकार्याख्यश्चाचार्यस्तस्य मातुलः ।। तत्राजगाम भगवानङ्गवानिव संयम: ॥ ८॥ तत्समीपमनापित्सुर्दत्तो मिथ्यात्वमोहितः । अत्यर्थं प्रार्थितो मात्रा मातुलाभ्यर्णमाययौ ॥ ८ ॥ मत्तोन्मत्तप्रमत्ताभी दत्तोऽपृच्छत्तमुटम् । . आचार्य यदि जानासि यज्ञानां ब्रूहि किं फलम् ॥ १० ॥ उवाच कालिकाचार्यो धर्म पृच्छसि तच्छृण । तत्परस्य न कर्तव्यं यद्यविप्रियमात्मनः ॥ ११ ॥ ननु यत्रफलं पृच्छामीति दत्तोदिते पुनः । सूरिरूचे न हिंसादि श्रेयसे किन्तु पाप्मने ॥ १२ ॥ पुनस्तदेव साचे पृष्टो दत्तेन दुर्धिया। ससौष्ठवमुवाचार्यो यज्ञानां बरकः फलम् ॥ १३ ॥ दत्तः क्रुद्धोऽभ्यधादेवमिह कः प्रत्ययो वद । आर्योऽप्यूचे खकुम्भयां त्वं पक्ष्यसे ससमेऽहनि ॥ १४ ॥ दत्तः कोपादुदस्तधूररुणोक्कतलोचनः । भूताविष्ट इवोवाच प्रत्ययोऽत्रापि को ननु ॥ १५ ॥ Page #94 -------------------------------------------------------------------------- ________________ २८२ योगशास्त्रे अथोचे कालिकार्योऽपि खकुम्भी पचनात्पुरः । तस्मिन्नेवागाकस्मात्ते मुखे विष्ठा प्रवेक्ष्यति ॥ १६ ॥ रोषाद् दत्ती जगादेदं तव मृत्युः कुतः कदा । न कुतोऽपि स्वकाले द्यां यास्यामीत्यवदन्मुनिः ॥ १७ ॥ अमुं निरुन्ध दुर्बुद्धिमिति दत्तेन रोषतः । आदिष्टैः कालिकाचार्यो रुरुधे दण्डपूरुषैः ॥ १८ ॥ अथ दत्तात् समुहिग्नाः सामन्ताः पापकर्मणः । आह्ववाद्यं नृपं तस्मै दत्तमर्पयितुं किल ॥ १८ ॥ दत्तोऽपि शङ्गितस्तस्थौ निलीनो निजवेश्मनि। . कण्ठोरवरवत्रस्तो निकुञ्ज इव कुञ्जरः ॥ २० ॥ स विस्मृतदिनो दैवादागते सप्तमे दिने । बहिनिर्गन्तुमार राजमार्गानरक्षयत् ॥ २१ ॥ तत्रैको मालिकः प्रातर्विशन् पुष्य करण्डवान् । चक्रे वेगातुरो विष्ठां भीतः पुष्पैः प्यधत्त च ॥ २२ ॥ इहाहनि हनिष्यामि पशुवन्मुनिपांसनम् । चिन्तयन्निति दत्तोऽपि निर्ययौ सादिभिर्वृतः ॥ २३ ॥ एकेन वलाताऽश्वेन विष्ठोक्षिप्ता खुरेण सा । दत्तस्य प्राविशच्चास्ये नासत्या 'यमिनां गिरः ॥ २४ ॥ शिलास्फालितवत्सद्यः श्लथाङ्गो विमनास्ततः । स सामन्ताननाच्य ववले स्वग्रहं प्रति ॥ २५ ॥ (१) क ख ग छ यतिनाम् । Page #95 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । नाऽस्मन्मन्त्रोऽमुना ज्ञात इति प्रकतिपूरुषैः ।। एहमप्रविशन्नेव बडा दः स गौरिव ॥ २६ ॥ अथ प्रकाशयंस्तेजो निजं राजा चिरन्तनः । प्रादुरासीत्तदानीं स निशात्यय इवार्यमा ॥ २७ ॥ सोऽहिः करण्डनिर्यात इव दूरं ज्वलन् क्रुधा । दत्तं खकुम्भमां नरककुम्भवामिव तदाऽक्षिपत् ॥ २८ ॥ अधस्तात्ताप्यमानायां कुम्भमां खानोऽन्तरा स्थिताः । दत्तं विदद्रुः परमाधार्मिका इव नारकम् ॥ २८ ॥ निरस्तभूपालभयोपरोधः श्रीकालिकाचार्य इवैवमुच्चैः । सत्यव्रतत्राणकतप्रतिज्ञो न जातु भाषेत मृषा मनीषी ॥३०॥ ॥ इति कालिकाचार्यदत्तकथानकम् ॥ अस्ति चेदिषु विख्याता नाम्ना शक्तिमती पुरी। शुक्तिमत्याख्यया नद्या नर्मसख्येव शोभिता ॥ १ ॥ . पृथ्वीमुकुटकल्पायां तस्यां तेजोभिरगुतः । माणिक्य मिव पृथ्वीशोऽभिचन्द्रो नामतोऽभवत् ॥ २ ॥ . सूनुः सूनृतवातस्य वसुरित्यभिधानतः । अजायत महाबुद्धिः पाण्डोरिव युधिष्ठिरः ॥ ३ ॥ पाखें क्षीरकदम्बस्य गुरोः पर्वतकः सुतः । राजपुत्रो वसुच्छात्रो नारदश्चापठस्त्रयः ॥ ४ ॥ सौधोपरि शयानेषु तेषु पाठश्रमानिशि । चारणश्रमणौ व्योम्नि यान्तावित्यूचतुर्मिथः ॥ ५ ॥ Page #96 -------------------------------------------------------------------------- ________________ २८४ योगशास्त्रे एषामेकतम: खगं गमिष्यत्यपरी पुनः । नरकं यास्यतस्तञ्चाश्रौषोत्क्षौरकदम्बकः ॥ ६ ॥ तच्छुत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापक शिष्यौ यास्यतो नरकं हहा ॥ ७ ॥ एभ्यः को यास्यति स्वर्ग नरकं को च यास्यतः । जिज्ञासुरित्युपाध्यायस्तांस्त्रीन् युगपदाह्नत ॥ ८ ॥ यावपूर्ण समप्य॒षामेकैकं पिष्टकुक्कुटम् । स ऊचेऽमी तत्र वध्या यत्र कोऽपि न पश्यति ॥ ६ ॥ वसुपर्वतको तत्र गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव जघ्नतुः पिष्टकुक्कुटो ॥ १० ॥ महात्मा नारदस्तत्र व्रजित्वा नगराबहिः । स्थित्वा च विजने देशे दिश: प्रेक्ष्य व्यतर्कयत् ॥ ११ ॥ गुरुपादैरदस्तावदादिष्टं वत्स यत्त्वया । वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति ॥ १२ ॥ असो पश्यत्यहं पश्याम्यमी पश्यन्ति खेचरा: । लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ १३ ॥ नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तगुरुगिरां न वध्यः खलु कुक्कुटः ॥ १४ ॥ गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतबियतमादिशन् ॥ १५ ॥ विमृश्यैवमहत्वैव कुक्कुटं स समाययो। कुक्कुटाहनने हेतुं गुरोयज्ञपयच्च तम् ॥ १६ ॥ Page #97 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। २८५ स्वर्ग यास्यत्यसौ तावदिति निश्चित्य सस्वजे। ' गुरुणा नारदः नेहात् साधु साध्विति भाषिणा ॥ १७ ॥ वसुपर्वतको पश्चादागत्यैवं शशंसतुः । निहतौ कुक्कुटौ तत्र यत्र कोऽपि न पश्यति ॥ १८ ॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुकुटौ रे पापावित्यशपगुरुः ॥ १८ ॥ ततः खेदादुपाध्यायो दध्यौ विध्यातपाठधीः। मुधा मेऽध्यापनक्लेशो वसुपर्वतयोरभूत् ॥ २० ॥ गुरूपदेशो हि यथापात्रं परिणमेदिह । अधाम्भ: स्थानभेदेन मुक्तालवणतां व्रजेत् ॥ २१ ॥ प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माइहवामेन किं मम ॥ २२ ॥ निर्वेदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः ॥ २३ ॥ भूत्वा गुरोः प्रसादेन सर्वशास्त्रविशारदः । नारदः शारदाम्भोदशुद्धधीः खां भुवं ययौ ॥ २४ ॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चासीहसू राजा वासुदेवसमः श्रिया ॥ २५ ॥ सत्यवादीति स प्राप प्रसिद्धिं पृथिवीतले । तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः ॥ २६ ॥ अथैकदा मृगयुगा मृगाय मृगयाजुषा । चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तरा ऽस्खलत् ॥ २७ ॥ Page #98 -------------------------------------------------------------------------- ________________ योगशास्त्रे इषुस्खलनहेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलामन्नासोत्पाणिना स्पृशन् ॥ २८ ॥ स दध्याविति मन्येऽस्यां संक्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशौ ददृशे हरिणो मया ॥ २८ ॥ पाणिस्पर्श विना नेयं सर्वथाऽप्युपलक्ष्यते । अवश्यं तदसौ योग्या वसोर्वसुमतीपतेः ॥ ३० ॥ रहो व्यज्ञपयद्राने गत्वा तां मृगयुः शिलाम् । दृष्टो राजाऽपि जग्राह ददौ चास्मै महदनम् ॥ ३१ ॥ स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नात्मीयाः कस्यचिबृपाः ॥ ३२ ॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः ॥ ३३ ॥ सत्याधि तुष्टाः सानिध्यमस्य कुर्वन्ति देवताः । एवमूर्जखिनी तस्य प्रसिद्धिानशे दिशः ॥ ३४ ॥ तया प्रसिद्ध्या राजानो भौतास्तस्य वशं गताः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ ३५ ॥ आगाच्च नारदोऽन्येद्युस्ततश्चैक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषौजुषाम् ॥ २६ ॥ अजैर्यष्टव्य मित्यस्मिन् मेषैरित्युपदेशकम् । बभाष नारदो भ्रातात्या किमिदमुच्यते ॥ ३७॥ .. . (१) क ग छ ययुः। Page #99 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । २८७ त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना ॥ ३८ ॥ ततः पर्वतकोऽवादोदिदं तातेन नोदितम् । . उदिताः किं त्वजा मेषास्तथैवोक्ता निघण्टुषु ॥ ३८ ॥ जगाद नारदोऽप्येवं शब्दानामर्थकल्पना । मुख्या गौणी च तत्रह गौणों गुरुरचौकथत् ॥ ४० ॥ गुरुचर्मोपदेष्टैव श्रुतिईर्मास्मिकैव च। हयमप्यन्यथाकुर्वन्मित्र मा पापमर्जय ॥ ४१ ॥ साक्षेपं पर्वतोऽजल्पदजान्मेषान् गुरुजंगी। गुरूपदेशशब्दार्थोल्लङ्घनाद्धर्ममर्जसि ॥ ४२ ॥ मिथ्याभिमानवाचो हि न स्युर्दण्डभयावृणाम् । स्वयक्षस्थापने तेन जिह्वाच्छेदः पणोऽस्तु नः ॥ ४३ ॥ प्रमाणमुभयोरत्र सहाध्यायी वसुनृपः । नारदः प्रतिपदे तन्न क्षोभ: सत्यभाषिणाम् ॥ ४४ ॥ रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यश्रौषं भवत्पितुः ॥ ४५ ॥ जिह्वाच्छेदं पणऽकार्षीयद्दत्तिदसाम्प्रतम् | अविमृश्य विधातारो भवन्ति विपदां पदम् ॥ ४६ ॥ अवदत्पर्वतोऽप्येवं कृतं तावदिदं मया । यथा तथा कृतस्याम्ब करणं न हि विद्यते ॥ ४७ ॥ (१) क ग च छ ड साक्षेपः। (२) ख तदुरीचक्रे न । Page #100 -------------------------------------------------------------------------- ________________ २८८ योगशास्त्रे साऽथ पर्वतकापायपीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ॥ ४८ ॥ दृष्टः क्षीरकदम्बोऽद्य यदम्ब त्वमसोक्षिता । किं करोमि प्रयच्छामि किं चेत्यभिदधे वसुः ॥ ४८ । साऽवादीद्दीयतां पुत्रभिक्षा मह्यं महीपते ।। धनधान्यैः किमन्यै विना पुत्रेण पुत्रक ॥ ५० ॥ वसुरूचे मम मातः पाल्यः पूज्यश्च पर्वतः । गुरुवहुरुपुत्रेऽपि वर्तितव्यमिति श्रुतेः ॥ ५१ ॥ कस्याद्य पत्रमुत्क्षिप्तं कालेनाकालरोषिणा। को जिघांसुर्धातरं मे ब्रूहि मातः किमातुरा ॥ ५२ ॥ अजव्याख्यानवृत्तान्तं स्वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्वासोत्याख्यायार्थयते स्म सा ॥ ५३ ॥ कुर्वाणो रक्षणं भातुरजान्मेषानुदीरय । प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ॥ ५४ ॥ अवोचत वसुर्मातर्मिथ्या वच्मि वचः कथम् । प्राणात्ययेऽपि शंसन्ति नासत्यं सत्यभाषिणः ॥ ५५ ॥ अन्यदप्यभिधातव्यं नासत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ॥ ५६ ॥ वधं कुरु गुरोः सूनुं यहा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्दचोऽमस्त पार्थिवः ॥ ५७ ॥ (१) च ड श्रुतिः । (१) ख ग च छ ड बहू कुरु । Page #101 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। २८८ ततः प्रमुदिता क्षीरकदम्बग्रहिणी ययौ। आजग्मतुश्च विद्वांसो तत्र नारदपर्वतो॥ ५८ ॥ सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः । वादिनोः सदसहादक्षीरनीरसितच्छदाः ॥ ५८ ॥ आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलञ्चक्रे नभस्तलमिवोडुपः ॥ ६ ॥ ततो निजनिजव्याख्यापक्ष नारदपर्वतौ । कथयामासतू राजे सत्यं ब्रूहीति भाषिणौ ॥ ६१ ॥ विप्रबैरथोचे स विवादस्त्वयि तिष्ठते। प्रमाणमनयोः साक्षी त्वं रोदस्थोरिवार्यमा ॥ ६२ ॥ घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याइर्षति पर्जन्यः सत्यासियन्ति देवताः ॥ ६३ ॥ त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते । त्वामिहार्थे ब्रूम है किं ब्रूहि सत्यव्रतोचितम् ॥ ६४ ॥ वचोऽश्रुत्वैव तत्सत्यप्रसिद्धिं स्वां निरस्य च।। अजान्मेषान् गुराख्यदिति साक्ष्यं वसुर्व्यधात् ॥ ६५ ॥ असत्यवचसा तस्य क्रुडास्तत्रैव देवताः । दलयामासुराकाशस्फटिकासनवेदिकाम् ॥ ६६ ॥ वसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकपातं प्रस्तावयन्त्रिव ॥ ६ ॥ कूटसाक्ष्यं प्रदातस्ते खपचस्येव को मुखम् । पश्येदिति वसुं निन्दबारदः स्वास्पदं ययौ ॥ ६८ ॥ . Page #102 -------------------------------------------------------------------------- ________________ ३०० योगशास्त्रे देवताभिरसत्योक्तिकुपिताभिर्निपातितः । जगाम घोरं नरकं नरनाथो वसुस्ततः ॥ ६८ ॥ यो यः सूनुरुपाविचद्राज्ये तस्यापराधिनः । प्रजघ्नुर्देवतास्तं तं यावदष्टौ निपातिताः ॥ ७० ॥ इति वसुनृपतेरसत्यवाचः फलमाकर्ण्य जिनोक्तिविद्धकर्णः । कथमप्युपरोधतोऽपि जल्पे दनृतं प्राणितसंशयेऽपि नैव ॥ ७१ ॥ ६० ॥ ॥ इति नारदपर्वतकथानकम् ॥ सङ्ख्यो हितं सत्यमिति व्युत्पत्त्या अवितथमपि परपीडाकरं वचनमसत्यमेवाहितत्वादिति सत्यमपोदृशं न भाषेतेत्याह न सत्यमपि भाषेत परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ॥ ६१॥ सत्यमवितथं लोकरूढ्या परमार्थतस्तु परपीडाकरत्वादसत्यमेवेत्यर्थः, तन्न भाषेत ; तद्भाषणान्नरकगमनश्रुतेः । अत्रार्थे लौकिकं दृष्टान्तमाह लोकेऽपि समयान्तरेऽपि श्रूयते निशम्यते परपीडाकरसत्यभाषणेन कौशिको नरकं गत इति । कौशिकस्तु संप्रदायगम्य: ; स चायम् - Page #103 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । आसीत्सत्यधनः कोऽपि कौशिको नाम तापसः । अपास्य ग्रामसंवासमनुगङ्गमुवास सः ॥ १ ॥ कन्दमूलफलाहारो निर्ममो निष्परिग्रहः । सत्यवादितया प्राप प्रसिद्धिं परमामसौ ॥ २ ॥ मुषित्वा ग्राममन्येद्युर्दस्यवस्तस्य पश्यतः । आश्रमं निकषा जग्मुर्वनं बिलमिवोरगाः ॥ ३ ॥ तेषामनुपदिनस्तु ग्राम्याः पप्रच्छुरेत्य तम् । सत्यवाद्यसि तद्ब्रूहि तस्कराः कुत्र वव्रजुः ॥ ४ ॥ धर्मतत्त्वानभिज्ञोऽथ कथयामास कौशिकः । 'घने तरुनिकुजेऽस्मिन् दस्यवः प्राविशन्निति ॥ ५ ॥ तस्योपदेशात्सन्नह्य ग्रामीणाः शस्त्रपाणयः । वनं प्रविश्य निर्जघ्नुर्दस्यून् व्याधा मृगानिव ॥ ६ ॥ ऋतमप्यनृतं परव्यथाकरणेनेदमुदीरयन् वचः । परिपूर्य निजायुरुत्वणं नरकं कौशिकतापसो ययौ॥७॥६१॥ अल्पमप्यसत्यवचनं प्रतिषेधितुं महदसत्यं वदतः परिदेवयते— ३०१ अल्पादपि मृषावादाद्रौरवादिषु संभवः । अन्यथा वदतां जैनौं वाचं त्वहह का गतिः ॥ ६२ ॥ अल्पादप्यैहिकार्थविषयत्वेन स्तोकादपि मृषावादादसत्याद्रौरवादिषु रौरवमहारौरवप्रभृतिषु नरकवासेषु संभव उत्पत्ति: लोकप्रसिडत्वाद्रौरवग्रहणम् । अन्यथा सर्वनर केष्वित्युच्येत । अन्यथा ( १ ) चड मे । . Page #104 -------------------------------------------------------------------------- ________________ ३०२ योगशास्त्रे विपरीतार्थतया जैनौं वाचं वदतामतीवासत्यवादिनां कुतीथिकानां खयूथ्यानां च निङ्गवादीनां का गतिर्नरकादप्यधिका तेषां गतिः प्राप्नोतीत्यर्थः । अहहेति खेदे अशक्यप्रतीकाराः परिदेवनीया: खल्वेत इति । यदाह 'अहह सयलनपावाहिं वितहपत्रवणमणुमवि दुरंतं । ज मिरिइभवतदज्जियदुक्यअवसेसलेसवसा ॥ १ ॥ सुरथुयगुणोवि तित्थंकरोवि तिहुयणअतुल्लमल्लोवि । गोवाइहिं वि बहुसो कअस्थिो तिजयपहुत्तंसि ॥ २ ॥ थीगोबंभणभूणंतगा वि केवि इह दिढपहाराई । बहुपावावि पसिद्धा सिद्धा किर तम्मि चेव भवे ॥३॥६२॥ असत्यवादिनो निन्दित्वा सत्यवादिन: स्तौतिज्ञानचारित्रयोर्मलं सत्यमेव वदन्ति ये । धात्री पवित्री क्रियते तेषां चरणरेणुभिः ॥ ६३ ॥ ज्ञानचारित्रयो नक्रिययोर्मूल कारणं यत्सत्यं तदेव वदन्ति ये (१) अहह सकलान्य पापेभ्यो वितथ प्रज्ञापनमवपि दुरन्तम् । यन्मरीचिभवतदर्जितदुष्कृतावशेषलेशवशात् ॥ १ ॥ (२) सुरस्तुतगुणोऽपि तीर्थंकरोऽपि त्रिभुवनातल्यमल्लोऽपि । गोपादिभिरपि बहुशः कर्थितः त्रिजगत्प्रभुस्वमसि ॥ २ ॥ (३) स्त्रीगोब्राह्मणभूणान्तका अपि केऽपि दृढप्रहायर्यादयः । बज पापा अपि प्रसिद्धाः सिद्धाः किल तस्मिन्नेव भवे ॥ ३ ॥ Page #105 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ज्ञानचारित्रग्रहणं "नाणकिरियाहिं मोक्यो' इति भगवद्भाष्यकारवचनानुवादार्थ ज्ञानग्रहणेन दर्शनमप्याक्षिप्यते। दर्शनमन्तरेण ज्ञानस्याज्ञानत्वात् । मिथादृष्टिहि सत्त्वासत्त्वे वैपरीत्येन जानाति, भवहेतुश्च तज्ज्ञानं यदृच्छया चार्थनिरपेक्ष मुपलभ्यते न च ज्ञानफलमस्य । यदाह सयसयविमेसणाश्री भवहेउं जइच्छोपलंभालो। नाणफलाभावाओ मिच्छदिहिस्स असाणं ॥ १ ॥ स्पष्टमन्यत् ॥ ६३ ॥ . सत्यवादिनामैहिकमपि प्रभावं दर्शयतिअलीकं ये न भाषन्ते सत्यव्रतमहाधनाः । नापराडुमलं तेभ्यो भूतप्रेतोरगादयः ॥ ६४ ॥ भूता भूतोपलक्षिता व्यन्तरा: प्रेताः पितरो ये वसंबन्धिनो मनुष्यान् पीडयन्ति भूतप्रेतग्रहणं भुवनपत्यादीनामुपलक्षणार्थम् । उरगा सर्पाः आदि ग्रहणाट व्याघ्रादीनां परिग्रहः । अत्रान्तरे श्लोकाः अहिंसापयस: पालिभूतान्यन्यव्रतानि यत् । सत्यभङ्गात्पालिभङ्गेऽनर्गलं विप्लवेत तत् ॥ १ ॥ (१) “ज्ञानक्रियाभ्यां मोक्षः" (२) सदसदविशेषणात् भवहेतुर्यदृच्छोपलम्भात् । ज्ञानफलाभावान मिथ्याहटेर ज्ञानम् ॥ १ ॥ Page #106 -------------------------------------------------------------------------- ________________ ३०४ योगशास्त्रे सत्यमेव वदेत्प्राज्ञः सर्वभूतोपकारकम् । यद्दा तिष्ठेत् समालम्बा मौनं सर्वार्थसाधकम् ॥ २ ॥ पृष्टेनापि न वक्तव्यं वचो वैरस्य कारणम् । मर्मावित्कर्कशं शङ्कास्पदं हिंस्रमसूयकम् ॥ ३ ॥ धर्मध्वंसे क्रियालोपे स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन वक्तव्यं तं निषेधितुम् ॥ ४ ॥ चार्वाकै: कौलिकेर्विप्रैः सौगतैः पाञ्चरात्रिकैः । असत्येनैव विक्रम्य जगदेतद्विडम्बितम् ॥ ५ ॥ अहो पुरजलस्रोतःसोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः पङ्काकुलजलोपमाः ॥ ६ ॥ दावानलेन ज्वलता परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं नतु दुर्वचनाग्निना ॥ ७ ॥ चन्दनं चन्द्रिकाचन्द्रमण्यो मौक्तिकस्रजः । आह्लादयन्ति न तथा यथा वाक् सूनृता नृणाम् ॥ ८ ॥ शिखी मुण्डो जटो नग्नश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥ ८ ॥ एकत्रासत्यजं पापं पापं निःशेषमन्यतः । इयोस्तुलाविष्धृतयोराद्यमेवातिरिच्यते ॥ १० ॥ पारदारिक दस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः प्रतीकारो न विद्यते ॥ १.१ ॥ कुर्वन्ति देवा अपि पक्षपातं नरेश्वराः शासनमुद्दहन्ति ॥ Page #107 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | शीतीभवन्ति ज्वलनादयो य `त्तत् सत्यवाचां फलमामनन्ति ॥ १२ ॥ ३०५ इति द्वितीयं व्रतम् ॥ ६४ ॥ इदानीं तृतीयमस्तेयव्रतमुच्यते । तत्रापि फलानुपदर्शनेन न स्तेयानिवर्त्तत इति फलोपदर्शपूर्वं स्तेय निवृत्तिमाहदौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ६५॥ दौर्भाग्यमुद्देजनीयता, प्रेष्यता परकर्मकरत्वं, दास्यमङ्गपातादिना परायत्तशरौरता, अङ्गच्छेदः करचरणादिच्छेदः, दरिद्रता निर्धनत्वं, एतानीहामुत्र चादत्तादानफलानि शास्त्रतों गुरुमुखाद्दा ज्ञात्वा स्थूलं चौरादिव्यपदेशनिबन्धनं स्तेयं विवर्जयेच्छ्रावकः ॥ ६५ ॥ स्थूलस्तेयपरिहारमेव प्रपञ्चयति पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत खं परकीयं क्वचित्सुधीः ॥ ६६ ॥ पतितं गच्छतो वाहनादेभ्रंष्टं विस्मृतं कापि मुक्तमिति स्वामिना यन्त्र स्मर्य्यते, नष्टं क्वापि गतमिति स्वामिना यन्त्र ज्ञावते, स्थितं स्वामिपार्श्वे यदवस्थितं, स्थापितं न्यासोक्कृतं हितं निधीकृतं, तदेवंविधं परकीयं खं धनमदत्तं सन्नाददीत कचिद्द्रव्यक्षेत्राद्यापद्यपि सुधीः प्राज्ञः ॥ ६६ ॥ ३८ Page #108 -------------------------------------------------------------------------- ________________ योगशास्त्रे इदानीं स्तेयकारिणो निन्दति • अयं लोकः परलोको धर्मो धैर्यं धृतिर्मतिः । मुष्णता परकीयं खं मुषितं सर्वमप्यदः ॥ ६७॥ परकोयं स्वं धनं मुष्णता अपहरता सर्वमप्यद एतत् स्वं स्वकीयं मुषितं स्वशब्दस्योभयत्र संबन्धात् । किं तदित्याह, अयं लोकः अयं प्रत्यक्षेणोपलभ्यमानो लोक इदं जन्मेत्यर्थः, परलोको जन्मान्तरं, धर्मः पुण्यं, धैर्यमापत्स्वप्यवैक्लव्यं, धृतिः स्वास्थ्यं, मतिः कृत्याक्कृत्यविवेकः ॥ ६७ ॥ ३०६ अथ हिंसाकारिभ्योऽपि स्तेयकारिणो बहुदोषत्वमाहएकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥ ६८ ॥ एकस्य नतु बहूनां, एक क्षणं नतु बहुकालं, दुःखमसातं, मार्यमाणस्य हिंस्यमानस्य, स्तेयकारिण त्वपहृते धने परस्य सपुत्रपौत्रस्य नत्वेकस्य, यावज्जीवं नत्वेकं क्षणं, दुःखं जायत इति संबन्धः ॥ ६८ ॥ उक्तमपि स्तेयफलं प्रपञ्चेनाह चौर्य पापद्रुमस्येह वधबन्धादिकं फलम् । जायते परलोके तु फलं नरकवेदना ॥ ६६॥ चौर्य्यात्पापं तदेव द्रुमस्तस्येह लोके फलं वधबन्धादिकं, परलोके तु फलं नरकभाविनी वेदना ॥ ६८ ॥ Page #109 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । अथ कदाचिप्रमादात् स्तेयकारी नृपतिभिर्न निग्रोत तथाप्यस्वास्थ्यलक्षणमैहिकं फलमवस्थितमेव इत्याह - दिवसे वा रजन्यां वा स्वप्ने वा जागरेऽपि वा। सशल्य इव चौर्येण नैति खास्था नरः क्वचित् ॥७॥ स्वप्नः स्वापः, जागरो निद्राया अभावः, चौर्येण हेतुना क्वचिदपि स्थाने ॥ ७० ॥ ___ न केवलं स्तयकर्तुः स्वास्थ्याभाव एव किन्तु बन्धुभिः परित्यागोऽपोत्याह मित्रपुत्रकलत्राणि भातरः पितरोऽपि हि। संसजन्ति क्षणमपि न म्लेच्छैरिव तस्करैः ॥७१॥ पिता जनक: पिटतुल्याः पितरः पिता च पितरश्च पितरः न संसजन्ति न मिलन्ति पापभयात् । यदाहुः ब्रह्महत्या सुरापाणं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुस्तसंसर्ग च पञ्चमम् ॥ १ ॥ राजदण्डभयादा। यदाहुः चौरश्चौरापको मन्त्री भेदन: काणकक्रयो। स्थानदो भक्तदश्चैव चौरः सप्तविधः स्मृतः ॥ १ ॥ तस्करैरिति । तदेव चौयं कुर्वन्तीत्येवंशीलास्तस्करास्तैः ॥ ७१ ॥ Page #110 -------------------------------------------------------------------------- ________________ योगशास्त्रे स्तेयप्रवृत्तानां तत्रिवृत्तानां च दोषान् गुणांश्च प्रत्येक दृष्टान्तहारेणाहसंबन्ध्यपि निगृह्येत चौर्यान्मण्डि कवन्नृपः । चौरोऽपि त्यक्तचौर्यः स्यात्वर्गभाग्रौहिणेयवत् ॥७२॥ दृष्टान्तहयमपि संप्रदायगम्यं सचायम् - अलब्धमध्यमम्भोधिरिवाम्भी बहुरत्नभूः । अस्तीह पाटलीपुत्रं नाम गौडेषु पत्तनम् ॥ १ ॥ कलाकलापनिलयः साहसस्यै कमन्दिरम् । . राजपुत्रो मूलदेवस्तत्र मूलं धियामभूत् ॥ २ ॥ स धूत विद्यैकधव: कपणानाथबान्धवः । कूटचेष्टामधुरिपू रूपलावण्यमन्मथः ॥ ३ ॥ चौर चौरः साधी साधुर्वके वक्र ऋजाजुः । ग्राम्ये ग्राम्यश्छेके च्छेको विटे विटो भटे भटः ॥ ४ ॥ द्यूतकार द्यूतकारो वार्तिके वार्त्तिकश्च सः । तत्कालं स्फटिकाश्मेव जग्राह पररूपताम् ॥ ५ ॥ चित्रैः कौतूहलैस्तत्र लोकं विस्माययनसौ। विद्याधर इव स्वैरं चचार चतुराग्रणीः ॥ ६ ॥ यतैकव्यसनाशक्तिदोषात्पित्राऽपमानित: । द्युसत्पुरश्रीजयिन्यामुज्जयिन्यां जगाम सः ॥ ७ ॥ गुलिकाया: प्रयोगेण स भूत्वा कुजवामनः । पौरान विस्माययंस्तत्र कलाभिः ख्यातिमासदत् ॥ ८ ॥ Page #111 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । तत्रासौद्रूपलावण्यकलाविज्ञानकौशलैः। .. दत्तनपा रतर्देवदत्तेति गणिकोत्तमा ॥ ८ ॥ गुण: कलावतां यो यः प्रकष्टा तत्र तत्र सा । छकाया रञ्जने तस्याः प्रतिच्छेको न कोऽप्यभूत् ॥ १० ॥ मूलदेवस्ततस्तस्याः क्षोभार्थ तगृहान्तिक । प्रभाते गातुमारेभे प्रत्यक्ष इव तुम्बुरुः ॥ ११ ॥ आकर्ण्य देवदत्ताऽपि कोऽप्येष मधुरो ध्वनिः । कस्येति विस्मयाद्दास्याऽन्वेषयामास तं बहिः ॥ १२ ॥ शशंसागत्य सा देवि गन्धर्वः कोऽपि गायति। . . मूत्यैव वामनः पूर्णेर्गुणैः पुनरवामनः ॥ १३ ॥ देवदत्ता ततः कुनां माधवौं नाम चेटिकाम् । प्रजिघाय तमाह्वातुं प्रायो वेश्याः कलाप्रियाः ॥ १४ ॥ सा गत्वा तं जगादेदं महाभाग कलानिधे। . देवदत्ता स्वामिनी मे त्वामाह्वयति गौरवात् ॥ १५ ॥ मूलदेवोऽवदगच्छ नागमिष्यामि कुझिके । कुट्टिनीवश्यवेश्यानां स्ववशो वेश्म को विशेत् ॥ १६ ॥ व्याघुटन्तीं विनोदेच्छुः कलाकौशलयोगतः । स आस्फाल्य ऋजूचक्रे तां कुनीमजनालवत् ॥ १७ ॥ वपुर्नवमिवासाद्य सानन्दा साऽपि चेटिका। उपत्य देवदत्तायै तच्चेष्टितमचौकथत् ॥ १८ ॥ देवदत्तवरेणेव देवदत्ताऽपि तेन ताम् । कुनामृतकृतां वीक्ष्य परमं प्राप विस्मयम् ॥ १८ ॥ Page #112 -------------------------------------------------------------------------- ________________ योगशास्त्रे देवदत्ता ततोऽवादीदीदृक्षमुपकारिणम् । निजाङ्गुलिमपि च्छित्त्वा तमेकच्छेकमानय ॥ २० ॥ ततो गत्वा समभ्यर्थ्य चाटुभिश्चतुरोचितैः । अचालि वेश्माभिमुखं धूर्तराजो भुजिष्यया ॥ २१ ॥ तया निर्दिश्यमानावा प्रविवेश निवेशनम् । ततोऽसौ देवदत्ताया राधाया इव माधवः ॥ २२ ॥ तं वामनमपि प्रेक्ष्य कान्तिलावण्यशालिनम् । सा मन्वाना सुरं छन्त्रमुपावेशयदासने ॥ २३ ॥ मिथो हृदयसंवादिसंलापसुभगा ततः । तयोः प्रवकृते गोष्ठौ तुल्यवैदग्धाशालिनोः ॥ २४ ॥ अथाऽऽगात्तत्र कोऽप्येको वीणाकार: प्रवीणधीः । वोणामवीवदत्तेन देवदत्ताऽतिकौतुकात् ॥ २५ ॥ वल्लकी वादयन्तं च व्यक्तग्रामश्रुतिस्वराम् । धूनयन्ती शिरो देवदत्ताऽपि प्रशशंस तम् ॥ २६ ॥ स्मित्वाऽवदन्मूलदेवोऽप्य हो उज्जयिनीजनः । जानात्यत्यन्तनिपुणो गुणगुणविवेचनम् ॥ २७ ॥ साशङ्का साऽप्युवाचैवं किमत्र क्षणमस्त्य हो । छकश्छे कप्रशंसायामुपहासं हि शङ्कते ॥ २८ ॥ सीऽप्याचचक्षे किं चूणमस्ति क्वापि भवादृशाम् । सगर्भा किन्त्वसौ तन्त्री किञ्च वंशोऽपि शल्यवान् ॥ २८ ॥ कथं ज्ञायत इत्युक्तस्तयाऽऽदाय स वल्ल कीम् । वंशादश्मानमावष्य तन्त्रयाः केशमदर्शयत् ॥ ३० ॥ Page #113 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ३११ समारचय्य तां वीणां ततः खयमवादयत् । श्रोटकणेषु पीयूषच्छटामिव परिक्षिपन् ॥ ३१ ॥ देवदत्ताऽब्रवीद्रव सामान्यस्त्वं कलानिधे । नररूपं प्रपेदाना साक्षादसि सरस्वती ॥ ३२॥ वीणाकारश्चरणयोः प्रणिपत्ये त्यवोचत । खामिन् शिक्षे भवत्पाखें वीणावाद्यं प्रसौद मे ॥ ३३ ॥ मुलदेवो जगादैवं सम्यग् जानामि नह्यहम् । किन्तु जानामि तान् ये हि सम्यग् जानन्ति वल्ल कीम् ॥३४॥ के नाम ते क्क सन्तीति पृष्टोऽसौ देवदत्तया । अवोचदस्ति पूर्वस्यां पाटलीपुत्रपत्तनम् ॥ ३५ ॥ तस्मिन् विक्रमसेनोऽस्ति कलाचार्यो महागुणः । मूलदेवोऽहं च तस्य सदाप्यासन्नसेवकः ॥ ३६ ॥ अत्रान्तरे विश्वभूति ट्याचार्यः समागतः । साक्षाद्भरत इत्यस्मै कथितो देवदत्तया ॥ ३० ॥ मूलदेवोऽप्येवमूचे सत्यमेवायमोशः । ग्राहिताभिः कलां युष्मादृशीभिरपि लक्ष्यते ॥ ३८ ॥ विश्वभूतिरुपक्रान्ते विचारे भारत ततः । तं खर्व इत्यवाज्ञासीहाह्यार्थज्ञा हि तादृशाः ॥ ३८ ॥ मेने च धूर्तराजन विहन्मान्ययमस्य तत् । ताम्रस्वर्णालङ्करणस्येवान्तर्दयाम्यहम् ॥ ४० ॥ खच्छन्दं भरते तस्य गल्भमानस्य धूर्तराट् । पूर्वापरविरोधाख्यं व्याख्याने दोषमग्रहीत् ॥ ४१ ॥ Page #114 -------------------------------------------------------------------------- ________________ __ योगशास्त्रे विश्वभूतिस्ततः कोपादसंबद्धमभाषत । प्राज्ञैः पृष्टा ह्युपाध्यायाश्छादयन्त्यज्ञतां रुषा ॥ ४२ ॥ त्वमेवं 'नाटयेर्नाट्याचार्य नारीषु नान्यतः । हसितो मूलदेवेन तृष्णीकः सोऽप्यजायत ॥ ४३ ॥ स्मेराक्षी देवदत्ताऽपि पश्यन्ती वामनं मुदा । उपाध्यायस्य वैलक्ष्यमपनेतुमवोचत ॥ ४४ ॥ इदानीमुत्सुका यूयमुपाध्यायाः क्षणान्तरे । परिभाव्याभिधातव्यं प्रश्ने विज्ञानशालिनाम् ॥ ४५ ॥ देवदत्ते वयं यामो नाट्यस्यावसरोऽधुना। . सज्जस्व त्वमपीत्युक्त्वा विश्वभूतिस्ततो ययौ ॥ ४६ ॥ देवदत्ताऽप्यथादिक्षदावयोः मानहेतवे । अङ्गमर्दो निर्विमदं कश्चिदाहूयतामिति ॥ ४७ ॥ अजल्पडूतराजोऽपि व्याहार्बर्माऽङ्गमर्दकम् । सुधू यद्यनुजानासि तवाभ्यङ्गं करोमि तत् ॥ ४८ ॥ किमेतदपि वेत्सीति तयोक्त: प्रत्युवाच सः । न जानामि स्थित: किन्तु तज्ज्ञानामहमन्तिके ॥ ४८ ॥ आदेशाद्देवदत्तायाः पक्वतेलान्यथाययुः । अभ्यङ्ग कर्तुमारेभे स मायावामनस्ततः ॥ ५० ॥ मृदुमध्यदृढं स्थानौचित्यात् पाणिं प्रसारयन् । अङ्गे तस्या मूलदेवः सुखमद्दतमादधे ॥ ५१ ॥ (१) ख च ड छादये-। (२) च निर्विमर्दः । Page #115 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | सर्वार्थेषु कलादाच्यमोहग्नान्यस्य कस्यचित् । न सामान्योऽयमित्यंप्रोः पतित्वा साऽब्रवीदिति ॥ ५२ ॥ गुणैरपि त्वमाख्यातः कोऽप्युत्कृष्टः पुमानिति । मयूरव्यंसकात्मानं किं गोपयसि मायया ॥ ५३ ॥ प्रसीद दर्शयात्मानं किं मोहयसि मां मुहुः । भक्तानामुपरोधेन साचात्स्यर्देवता अपि ॥ ५४ ॥ आकृष्य गुलिकामास्याद् रूपं तत्परिवर्त्य सः । प्रतिपेदे निजं रूपं शैलूष इव तत्क्षणात् ॥ ५५ ॥ अनङ्गमिव जाताङ्गं तं लावण्यैक सागरम् । उद्दक्ष्य विस्मिता सोचे प्रसादः साधु मे कृतः ॥ ५६ ॥ तस्यापयित्वा स्नानोयं 'पोतं प्रीता खपाणिना । अङ्गाभ्यङ्गं व्यरचयद्देवदत्ताऽनुरागिणी ॥ ५७ ॥ खलिप्रक्षालनापूर्वं पिष्टातक सुगन्धिभिः । कवोष्णवारिधाराभिस्ततो दावपि सनतुः ॥ ५८ ॥ देवदूष्ये देवदत्तोपनीते पर्य्यधत्त सः । सुगन्ध्यान्यानि भोज्यानि बुभुजाते समं च तौ ॥ ५८ ॥ रहःकलारहस्यानि वयस्यीभूतयोस्तयोः । मिथः कथयतोरेकः क्षणः सुखमयो ययौ ॥ ६० ॥ ततः सा व्याजहारैवं हृतं मे हृदयं त्वया । गुणैर्लोकोत्तरैर्नाथ प्रार्थयेऽहं तथाऽप्यदः ॥ ६१ ॥ ४० ३१३ (१) च पानं प्रीत्या | Page #116 -------------------------------------------------------------------------- ________________ ३१४ योगशास्त्रे यथा पदमकार्षीत्वं हृदये मम सुन्दर | विदधीयास्तथा नित्यमस्मिन्नेव निकेतने ॥ ६२ ॥ मूलदेवोऽप्य॒वाचैवं निर्धनेषु विदेशिषु । अस्मादृशेषु युष्माकमनुबन्धो न युज्यते ॥ ६३ ॥ गुणानां पक्षपातेनानुरागो निर्धनेऽपि चेत् । वेश्यानामर्जनाभावात्कुलं सोदेत्तदाऽखिलम् ॥ ६४॥ बभाषे देवदत्ताऽपि को विदेशो भवादृशाम् । सर्वः स्वदेशो गुणिनां नृणां केसरिणामिव ॥ ६५ ॥ आत्मानमर्थयन्त्यर्थेर्मूर्खा हि बहिरेव नः । प्रवेशं न लभन्तेऽन्तविना त्वां गुणमन्दिर ॥ ६६ ॥ सर्वथा प्रतिपत्तव्यं त्वया सुभग मद्दचः । इत्युक्ते मूलदेवेनाप्यामेति जगदे वचः ॥ ६७ ॥ ततश्च क्रीडतोः स्नेहाद्दिनोदैर्विविधैस्तयोः । राजद्दाःस्थोऽब्रवीदेत्यागच्छ प्रेक्षाक्षणोऽधुना ॥ ६८ ॥ छन्नवेषं मूलदेवं सा नीत्वा राजवेश्मनि । राज्ञोऽग्रे नृत्यमारेभे रम्भेव करणोज्वलम् ॥ ६८ ॥ शक्रपाटहिकसमः पाटप्रकटने पटुः । मूलदेवोऽपि निपुणोऽवादयत्पटहं ततः ॥ ७० ॥ राजाऽरज्यत नृत्तेन तस्याः करणशालिना । प्रसादं मार्गयेत्यूचे तं च न्यासीचकार सा ॥ ७१ ॥ सा मूलदेवसहिता जगौ चानु ननर्त्त च । ददौ चास्यै नृपस्तुष्टः स्वाङ्गलग्नं विभूषणम् ॥ ७२ ॥ Page #117 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः 1 पाटलीपुत्रराजस्य राजदौवारिकस्ततः । हृष्टो विमलसिंहाख्य इत्युवाच महीपतिम् ॥ ७३ ॥ अयं हि पाटलीपुत्रे मूलदेवस्य धीमतः । कलाप्रकर्षोऽमुष्या वा न तृतीयस्य कस्यचित् ॥ ७४ ॥ ततः प्रदीयतां देव मूलदेवादनन्तरम् । विज्ञानिषु च पट्टोऽस्यै पताका नर्त्तकौषु च ॥ ७५ ॥ ततो राज्ञा तथा दत्ते साऽब्रवीदेष मे गुरुः । ततः प्रसादमादास्ये स्वामित्रस्याभ्यनुज्ञया ॥ ७६ ॥ राजाऽप्यवोचत्त दियं महाभागानुमन्यताम् । धूर्त्तोऽप्यवादीद्यद्देव श्राज्ञापयति तत्कुरु ॥ ७७ ॥ अत्नान्तरं धूर्त्तराजो वीणां स्वयमवादयत् । हरन्मनांसि विश्वेषां विश्वावसुरिवापरः ॥ ७८ ॥ ततो विमलसिंहेन बभाषे देव खल्वयम् । मूलदेवञ्छन्नरूपो नापरस्थेशी कला ॥ ७८ विज्ञानातिशयस्यास्य प्रयोक्ता नापरः क्वचित् । मूलदेवं विना देव सर्वथाऽसौ स एव तत् ॥ ८० ॥ राजा जगाद यद्येवं तदाहो स्वं प्रदर्शय । दर्शने मूलदेवस्य रत्नस्येवास्मि कौतुकी ॥ ८१ ॥ गुलिकां मूलदेवोऽपि मुखादाकृष्य तत्क्षणात् । व्यक्तोऽभूत्कान्तिमान्मेघनिर्मुक्त इव चन्द्रमाः ॥ ८२ ॥ साधु ज्ञातोऽसि विज्ञानिनिति सप्रेमभाषिण | ततो विमलसिंहेन धूर्त्तसिंहः स सखजे ॥ ८३ ॥ ३१५ Page #118 -------------------------------------------------------------------------- ________________ योगशास्त्रे 'अपतन्मूलदेवोऽपि नृदेवस्य पदाजयोः । राजाऽपि तं प्रसादेन सगौरवमपूजयत् ॥ ८४ ॥ एवं च देवदत्ताऽपि तस्मिन्नत्यनुरागिणी । पुरूरवस्युवंशीवान्वभूद्दिषयजं सुखम् ॥ ८५ ॥ अतिष्ठन्मूलदेवोऽपि न विना द्यूतदेवनम् । भवितव्यं हि केनापि दोषेण गुणिनामपि ॥ ८६ ॥ ययाचे देवदत्ताऽपि धिग् द्यूतं त्यज्यतामिति । नात्यजन्मूलदेवस्त प्रकृतिः खलु दुस्त्यजा ॥ ८७ ॥ तस्यां नगर्यामासोच्च धनेन धनदोपमः ।। सार्थवाहोऽचलो नाम मूर्त्याऽपर इव स्मरः ॥ ८८ ॥ आसक्तो देवदत्तायां मूलदेवाग्रतोऽपि सः । कृतस्वीकरणो भाव्या बुभुजे तां निरन्तरम् ॥ ८८ ॥ ईष्या स मूलदेवाय महतौं वहति स्म च । ' अन्विष्यति स्म तच्छिद्राण्युपद्रवचिकीर्षया ॥ ४० ॥ तच्छतया मूलदेवोऽप्यगात्तद्देश्मनि च्छलात् । पारवश्येऽप्यविच्छिन्नो रागः प्रायेण रागिणाम् ॥ ८१ ॥ देवदत्तां जनन्यूचे धूर्ततामृगधूर्त्तकम् । निर्धनं द्यूतकारं च मूलदेवं सुते त्यज ॥ ८२ ॥ प्रत्यहं विविधं द्रव्यं यच्छत्यस्मिन् रमस्व तत् । अचले निश्चलरती रम्भेव धनदात्मजे ॥ ८३ ॥ (१) च न्यपतन् । Page #119 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । देवदत्ता प्रत्युवाच मातरेकान्ततो ह्यहम् । धनानुरागिणी नास्मि किं त्वस्मि गुणरागिणी ॥ ८४ ॥ अमुष्य द्यूतकारस्य गुणास्तिष्ठन्ति कीदृशाः । इति कोपाजनन्योक्ता देवदत्तेत्यभाषत ॥ १५ ॥ धीरो वदान्यो विद्याविहुणरागी स्वयं गुणौ । विशेषज्ञः शरण्योऽयं नामुं त्यक्ष्यामि तत् खलु ॥ ८६ ॥ ततश्च कुटिनी रुष्टा कूटजुष्टा प्रचक्रमे । उच्चाटयितुं तनयां खैरिणी वैरिणीमिव ॥ ८७ ॥ साऽदात्तयाऽर्थिते माल्ये निर्माल्यं शरके पयः । इक्षुखण्डे वंशखण्डं श्रीखण्डे नीपखण्डलम् ॥ ८ ॥ सकोपं देवदत्तोता कुट्टिनी कुटिलाऽब्रवीत् । मा कुपः पुत्रि यादृक्षो यक्षस्तादृग्बलि: किल ॥२८॥ लतेव कण्टकितरं किमालम्बा स्थितास्यमुम् । सर्वथा मूलदेवं तत्त्यजापानमिमं पतिम् ॥ १० ॥ अवादीद्देवदत्तवं मात: किमिति मुह्यसि । पुमान् पात्रमपात्रं वा किमुच्येतापरीक्षितः ॥ १ ॥ परीक्षा क्रियतां तत्त्युक्ता साक्षेपमम्बया । मुदिता देवदत्तवमादिदेश ख वेटिकाम् ॥ २ ॥ यदिक्षी देवदत्ताया अभिलाषीऽद्य विद्यते। प्रेष्यन्तामिक्षव: सार्थवाहाचल ततस्त्वया ॥ ३ ॥ तयोक्त: सार्थवाहोऽपि धन्यमानी प्रमोदतः । शकटानीतुपूर्णानि प्रेषयामास तत्क्षणात् ॥ ४ ॥ । १ ॥ Page #120 -------------------------------------------------------------------------- ________________ ३१८ योगशास्त्र हृष्टा कुट्टिन्युवाचैवमचलस्वामिनो हले | अचिन्तनीयमौदार्यं पश्य चिन्तामणेरिव ॥ ५ ॥ विषमा देवदत्तोचे किमम्बाऽस्मि करेणुका । भक्षणायेक्षवः क्षिप्ता यत्समूलदलाग्रकाः ॥ ६ ॥ आदिश्यतां मूलदेवोऽप्यस्मिन्नर्थे भुजिष्यया । विवेके ज्ञायते मातर्द्दयोरपि यथाऽन्तरम् ॥ ७ ॥ मूलदेवोऽपि चेव्योक्त इक्षूनादाय पञ्चषान् । मूलाग्राणि त्यजन्मङ्गु निस्ततक्ष विचक्षणः ॥ ८ ॥ कठोरत्वेन दुश्चर्वपर्वग्रन्थोन् परित्यजन् । हाङ्गुला गण्डिकाश्चक्रे पीयूषस्येव कुण्डिकाः ॥ ८ ॥ चतुर्जातन संस्कृत्य कर्पूरेणाधिवास्य च । शूलप्रोता वर्द्धमानसंपुटे प्राहिगोत्स ताः ॥ १० ॥ देवदत्ताऽपि ताः प्रेक्ष्य बभाषे शम्भलीमिति । धूर्तेशाचलयो: पश्य स्वर्णरौर्योरिवान्तरम् ॥ ११ ॥ कुट्टिन्यचिन्तयदहो महामोहान्धमानसा | मृगोव मृगतृष्णाम्भो धूर्त्तमेषाऽनुधावति ॥ १२ ॥ स कोऽप्युपायः क्रियते येन निष्कास्यते पुरात् । प्रत्युष्णजलमेकेन बिलादिव महोरगः ॥ १३॥ कुट्टिनी मूलदेवस्योच्चाटनायाचलं जगौ । कर्त्तव्यः कृत्रिमो ग्रामगमनोपक्रमस्त्वया ॥ १४ ॥ ग्रामे यास्यामीत्यलीकं सार्थवाह त्वमञ्जसा । कथयेर्देवदत्ताया विश्रब्धा सा यथा भवेत् ॥ १५ ॥ Page #121 -------------------------------------------------------------------------- ________________ ३१८ हितीयः प्रकाशः । ततो ग्रामान्तरगतं श्रुत्वा त्वां धूर्तपांसनः । निःशङ्ख देवदत्तायाः स समीपमुपैष्यति ॥ १६ ॥ : देवदत्तान्तिके मूलदेवे दीव्यति निर्भरम् । आगच्छे: सर्वसामग्रमा मत्स तेन सुन्दर ॥ १७ ॥ ततस्तथा कथमपि त्वमेतमवमानयेः । यथैतां न भजयस्तित्तिरीमिव तित्तिरः ॥ १८ ॥ तत्तथा प्रतिपद्याथ यास्यामि ग्राममित्यसौ। प्राख्याय देवदत्ताया द्रव्यं दत्त्वा च निर्ययौ ॥ १८ ॥ ततस्तया निरातङ्गं मूलदेवे प्रवेशिते । आह्वास्त कुटिन्यचलं कुट्टाकभटवेष्टितम् ॥ २० ॥ देवदत्ता च सहसा प्रविशन्तं ददर्श तम् । मूलदेवं च खटाऽधो न्यधात्पनकरण्डवत् ॥ २१ ॥ तथास्थितं मूलदेवं कुट्टिन्या ज्ञापितोऽचलः । पर्यते कृतपर्यको निषसाद स्मिताननः ॥ २२ ॥ अवोचदचलस्तत्र कुर्वन् कैतवनाटितम् । देवदत्ते वयं श्रान्ताः स्नास्यामः प्रगुणीभव ॥ २३ ॥ देवदत्ताऽब्रवीदेवं विलक्षवितथस्मिता। मानयोग्यासने तर्हि नातुं पादोऽवधार्यताम् ॥ २४ ॥ एवमुत्थाप्यमानोऽपि सादरं देवदत्तया। विशेषतोऽभूत् खायामचलो निश्चलासन: ॥ २५ ॥ शशाक धूर्तराजोऽपि स्थातुं गन्तुं च नो तदा । प्रायेण विगलन्त्येवावस्थे मनसि शक्तयः ॥ २६ ॥ Page #122 -------------------------------------------------------------------------- ________________ ३२० __ योगशास्त्रे अवोचदचलो देवदत्ते स्वप्नो मयेक्षित: । पर्यङ्केऽस्मिन् कताभ्यङ्गः सचेलस्नातवानहम् ॥ २७ ॥ खप्नं सत्यापयिष्यामि तदर्थमहमागमम् । सत्यीकतो ह्ययं स्वप्रः शुभोदर्काय जायते ॥ २८ ॥ कुट्टिन्यवोचदादेश: प्रमाणं जीवितेशितुः । पुति किं न श्रुतं स्वामी यदिच्छति करोति तत् ॥ २८ ॥ देवदत्ताऽब्रवीदार्य किमेतदुचितं तव । अदृष्यदेवदूष्येयं तूलिका यहिनश्यति ॥ ३० ॥ अचलोऽप्यवदद्भद्रे कार्पण्यं किमिदं तव । शरीरमपि यच्छन्ति पत्यर्थे त्वादृशः स्त्रियः ॥ ३१ ॥ किं तेऽन्यास्तूलिका न स्युः पतिर्यस्याः किलाचलः । लवणेन स किं सौदेद्यस्य रत्नाकरः सखा ॥ ३२ ॥ ततो भाटीविवशया कारितो देवदत्तया । अभ्यङ्गोहर्तनादीनि पर्यशस्थित एव सः ॥ ३३ ॥ मप्यमाने ततस्तस्मिन्नौशे खलिजलादिना। मूलदेवश्चण्ड इव भ्रियते स्म समन्ततः ॥ ३४ ॥ आजुहावाचलभटान् कुटिनी दृष्टिसंज्ञया । निदिदेशाचलं चाशु धूर्ताकर्षणकर्मणे ॥ ३५ ॥ कोपाटोपसमाविष्टो मूलदेवं ततोऽचलः । चकर्ष धृत्वा केशेषु द्रौपदीमिव कौरव: ॥ २६ ॥ तं चोवाच नयज्ञोऽसि विहानसि सुधीरसि । कर्मणोऽस्यानुरूपोऽद्य ब्रूहि कस्तेऽस्तु निग्रहः ॥ ३७॥ Page #123 -------------------------------------------------------------------------- ________________ ३३१ . द्वितीयः प्रकाशः। ३२१ धनाधीनशरीरयं वेश्या तां चेद्रिरंससे । ग्रामपट्टकवद्भरिधनेन न किमग्रहीः ॥ ३८ ॥ मूलदेवोऽपि निष्पन्दस्तदा मुकुलितेक्षणः । विफलीभूतफालस्योदुवाह हौपिनस्तुलाम् ॥ ३८ ॥ एवं च चिन्तयामास सार्थवाहपतिस्ततः । न निग्राह्यो महात्माऽसौ दैवादेवं दशां गतः ॥ ४ ॥ इति चोवाच मुक्तोऽद्य त्वमस्मादागसो मया। कतज्ञोऽस्युपकर्त्तव्यं त्वयाऽपि समये मम ॥ ४१ ॥ मुक्तोऽथ तेन धूर्तेगो वेश्मतो निर्ययौ तत: । तूर्णं तूर्णं परिक्रामन् रणाद्भग्न इव हिपः ॥ ४२ ॥ गत्वा पुरीपरिसरे सत्रौ सरसि विस्तृते। . शरत्काल इव भेजे तत्क्षणात् क्षालिताम्बरः ॥ ४३ ॥ अचलस्यापकर्तु चोपकर्तुं च स धूर्तराट् । मनोरथरथारूढोऽचलहेणातटं प्रति ॥ ४४ ॥ हादशयोजनायामां स: खापदकुलाकुलाम् । दुर्दशाया: प्रियसखीमिव प्राप महाटवीम् ॥ ४५ ॥ पारावारमिवापारां तितीर्घस्तां महाटवीम् । सहायं चिन्तयामास तरण्ड मिव धूर्तराट् ॥ ४६ ॥ कस्मादप्यागतोऽकस्मादधादिव परिच्युतः । शम्बलस्थगिकां बिभ्रत्कोऽपि टक्को हिजस्तदा ॥ ४७ ॥ असहायः सहायीयं तं विप्रं क्षिप्रमागतम् । वृद्धो यष्टिमिव प्राप्य मूलदेवो मुदं ययौ ॥ ४८ ॥ ४१ Page #124 -------------------------------------------------------------------------- ________________ ३२२ योगशास्त्रे जगाद मूलदेवस्तं ममारण्ये प्रपतुषः । आत्मच्छायाद्वितीयस्य दिध्या मिलितवानसि ॥ ४८ ॥ स्वच्छन्दं वार्तयिष्यावस्तदावां द्दिजसत्तम । मार्गखेदापहरणी विद्या वार्ता हि या पथि ॥ ५० ॥ दूर कियति गन्तव्यं स्थाने जिगमिषा क्व ते । कथ्यतां भो महाभाग मार्गमैत्री वशी कुरु ॥ ५१ ॥ विप्रोऽप्याख्यहमिष्यामि पारऽरण्यमिव स्थितम् । स्थानं वीरनिधानाख्यं ब्रूहि त्वं कुत्र थास्यसि ॥ ५२ ॥ मूलदेवोऽब्रवीद्यास्याम्यहं वेणातटे पुरे। . विप्रोऽप्यूचे तदेहि त्वमेकोऽध्वा दूरमावयोः ॥ ५३ ॥ ललाटन्तपतपने मध्याह्नेथ समागते । मिलिताभ्यां च गच्छद्भयां ताभ्यां प्रापि महासरः ॥ ५४ ॥ पाणिपादमुखं मूलदेवः प्रक्षाल्य वारिणा । निरन्तरतरुच्छाये भूतले समुपाविशत् ॥ ५५ ॥ स्थगिकायाः समावष्य सक्तूनालोय वारिणा । एकोऽपि भोतमारेभे टक्को रङ्क इव द्रुतम् ॥ ५६ ॥ धूर्तोऽप्यचिन्तयदसौ नाऽऽदौ मे भोजनं ददौ । अतिक्षुधाऽऽतुरो भुङ्क्ते भुक्तः सन् खलु दास्यति ॥ ५७ ॥ भुक्त्वा तत्रोत्थिते विप्रे बध्नाति स्थगिकामुखम् । दध्यौ धूर्तोऽपि यद्यद्य नादात्तच्छः प्रदास्यति ॥ ५८ ॥ तस्मिन्नदत्त्वा भुञ्जाने मूलदेवस्तदाशया । त्रीवासरानगमयन्त्रणामाशा हि जीवितम् ॥ ५८ ॥ Page #125 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। अटवौं तां परित्यज्य धूर्तराजं हिजोऽवदत् । स्वस्ति तुभ्यं महाभाग यास्याम्यहमितोऽधुना ॥ ६ ॥ तमूचे मूलदेवोऽपि त्वत्साहाय्यादियं मया ।। द्वादशयोजनायामा क्रोशवल्लविताऽटवी ॥ ६१ ॥ वेणातरे गमिष्यामि मूलदेवाभिधोऽस्म्यहम् । तत्र मे कथये: कार्य कथ्यतां किं च नाम ते ॥ ६२ ॥ लोकैनिघृणशर्मेति विहितापरनामकः । विप्रोऽहं सद्दडो नामेत्यु वा टक्कस्ततो ययौ ॥ ६३ ॥ गच्छता मूलदेवेन ततो वेणातटं प्रति। दृष्टः संवसथः कश्चिद्वसदावसथः पथि ॥ ६४ ॥ प्रविष्टस्तत्र भिक्षार्थ क्षामकुक्षिर्बुभुक्षया। भ्रमत्रासादयामास कुल्माषान् कुत्रचिट्ट हे ॥ ६५ ॥ ग्रामानिष्कामतस्तस्याभिमुखः कोऽप्यभून्मुनिः । मासक्षपणपुण्यात्मा पुण्यपुञ्ज इवाङ्गवान् ॥ ६६ ॥ तं दृष्ट्वा मुदितः सोऽभूदहो मे सुक्रतोदयः । यन्मयाप्तमिदं पात्रं यानपात्रं भवोदधौ ॥ ६७ ॥ . साधोः कुल्माषदानेन रत्नत्रितयशालिनः । उन्मौलतु चिरादद्य मदिवेकतरोः फलम् ॥ ६८ ॥ कुल्माषान् साधवे दत्त्वा मूलदेवः पपाठ च । धन्यास्ते खलु येषां स्युः कुल्माषाः साधुपारण ॥ ६८ ॥ तस्य भावनया हृष्टा बभाष व्योम्नि देवता । अर्द्ध श्लोकेन याचस्व भद्र किं ते प्रदीयताम् ॥ ७० ॥ Page #126 -------------------------------------------------------------------------- ________________ ३२४ योगशास्त्रे प्रार्थयामास सद्यस्ता मूलदेवोऽपि देवताम् । गणिकादेवदत्तेभसहस्रं राज्यमस्तु मे ॥ ७१ ॥ एवम स्त्विति देव्यूचे मूलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्य भिक्षित्वा बुभुजे स्वयम् ॥ ७२ ॥ मार्ग कामन् क्रमेणासौ प्राप वेणातटं पुरम् । सुष्वाप पान्थशालायां निद्रामुखमवाप च ॥ ७३ ॥ यामिन्याः पश्चिमे यामे स सुप्तः स्वप्नमैक्षत । यत्पूर्ण मण्डलश्चन्द्रः प्रविवेश मुखे मम ॥ ७४ ॥ तमेव स्वप्नमद्राक्षोत्कोऽपि कार्पटिकस्तदा । अन्य कार्पटिकानां च प्रबुद्धस्तमचीकथत् ॥ ७५ ॥ तेषु कार्पटिकेष्वेकः स्वप्नमेवं व्यचारयत् । अचिरेण लप्सासे त्वं सखण्डतमण्डकम् ॥ ७६ ॥ दृष्टः कार्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि शृगालस्य महोत्सवः ॥ ७७ ॥ स्वप्नं नाचीकथत्तेषामज्ञानां धूर्तराट् निजम् । मूर्खा हि दर्शिते रत्ने दृषत्खण्डं प्रचक्षते ॥ ७८ ॥ मण्डकं कर्पटिः प्राप ग्रहाच्छादनपर्वणि । प्रायेण फलति स्वप्नो विचारस्यानुसारतः ॥ ७८ ॥ धूर्तोऽपि प्रातरारामे गत्वा पुष्पोच्चयादिना । अप्रीणान्मालिकं लोकंपृणं कर्मापि तादृशाम् ॥ ८ ॥ गृहीत्वा मालिकात्तस्मात्स पुष्पाणि फलानि च । शुचिर्भूत्वा ययो वेश्म स्वप्नशास्त्र विपश्चितः ॥ ८१ ॥ Page #127 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ३२५ मूलदेवस्ततो नत्वा दत्त्वा पुष्पफलानि च । उपाध्यायाय तजज्ञाय शशंस स्वप्नमात्मनः ॥ ८२॥ मुदित: सोऽवददिहावत्स स्वप्नफलं तव । सुमुहर्ते कथयिष्याम्यद्यास्माकं भवातिथिः ॥ ८३ ॥ मूलदेवं स्नपयित्वा भोजयित्वा च गौरवात् । . परिणाययितुं कन्यामुपाध्याय उपानयत् ॥ ८४ ॥ बभाषे मूलदेवोऽपि ताताऽज्ञातकुलस्य मे । कन्यां प्रदास्यसि कथं विचारयसि किं नहि ॥ ८५ ॥ उपाध्यायोऽप्युवाचैवं त्वन्माऽपि कुलं गुणाः । ज्ञातास्तत्सर्वथा कन्या ममेयं परिणीयताम् ॥ ८६ ॥ तहाचा मूलदेवोऽपि कन्यकां तामुपायत । कार्यसिडेभविष्यन्त्याः प्रादुर्भूतमिवाननम् ॥ ८७ ॥ — मध्ये दिनानां सप्तानां त्वं राजेह भविष्यसि । इति तस्य स्वप्नफलमुपाध्यायो न्यवेदयत् ॥ ८८ ॥ हृष्टस्तत्र वसन् धूर्तराजो गत्वा बहिः पुरात् । सुष्वाप चम्पकतले संप्राप्त पञ्चमेऽहनि ॥ ८ ॥ तदा च नगरे तस्मिन्नग्रेतनमहीपतिः । अपुत्रो निधनं प्राप निष्पाद इव पादपः ॥ ८ ॥ मन्त्रीक्षिताः पुरीभावच्छत्रभृङ्गारचामराः । भ्रमः प्रापुर्न राज्याहं दुष्यापस्तादृशो जनः ॥ ८१ ॥ ततो बहिः पर्यटन्तो निकषा चम्प कद्रुमम् । अपश्यन्मूलदेवं ते नरदेवपदोचितम् ॥ १२ ॥ हयेन हेषितं चक्रे गजेनोर्जितगर्जितम् । Page #128 -------------------------------------------------------------------------- ________________ योगशास्त्र भृङ्गारेण च तस्याऽर्घश्चामराभ्यां च वीजनम् ॥ २३ ॥ पुण्डरीकं स्वर्णदण्डमण्डितं तस्य चोपरि । शरदभ्रमिवादभ्रतडिद्दण्डमजृम्भत ॥ ८४ ॥ तं चाधिरोहयामास स्वस्कन्धे जयकुञ्जरः । खाम्याप्तिमुदितैलॊकैश्चक्रे जयजयारवः ॥ ८५ ॥ पुरं महातूर्यरवैः पूर्यमाणदिगन्तरम् । तप्राविशन्मूलदेवो राजराज इवालकाम् ॥ ८६ ॥ उत्तीर्णो राजहयेऽसौ सिंहासनमधिष्ठितः । समन्ततः समायातः सामन्तैरभ्यषियत ॥ ८७ ॥ अथो वे देवता व्योम्नि देवतानां प्रसादतः । अयं विक्रमराजाख्यो राजा जज्ञे कलानिधिः ॥ ८ ॥ वर्तिष्यन्ते न येऽमुष्य शासने क्षितिग्रासितुः । तानहं निग्रहीष्यामि महीभृत इवाशनिः ॥ ८ ॥ तगिरा विस्मितं भीतं सर्व प्रकृतिमण्डलम् । यतेरिवेन्द्रियग्रामः सदा तस्य वशेऽभवत् ॥ २०० ॥ ततः स राजा विषयसुखान्यनुभवन् व्यधात् ॥ प्रीतिमुज्जयिनौशेन मिथ: संव्यवहारतः ॥ १ ॥ तदानी देवदत्ताऽपि मूलदेवविडम्बनाम् । ताक्षी प्रेक्ष्य साक्षेपा व्यब्रवोदचलं प्रति ॥ २ ॥ किं ज्ञाता द्रव्यदर्पान्ध त्वया कुलहिण्यहम् । मुमूर्षो 'मूर्ख महेहे व्यवाहार्षीयंदीदृशम् ॥ ३ ॥ (१) क छ मूर्खबहे । Page #129 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। त्वयाऽस्मदीयसदने नागन्तव्यमतः परम् । इति निष्कास्य तं गेहात्समीपे नृपतेरगात् ॥ ४ ॥ तया च याचितो राजा स वरो दीयतामिति । यथेच्छं ब्रूहि यच्छामि तं येनत्यवदनृपः ॥ ५ ॥ सोचे मां प्रति नाज्ञाप्यो मूलदेवं विना पुमान् । वारणीयोऽचन्लश्चायमागच्छन्मम वेश्मनि ॥ ६ ॥ एवमस्त्विति राज्ञोक्ता हेतुः कोऽत्रेति पृष्टवान् । शशंस माधवी देवदत्ताभूसंज्ञया ततः ॥ ७ ॥ जितशत्रुनृपः कोपाञ्चलितधूलतस्ततः । सार्थवाहं तमाइय साक्षेपमिदमब्रवीत् ॥ ८॥ मत्युरीमण्डनावेतौ रत्नभूतावरे त्वया - ... मूर्खेण धनमत्तेन ग्रावणीव निर्षितौ ॥ ८॥ ततोऽमुष्थापराधस्य प्राणापहरणं तव । दण्डोऽस्त्विति नरेन्द्रीत देवदत्ता न्यवारयत् ॥ १० ॥ त्वं यद्यप्यनया नातोऽधुना वाणं तथापि ते । मूलदेवे समानीते भवेदित्यभ्यधावृपः ॥ ११ ॥ नृपं नत्वा ततो गत्वा सार्थवाहः प्रचक्रमे । नष्टरत्नमिवान्वेष्टुं मूलदेवं समन्ततः ॥ १२ ॥ मूलदेवमपश्यन् स भीतो न्यूनतया तया । भाण्डं भृत्वा ययौ शीघ्रं पारसकूलमण्डलम् ॥ १३ ॥ दध्यौ च मूलदेवोऽपि विना मे देवदत्तया । भोज्येनालवणेनेव प्राज्यराज्यश्रियाऽपि किम् ॥ १४ ॥ Page #130 -------------------------------------------------------------------------- ________________ ३२८ योगशास्त्रे ततः स देवदत्ताया जितशत्रीश्च भूपतेः । चतुरं प्रेषयामास दूतं प्राभृतसंयुतम् ॥ १५ ॥ गत्वोज्जयिन्यां दूतोऽपि जितशत्रु व्यजिज्ञपत् । देवतादत्तराज्यश्रीर्मूलदेवो वदत्यदः ॥ १६ ॥ यथा मे देवदत्तायां प्रेम जानीथ तत्तथा । यद्यस्यै रोचते वोऽपि तदियं प्रेष्यतामिति ॥ १७ ॥ ततोऽवददवन्तौशस्तेनेदं कियदर्थितम् । राजा विक्रमराजेन भेदो राज्येऽपि नास्ति नः ॥ १८ ॥ आकार्य देवदत्तां च जगादोज्जयिनीपतिः । . दिल्या जाताऽसि भद्रे त्वं चिरात् पूर्णमनोरथा ॥ १८ ॥ राजा जज्ञे मूलदेवो देवतायाः प्रसादतः । त्वामानेतुं च स प्रेषीप्रधानपुरुषं निजम् ॥ २० ॥ ततस्त्वं तत्र गच्छेति प्रसादाज्जितशत्रुणा। आदिष्टा देवदत्ताऽगाद्देणातटपुरं क्रमात् ॥ २१ ॥ राजा विक्रमराजोऽपि महोत्सवपुर:सरम् ।। खचेतसीव विपुले खवेश्मनि निनाय ताम् ॥ २२ ॥ जिना मर्चतस्तस्य सम्यक् पालयतः प्रजाः । दीव्यतो देवदत्तां च त्रिवर्गोऽभूदबाधितः ॥ २३ ॥ इतश्च पारसकूलाइह्वात्तकेयवस्तुकः । आययावचलस्तत्र जलपूर्ण इवाम्बुदः ॥ २४ ॥ लक्ष्मीमहत्वपिशुनैर्मणिमौक्तिकविद्रुमैः ।। भृत्वा विशाल स स्थालं महीनाथमुपास्थितः ॥ २५ ॥ Page #131 -------------------------------------------------------------------------- ________________ ३२८ हितीयः प्रकाशः । ३२८ अचलोऽयमिति क्षिप्रमुपलक्षितवान् नृपः ।। दृष्ट्वा प्राग्जन्मसम्बन्धमपि प्राज्ञाः स्मरन्ति हि ॥ २६ ॥ राजानं मूलदेवोऽयमित्यज्ञासौत्तु नाचल: । ... आत्तवेषं नटमपि स्थलप्रज्ञा न जानते ॥ २७॥ कुतस्त्वमिति राज्ञोक्त: पारसादित्युवाच सः । ययाचे पञ्चकुलं च भाण्डालोकनकर्मण ॥ २८ ॥ . कौतुकात्स्वयमेष्याम इत्युक्तो भूभुजा स तु। महाप्रसाद इत्यूचे कोपं को वेत्ति तादृशाम् ॥ २८ ॥ ततः पञ्चकुलोपेतो ययौ राजा तदाश्रये । मनिष्ठापट्टसूत्रादि सोऽपि भाण्डमदर्शयत् ॥ ३० ॥ भाण्डं किमियदेवेदं सत्यं ब्रूहीति भूभुजा। ' उक्त इत्युक्तवान् श्रेष्ठी सत्यमेतावदेव मे ॥ ३१ ॥ .. नृपेण पुनरप्यूचे सम्यग् ज्ञात्वा निवेदय । अस्मद्राज्ये शुल्क चौयां यच्छरीरेण निग्रहः ॥ ३२ ॥ अवोचदचलोऽप्येवमस्माभिः कथ्यतेऽन्यथा । पुरतो नापरस्यापि स्वयं देवस्य किं पुनः ॥ ३३ ॥ राजेत्युवाच ती स्य श्रेष्ठिनः सत्यभाषिणः । ... क्रियतामईदानं च सम्यग्भाण्डं च वीक्ष्यताम् ॥ ३४ ॥ ततः पञ्चकुलेनांहिप्रहाराइंशवेधतः । असारभाण्डमध्यस्थं सारभाण्डमशङ्कयत ॥ ३५ ॥ जाताशङ्खस्ततो राजपुंभिर्बिभिदिरे क्षणान् । शुल्कदस्युमनांसीव भाण्डस्थानानि सर्वतः ॥ ३६ ॥ ४२ Page #132 -------------------------------------------------------------------------- ________________ योगशास्त्रे तैर्यथा शङ्कितं भाण्डं वित्तशाठ्यं तथाऽभवत् । परपुरान्तःप्रवेशकारिणो ह्यधिकारिणः ॥ ३७ ॥ तज् ज्ञात्वा कुपितो राजा बन्धयामास तं क्षणात् । सामन्ता अपि बध्यन्ते राजादेशाद्दणिक कियान् ॥ ३८ ॥ ततस्तं सदने नीत्वा छोटयित्वा च बन्धनम् । ' किं मां प्रत्यभिजानासि पप्रच्छेति महीपतिः ॥ ३८ ॥ अचलोऽपि जगादेवं जगदुद्द्योतकारिणम् । भानुमन्तं भवन्तं च बालिशोऽपि न वेत्ति कः ॥ ४० ॥ पर्याप्तं चाटुवचनैः सम्यक् त्वं वेसि तहद । राजेत्युक्तोऽचलोऽवोचत्तर्हि जानामि नह्यहम् ॥ ४१ ॥ देवदत्तामथाहूय भूपतिस्तमदर्शयत् । इष्टदृष्टा कतार्था स्यान्मनःसिद्धिर्हि मानिनाम् ॥ ४२ ॥ देवदत्तामसौ दृष्ट्वा होत: कष्टां दशां ययौ।' अग्रे स्त्रापभाजना हि मृत्योरप्यधिका नृणाम् ॥ ४३ ॥ साऽप्यूचे मूलदेवोऽयमित्युक्तो यस्तदा त्वया । एवं कुर्या ममापि त्वं दैवायसनमीयुषः ॥ ४४ ॥ तदसि व्यसनं प्राप्त: प्राणसन्देहकारणम् । मुक्तोऽसि चार्य पुत्रेण नेदृक्षाः क्षुद्रघातिनः ॥ ४५ ॥ ततो विलक्ष: स वणिक् पतित्वा पादयोस्तयोः । जचे सर्वापराधान्मे तितिक्षध्वं तदा कृतान् ॥ ४६ ॥ रुष्टस्तेनापराधन जितशत्रुमहीपतिः । प्रवेशमुज्जयिन्यां मे युष्मदाचा प्रदास्यति ॥ ४७ ॥ Page #133 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । ३३१ प्रथोचे मूलदेवोऽपि मया क्षान्तं तदैव ते । यदा प्रसादो विदधे देव्या श्रीदेवदत्तया ॥ ४८ ॥ ततः प्रसादं दत्त्वोच्चै तमेकं समर्प्य च । पुरीमुज्जयिनी गन्तुं विससर्जाचलं नृपः ॥ ४ ॥ प्रवेशोऽवन्तिनाथन तस्यावन्त्यामदीयत। मूलदेवस्य वचसा कोपस्तम्भूल एव यत् ॥ ५० ॥ अन्येार्दुःखविधुराः प्रजाकार्यधुरन्धरम् । मिलित्वा वणिजो मूलदेवमेवं व्यजिज्ञपन् ॥ ५१ ॥ जाग्रत्यपि प्रजास्त्रातुं त्वयि देव दिवानिशम् । अमुष्यतेदं नगरं परितः परिमोषिभिः ॥ ५२ ॥ . कोला इव 'चिरं चौराः पुरऽस्मिन्मन्दिराणि नः । प्रतिक्षेपं खनन्त्युच्चै रक्षा रक्षितुं क्षमाः ॥ ५३ ॥ अदृश्यमानाः केनापि कृतसिद्धाञ्जना इव । भ्राम्यन्ति चौराः स्वैरं नो ग्रहेषु स्वग्रहेष्विव ॥ ५४ ॥ अचिरानिग्रहीष्यामि तस्करानयशस्करान् । मूलदेवोऽभिधायैवं वणिजो विससर्ज तान् ॥ ५५ ॥ आदिक्षनगराध्यक्षं साक्षेपं मापतिस्ततः । अन्विष्य तस्करान् सर्वान् यहाण निग्रहाण च ॥ ५६ ॥ प्रथोवाच पुराध्यक्षस्वामिन्नेकोऽस्ति तस्करः । असौ न शक्यते धत्तुं दृष्टनष्टः पिशाचवत् ॥ ५७ ॥ (१) ग च विभो। Page #134 -------------------------------------------------------------------------- ________________ . योगशास्त्रे : जातामर्षस्ततो राजा महौजा निर्ययौ निशि । नीलाम्बरप्रावरणो नीलाम्बर इवापरः ॥ ५८ ॥ स्थानेषु शङ्कास्थानेषु बभ्राम स्थामधाम सः । दस्युं कमपि नापश्यदहे: पदमिवाम्भसि ॥ ५८ ॥ स सर्व नगरं भ्रान्तः श्रान्तः सुष्वाप कुत्रचित् । खण्डदेवकुले शैलगुहायामिव केसरी ॥ ६ ॥ निशाचर इवाकस्मानिशाचरणदारुणः। . तस्कराग्रेसरस्तत्रोपासरन्मण्डिकाभिधः ॥ ६१ ॥ कोऽत्रेति व्याहरनुच्चैर्मलिम्लुचपतिस्ततः। रुष्टः सुप्तमिव व्यालं पदा नृपमघयत् ॥ ६२ ॥ चेष्टां स्थानं च वित्तं च जिज्ञासुस्तस्य भूपतिः । ऊचे कार्पटिकोऽस्मीति क्क व निणा न तादृशाः ॥ ६३ ॥ एहि कार्पटिकाद्य त्वामदरिद्रीकरोम्यहम् । इत्यूचे तस्करो भूपं मदान्धानां धिगजताम् ॥ ६४ ॥ तमन्वचालीत्सोऽर्थेच्छुः पत्तिवत्पृथिवीपतिः । ममद गर्दभस्यापि पादौ कार्याज्जनार्दनः ॥ ६५ ॥ . अजानानः स राजानं पाखें मृत्युमिवात्मनः। जगाम धाम कस्यापि श्रेष्ठिनः श्रेष्ठसम्पदः ॥ ६६ ॥ तत्र खात्रं खनित्रेण पातयित्वा स वेश्मनः । जग्राह सारद्रविणं राहुः कुण्डात्सुधामिव ॥ ६७ ॥ अज्ञो राज्ञा समस्तं तद्दाहयामास तस्करः । रदरं दर्शयामास शाकिन्यै व स मूढधीः ॥ ६८ ॥ Page #135 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। ३३३ तमुन्मूलयितुं मूलान्मूलदेव उवाह तत् । धूर्ती हि कारणोपात्तमार्दवाः कार्यराक्षसाः ॥ ६८ ॥ जीर्णोद्यानं ततो गत्वा गुहामुद्दाव्य सोऽविशत्। निनाय तत्र भूपं च च्छगणरोपितालिवत् ॥ ७० ॥ आसीनागकुमारीव कुमारी तत्र तत्वसा । नवयौवनलावण्यपुण्यावयवशालिनी ॥ ७१ ॥ ... क्षालयास्यातिथेः पादावित्यादिष्टा खबन्धुना। सोपकूपं ततो भूपमुपावेशयदासने ॥ ७२ ॥ प्रक्षालयन्ती तत्पादकमले. कमलेक्षणा । अनुभूय मृदुस्पर्श तं सर्वाङ्गमुदक्षत ॥ ७३ ॥ अहो कोऽप्येष कन्दर्पः साक्षादिति सविस्मया । सानुरागा सानुकम्पा साऽब्रवीदिति भूपतिम् ॥ ७४ ॥ पादप्रक्षालनव्याजात्कूपेऽस्मिनपर 'नराः । अपात्यन्त महाभाग तस्कराणां कुतः कपा ॥ ७५ ॥ क्षेसामि नेह कूपे त्वां त्वताभाववशीठाता। महतामनुभावो हि वशीकरणमद्भुतम् ॥ ७६ ॥ ततो मदुपरोधेन सुन्दरापसर द्रुतम् । हयोरप्यन्यथा नाथ कुशलं न भविष्यति ॥ ७७ ॥ विमृश्याथ महीनाथो निर्जगाम द्रुतं ततः । धीमन्तो हि धिया नन्ति द्विषः सत्यपि विक्रमे ॥ ७८ ॥ गते नृपे तु व्याहारि तया गच्छत्यसाविति। (६) च ड जनाः । Page #136 -------------------------------------------------------------------------- ________________ योगशास्त्रे खणरक्षणार्थं हि प्रपञ्चो धीमतामयम् ॥ ७ ॥ कष्टकङ्कासिजिह्वालो वेताल इव दारुणः । . अनुभूपालमुत्तालो दधावे मण्डिकस्ततः ॥ ८० ॥ तं समासनमालोक्य भूपति/वहस्पतिः । चत्वरोत्तम्भितग्रावस्तम्भेनान्तरितोऽभवत् ॥ ८१॥ कोपान्धनयनश्चासौ स एवैष पुमानिति । कटासिना दृषत्स्तम्भं च्छिलाऽगाडाम मण्डिकः ॥ ८२ ॥ . ययौ खं धाम राजाऽपि हृष्टश्चौरोपलम्भतः। .. प्राप्त: सौख्याय जायेत दोषकारी न कस्य वा ॥.८३ ॥ राजा प्रातस्ततो राजपाटिकाव्याजतो बहिः। . दस्युं विश्वमनोदस्युस्तं निरूपयितुं ययौ ॥ ८४ ॥' अथ वस्त्रापणहारे कुर्वाणं तुबकारताम् । पर्वेष्टितजनोरं किञ्चिदुवाटिताननम् ॥ ८५ ॥ तस्करं मस्करलतोपितं छद्मश्नथाकतिम् । दृष्ट्वोपालक्षयत् क्ष्मापः क्षपादृष्टानुमानतः ॥ ८६ ॥ (युग्मम्) गत्वा हम्यं महीनायोऽभिज्ञानानि निवेदयन् । पुरुषान् प्रेषयामास तस्याकारणहेतवे ॥ ८७ ॥ न हतः स पुमानूनं तद्दिजृम्भितमित्यसौ।। प्राइतोऽमस्त चौरा हि महाराजिकवेदिनः ॥ ८८ ॥ सोऽगात्ततो राजकुले राज्ञाऽऽस्यत महासने । महाप्रसादं कुर्वन्ति नीतिज्ञा हि जिघांसवः ॥ ८ ॥ तं भूपतिरभाषिष्ट प्रसादमुखया गिरा। Page #137 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ३३५ खखसा दीयतां मह्यं दातव्या एव कन्यका ॥ ॥ दृष्टपूर्वी स्वसारं मे नापरो निरगात्ततः । अयं स एव राजेति निश्चिक्ये मण्डिको हदि ॥ ८१ ॥ यद्यतां मत्स्वसा देव देवकीयैव सा किल ।। मदीयमन्यदप्येवमवोचत स पार्थिवम् ॥ ८२ ॥ : तदानीमप्युपायंस्त रूपातिशयशालिनीम् । तस्य स्वसारं नृपतिः कंसारिरिव रुक्मिणीम् ॥ ८३ ॥ महामात्यपदे चक्रे तस्करं तं नरेखरः । को वेत्ति भूभुजां भावं मध्यं पत्युरिवाम्भसाम् ॥ ८४ ॥ तस्माद्भूषणवस्त्रादि तद्भगिन्यैव भूपतिः । नित्यमानाययदहो धूर्ती धूरष्यत ॥ ५ ॥ बहु यावत्समावष्टं द्रव्यं तावबृपण सा। प्रभाषि वित्तं त्वहन्धोः कियदद्यापि तिष्ठति ॥ ६ ॥ वित्तमेतावदेवासीदस्य दस्योः स्वमाऽपि हि । एवं न्यवेदयद्राजो गोप्यं प्रियतमे न हि ॥ ८७ ॥ विडम्बनाभिर्बह्वीभिर्मण्डिकं चण्डशासनः । निजग्राह ततो राजा पापानां कुशलं कियत् ॥ १८ ॥ चौर्यात् खर्यमपि विक्रमराजराजः, आनीय मण्डिकमखण्डनयो जघान । स्तैन्यं न तेन विदधीत सुधीः कथञ्चिदत्रापि जन्मनि विरुद्धफलानुबन्धि ॥ २८८ ॥ ॥ इति मूलदेवमण्डिकयोः कथानकम् ॥ Page #138 -------------------------------------------------------------------------- ________________ ३३६ ... योगशास्त्रे 'आसीद्राजरहे सम्पज्जितामरपुरे पुरे। पादाक्रान्तनृपश्रेणिः श्रेणिको नाम पार्थिवः ॥ १ ॥ राजस्तस्य च तनयो नयविक्रमभाजनम् । नाम्राऽभयकुमारोऽभूत् प्रद्युम्नः श्रीपतेरिव ॥ २ ॥ इतश्च तस्मिन्नगरे वैभारगिरिकन्दरे । चौरो लोहखुराख्योऽभूद्रौद्रो रस इवाङ्गवान् ॥ ३ ॥ " स तु राजगहे नित्यं पौराणामुत्सवादिषु । लब्धा छिद्राणि विदधे पिशाचवदुपद्रवम् ॥ ४ ॥ आददानस्ततो द्रव्यं भुञ्जानश्च परस्त्रियः । भाण्डागारं निशान्तं वा निजं मेने स तत्पुरम् ॥ ५ ॥ चौर्यमेवाभवत्तस्य प्रोत्यै वृत्तिर्न चापरा। अपास्य क्रव्यं क्रव्यादा भक्ष्यैस्तप्यन्ति नापरैः ॥ ६ ॥ तस्यानुरूपो रूपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्नयां रौहिणेयोऽभिधानतः ॥ ७ ॥ स्वमृत्युसमये प्राप्ते पित्राऽऽहयेत्यभाषि सः । यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥ ८ ॥ अवश्यमेव कर्त्तव्यमादिष्टं भवतां मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच स: ॥ ८ ॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्टेति निठुरम् ॥ १० ॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विधत्ते देशनां वीरो मा श्रौषीस्तस्य भाषितम् ॥ ११ ॥ Page #139 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । अन्यत्तु खेच्छया वत्स कुर्यास्त्वमनियन्त्रितः । उपदिश्येति पञ्चत्वं प्राप लोहखुरस्तत: ॥ १२ ॥ मृतकार्य पितुः क्त्वा रौहिणेयस्ततोऽनिशम् । चकार चौरिकां लोहखुरोऽपर इवोहतः ॥ १३ ॥ पालयन् पितुरादेशं जीवितव्यमिवात्मनः । खदासेरमिवामुष्णात् स राजगृहपत्तनम् ॥ १४ ॥ तदा च नगरपामाकरेषु विहरन् क्रमात् । चतुर्दशमहासाधुसहस्रपरिवारितः ॥ १५ ॥ सुरी संचाय॑माणेषु वर्णाम्भोजेषु चारुषु । न्यस्यन् पदानि तत्रागाहौरश्चरमतीर्थकत् ॥ १६ ॥ 'व्यन्तरैरसुरैयोतिषिकैर्वैमानिकैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः ॥ १७ ॥ भायोजनविसर्पिण्या सर्वभाषानुयातया। भारत्या भगवान् वीरः प्रारंभे धर्मदेशनाम् ॥ १८ ॥ तदानौं रौहिणेयोऽपि गच्छन् राजगृह प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ॥ १८ ॥ . एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाज्ञा भज्यते पितुः ॥ २० ॥ न चान्यो विद्यते पन्या भवत्वेवं विमृश्य सः । . कर्णी पिधाय पाणिभ्यां द्रुतं राजगृहं ययौ ॥ २१ ॥ (१) ख म च ड वैमानिकैज्योतिषिय॑न्तरैरसुरैरपि । ४३ Page #140 -------------------------------------------------------------------------- ________________ ३३८ - योगशास्त्र एवमन्वहमप्यस्य यातायातक्कतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कण्टकः ॥ २२ ॥ औत्सुक्यगमनाहाढमग्नं पादे स कण्टकम् । अनुवृत्य समुदत्तुं न शशाक क्रमात् क्रमम् ॥ २३ ॥ नास्त्युपायोऽपरः कोऽपोत्याकप्थ श्रवणात्करम् । कर्षन् कण्टकमोषीदिति विश्वगुरोगिरम् ॥ २४ ॥ महीतलास्मर्शिपादा निर्निमेषविलोचनाः । अम्बानमाल्या नि:स्खेदा नौरजोऽङ्गाः सुरा इति ॥ २५ ॥ बहुश्रुतमिदं धिग धिगित्याशूतकण्टकः। . पिधाय पाणिना कणं तथैवापससार सः ॥ २६ ॥ अथान्वहं मुष्यमाण पत्तने तेन दस्युना । उपत्य श्रेणिकं वेष्ठिश्रेष्ठा व्यापयविति ॥ २७॥ . त्वयि शासति देवान्यन्त्र भयं द्रविणं तु नः। आवष्य गृह्यते चौरैरदृष्टैश्चेटकैरिव ॥ २८ ॥ बन्धूनामिव तेषां तु गृहीत: पौडया तत: । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् ॥ २८ ॥ किं चौरीभूय दायादीभूय वा मम वेतनम् । Zलासि चौरैयन्ते यदेते त्वदुपेक्षितैः ॥ ३० ॥ सोऽप्यूचे देव कोऽप्येष चौरः पौरान् विलुण्ठति । रोहिणेयाह्वयो धत्तुं दृष्टोऽपि न हि शक्यते ॥ ३१ ॥ विद्युदुत्क्षिप्तकरणेनोत्प्लुत्यायं प्लवङ्गवत् । गहाहं ततो वप्रमुल्लङ्घयति हेलया ॥ ३२ ॥ Page #141 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | मार्गेण यामस्तन्मार्गं यावत्तावत्स नेक्ष्यते । त्यक्तो ह्येकक्रमेणापि शतेन त्यज्यते क्रमैः ॥ ३३ ॥ न तं हन्तुं नवा धर्त्तुमहं शक्नोमि तस्करम् । गृहातु तदिमां देवो दाण्डपाशिकतां निजाम् ॥ ३४ ॥ नृपेणोशासितकभ्वसंज्ञया भाषितस्ततः । कुमारोऽभयकुमारस्तमूचे दाण्डपाशिकम् ॥ ३५ ॥ चतुरङ्गचमूं सज्जीक्कत्य मुच्च बहिष्पुरात् । यदान्तः प्रविशेश्चौरः पत्तनं वेष्टयेस्तदा ॥ ३६ ॥ अन्तश्च वासितो विद्युदुत्क्षिप्तकरणेन सः | पतिष्यति बहिः सैन्ये वागुरायां कुरङ्गवत् ॥ ३७ ॥ प्रतिभूभिरिवानीतो निजपादेस्ततश्च सः । ग्रहीतव्यो महान् दस्युरप्रमत्तैः पदातिभिः ॥ ३८ ॥ तथेत्यादेशमादाय निर्ययौ दाण्डपाशिकः । तथैव च चमूं सज्जां प्रच्छन्नं निर्ममे सुधीः ॥ ३८ ॥ तद्दिने रौहिणेयोऽपि ग्रामान्तरसमागमात् । अजानानः पुरीं रुद्धां वारौं गज इवाविशत् ॥ ४० ॥ तैरुपायैस्ततो धृत्वा बड्वा च स मलिम्लुचः । आनीय नृपतेर्दाण्डपाशिकेन समर्पितः ॥ ४१ ॥ यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । निग्टह्यतामसौ तस्मादित्यादिक्षन्महीपतिः ॥ ४२ ॥ अलोप्तः प्राप्त इत्येष न हि निग्रहमर्हति । विचार्य निग्रहीतव्य इत्युवाचाभयस्ततः ॥ ४३ ॥ ३३८ Page #142 -------------------------------------------------------------------------- ________________ ३४० योगशास्त्रे अथ पप्रच्छ तं राजा कत्यः कीदृशजीविकः । कुतो हेतोरिहायातो रोहिणेयः स चासि किम् ॥ ४४ ॥ खनामशङ्कितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्राम दुर्गचण्डाभिधानोऽहं कुटुम्बिकः ॥ ४५ ॥ प्रयोजनवशेनहायात: संजातकौतुकात्। एकदेवकुले रात्रि महतोमस्मि च स्थितः ॥ ४६ ॥ खधाम गच्छनारराक्षिप्तो राक्षसैरिव । अलवयमहं व प्राणभौमहतो हि भीः ॥ ४७॥ मध्यारक्षविनिर्यातो बाह्यारक्षगणेष्वहम् ।। कैवर्तहस्तविसस्तो जाले मत्स्य इवापतम् ॥ ४८ ॥ ततो निरपराधोऽपि बड्डा चौर इवाधुना। अहमेभिरिहानीतो नीतिसार विचारय ॥ ४८ ॥ ततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्तिज्ञानहेतोस्तत्र ग्रामे च पूरुषम् ॥ ५० ॥ सोऽग्रेऽपि ग्राहितो ग्राम: स तं तेन दस्युना । चौराणामपि केषाञ्चिच्चित्रमायतिचिन्तनम् ॥ ५१ ॥ तत्स्वरूपं राजपुंसा ग्रामः पृष्टोऽब्रवीदिदम् । दुर्गचण्डोऽत्र वास्तव्यः परं ग्रामान्तरं गतः ॥ ५२ ॥ तत्रार्थे तेन विज्ञप्ते दध्यो श्रेणिकसूरिदम् । अहो सुकतदम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥ ५३ ॥ अभयोऽसज्जयदथ प्रासादं सप्तभूमिकम् । महार्घरत्नखचितं विमानमिव नाकिनाम् ॥ ५४ ॥ Page #143 -------------------------------------------------------------------------- ________________ . ३४१ हितीयः प्रकाशः । त्रियाऽसरायमाणाभीरमणीभिरलङ्गतम् । दिवोऽमरावतीखण्डमिव भ्रष्टमतर्कि सः ॥ ५५ ॥ गन्धर्ववर्गप्रारब्धसङ्गीतकमहोत्सवः । सोऽधादकस्मादुतगन्धर्वनगरश्रियम् ॥ ५६ ॥ ततोऽभयो मद्यपानमूढं निर्माय तस्करम् । परिधाप्य देवदूथे 'अभितल्पमशाययत् ॥ ५७ ॥ मदे परिणते यावदुदस्थात्तावदेक्षत। सोऽकस्माहिस्मयकरीमपूर्वी दिव्यसंपदम् ॥ ५८ ॥ अत्रान्तरेऽभयादिष्टैनरनारीगणैस्ततः । उदचारि जय जय नन्देत्यादिकमङ्गलम् ॥ ५८ ॥ अस्मिन्महाविमाने त्वमुत्पबस्त्रिदशोऽधुना। अस्माकं स्वामिभूतोऽसि त्वदीया: किङ्करा वयम् ॥ ६ ॥ असरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमूचे च तैरसौ ॥ ६१ ॥ जात: सुर: किमस्मोति दध्यौ यावत्स तस्करः । संगीतकार्य तावत्तः प्रदत्त: समहस्तकः ॥ ६२ ॥ उपत्य पुंसा केनापि स्वर्णदण्डभृता ततः । सहसा भोः किमारब्धमेतदेवमभाष्यत ॥ ६३ ॥ ततः प्रतिबभाषे तैः प्रतीहार निजप्रभोः । प्रदर्शयितुमारब्धं स्वकं विज्ञानकोशलम् ॥ ६४ ॥ सोऽप्युवाच स्वनाथस्य दर्श्यतां निजकौशलम् । .. समच अधितल्ल-। Page #144 -------------------------------------------------------------------------- ________________ ३४२ योगशास्त्रे देवलोकसमाचारं कार्यतां किं त्वसाविति ॥ ६५ ॥ तैरुक्तं कीदृगाचार इति श्रुत्वा स पूरुषः । साक्षेपमित्यभाषिष्ट किमेतदपि विस्मृतम् ॥ ६६ ॥ य इहोत्पद्यते देवः स खे सुक्तदुष्कृत। आख्याति प्राक्तने स्वर्गभोगाननुभवेत्ततः ॥ ६७ ॥ विस्मृतं स्वामिलाभेन सर्वमतप्रसीदतः । देवलोकस्थितिं देवः कार्यतामिति तेऽवदन् ॥ ६८ ॥ स रौहिणेयमित्यूचे निजे हन्त शुभाशुभे । प्राक्तने शंस नः स्वगंभोगान् भुक्ष्य ततः परम् ॥ ६८ ॥ तत: सोऽचिन्तयहस्युः किमेतत् सत्यमोदृशम् । मां ज्ञातुमभयेनैष प्रपञ्ची रचितोऽथवा ॥ ७० ॥ ज्ञेयं कथमेतदिति ध्यायता तेन संस्मृतम् । कण्टकोडरणकालाकर्णितं भगवदचः ॥ ७१ ॥ देवखरूपं श्रौवीराच्छ्रुतं चेत् संवदिष्यति । तत्सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ॥ ७२ ॥ इति बुद्ध्या स तानीक्षाञ्चक्रे क्षितितलस्पृशः। प्रखेदमलिनान् म्लानमाल्यानिमिषदीक्षणान् ॥ ७३ ॥ तत्सर्व कपटं ज्ञात्वाऽचिन्तयत् दस्युरुत्तरम् । तेनोचे कथ्यतां देवलोकः सर्वोऽयमुत्सुकः ॥ ७४ ॥ रौहिणेयस्ततोऽवादोन्मया पूर्वत्र जन्मनि । अदीयत सुपात्रेभ्यो दानं चैत्यानि चक्रिरे ॥ ७५ ॥ प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधार्चया । Page #145 -------------------------------------------------------------------------- ________________ ३४३ हितीयः प्रकाशः । विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः ॥ १६ ॥ इत्यादि सदनुष्ठानं मया लतमिति ब्रुवन् । जचे दण्डभृता शंस दुश्चरित्रमपि खकम् ॥ ७७ ॥ रोहिषयोऽप्युवाचेदं साधुसंसर्गशालिना । कदाचिदप्याचरितं किञ्चिवाशोभनं मया ॥ ७८ ॥ व्याजहार प्रतीहारो जन्म नैकस्वभावतः । याति तत्कथ्यतां चौर्यपारदारिकतादिकम् ॥ ७८ ॥ रौहिणेयोऽभ्यधत्तवं किमेवंविधचेष्टितः । खर्लोकं प्राप्नुयादन्धः किमारोहति पर्वतम् ॥ ८ ॥ गत्वा ततस्तैस्तत्सर्वमभयाय निवेदितम् । अभयेन च विजतं श्रेणिकस्य महीपतेः ॥ ८१॥ : एवंविधैरुपायर्यचौरो ज्ञातुं न शक्यत। स चौरोऽपि विमोक्तव्यः शक्या नीतिन लङ्गितम् ॥ ८२ ॥ अभयः पार्थिवादेशाद्रौहिणेयमथामुचत् । .. वञ्चान्ते वञ्चनादःर्दक्षा अपि कदाचन ॥ ८३ ॥ . ततः सोऽचिन्तयञ्चौरो धिगादेशं पितुर्मम । . वञ्चितोऽस्मि चिरं येन भगवद्दचनामृतात् ॥ ८४ ॥ नागमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारेणागमिथं यमगोचरम् ॥ ८५ ॥ अनिच्छयाऽपि हि तदा गृहीतं भगवद्वचः। मम जीवातवे जज्ञे भैषज्यमिव रोगिणः ॥ ८६ ॥ त्यवाहवचनं हा धिक् चौरवाचि रतिर्मया । Page #146 -------------------------------------------------------------------------- ________________ ३४४ योगशास्त्रे आम्रस्यपास्य निम्बेषु काकेनेव चिरं कृता ॥ ८७ ॥ उपदेशैकदेशोऽपि यदीयः फलतोदृशम् । तस्योपदेशः सामस्त्यात् सेवितः किं करिष्यति ॥ ८८ ॥ एवं विमृश्य मनसा ययौ भगवतोऽन्तिके । पादाम्बुजे च नत्वैवं रौहिणेयो व्यजिज्ञपत् ॥ ८६ ॥ भवाब्धौ प्राणिनां घोरविपत्रक्रकुलाकुले । महापोतायते ते गोरायोजनविसर्पिणी ॥ ८० ॥ निषिद्धस्त्वद्दचः श्रोतुमनाप्तेनातमानिना । इयत्कालमहं पित्रा वञ्चितस्तज्जगद्गुरोः ॥ ८१ ॥ त्रैलोक्यनाथ ते धन्याः श्रद्दधानाः पिबन्ति ये । भवद्दचनपौयूषं कर्णाञ्जलिपुटैः सदा ॥ १२ ॥ अहं तु पापोऽशश्रूषुर्भगवन् भवतो वचः । पिधाय कर्णौ हा कष्टमिदं स्थानमलङ्घयम् ॥ ८३ ॥ एकदाऽनिच्छताऽप्येकं श्रुतं युष्मद्दचो मया । तेन मन्त्राक्षरेणेव रक्षितो राजराक्षसात् ॥ ८४ ॥ यथाऽहं मरणाचातंस्तथा वायस्व नाथ माम् । संसारसागरावर्त्ते निमज्जन्तं जगत्पते ॥ ८५ ॥ ततस्तत्क्कृपया स्वामी निर्वाणपददायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ॥ ८६ ॥ ततः प्रबुद्धः प्रणमन् रौहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि नवे'त्यादिश मां प्रभो ॥ ८७ ॥ क ख ग -त्यादिश्यतां । (1) Page #147 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। ३४५ योग्योऽसीति स्वामिनोक्ते, ग्रहीष्यामि विभो व्रतम् । परं किञ्चिददिष्यामि, श्रेणिकेनेत्युवाच स: ॥ ८ ॥ निर्विकल्पं निर्विशङ्ख स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकनृपणोचे लोहखुरात्मजः ॥ ८८ ॥ इह देव भवद्भिर्यः शुतोऽहं लोकवार्तया। ... स एष रोहिणयोऽस्मि भवत्पत्तनमोषकः ॥ १० ॥ भगवहचसैकेन दुर्लक्या लविता मया। प्रज्ञाऽभयकुमारस्य तरण्डे नेव निम्नगा ॥ १ ॥ अशेषमेतन्मुषितं पत्तनं भवतो मया । नान्वेषणीयः कोऽप्यन्यस्तस्करो राजभास्कर ॥ २ ॥ कमपि प्रेषय यथा तल्लोपत्रं दर्शयाम्यहम् । करिष्ये सफलं जन्म ततः प्रव्रज्यया निजम् ॥ ३ ॥ अभंयोऽथ समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात्पौरलोकश्च सहायात्तेन दस्युना ॥ ४ ॥ ततो गिरिणदीकुञ्जश्मशानादिषु तद्दनम् । स्थगितं दर्शयामास सोऽथ श्रेणिकसूनवे ॥ ५ ॥ अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभानां मन्त्रिणां नापरा स्थितिः ॥ ६ ॥ परमार्थ कथयित्वा प्रबोध्य निजमानुषान् । श्रद्धालुभंगवत्पाखें रौहिणयः समाययौ ॥ ७ ॥ ततः श्रेणिकराजन कृतनिष्क्रमणोत्सवः । 'स जग्राह परिव्रज्यां पार्वे श्रीवीरपादयोः ॥ ८ ॥ (१) च ड जग्राह स-1 ४४ Page #148 -------------------------------------------------------------------------- ________________ - योगशास्त्र ततश्चतुर्थादारभ्य षण्मासान् यावदुज्ज्वलम् । विनिर्ममे तपःकर्म कर्मनिर्मूलनाय सः ॥ ८ ॥ तपोभिः कशितः कृत्वा भावसंलेखनां च सः । श्रीवीरमाच्य गिरी पादपोपगमं व्यधात् ॥ १० ॥ शुभध्यान: स्मरन् पञ्चपरमेष्ठिनमस्कियाम् । त्यका देहं जगाम द्यां रोहिणेयो महामुनिः ॥ ११ ॥ रौहिणेय इव चौर्यनिवृत्तः स्वर्गलोकमचिरादुपयाति । तत्सुधीन विदधीत कथञ्चिचौरिकामुभयलोकविरुद्धाम् ॥ ११२ ॥ ॥ इति रोहिणेयकथानकम् ॥ ७२ ॥ स्तेयस्यातिपरिहरणीयतामाह दूर परस्य सर्वखमपहर्तुमुपक्रमः । उपाददीत नादत्तं टणमात्रमपि क्वचित् ॥ ७३ ॥ दूर आस्तां तावत्परस्य सर्वखं निःशेषधनम्, अपहर्तुमुपक्रमः प्रारम्भः, अदत्तं स्वामिना, टणमानमपि नोपाददीत न गृह्णीयात् न तदर्थं यत्नं कुर्यादिति यावत् ॥ ७३ ॥ स्तेयनिवृत्तानां फलं लोकहयेनाह परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां खयमेव स्वयम्वराः ॥७४॥ परार्थग्रहणे परधनहरणे येषां नियमो निवृत्तिः शुद्धचेतसा Page #149 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । निर्मलचित्तानां न तु बकवृत्तीनां कश्मलमनसां तेषामभ्यायान्ति अभिमुखमायान्ति श्रियः सम्पदः, स्वयमेव न तु परप्रेरणया व्यवसायेन वा। स्वयंवरा इत्युपमानगर्भम् । स्वयम्वरा इव कन्याः ॥ ७४ ॥ तथा अनर्था दूरतो यान्ति साधुवादः प्रवर्तते । खर्गसौख्यानि ढोकन्ते स्फटमस्तेयचारिणाम् ॥७॥ अनर्था विपदः, दूरतो यान्त्यासना अपि न भवन्ति ; साधुरयमिति प्रवादः साधुवादः श्लाघा, प्रवर्तते प्रसरति, एतावदैहिक फलम् ; वर्गसौख्यानीति तु पारलौकिकम्, अस्तेयव्रतेनावश्यं चरन्तीत्यस्तेयचारिणस्तेषाम् । पत्रान्तरे श्लोकाः वरं वह्निशिखा पीता सर्पास्यं चुम्बितं वरम् । वरं हालाहलं लीढं परस्वहरणं न तु ॥ १॥ प्रायः परखलुब्धस्य निःशूका बुदिरेधते ।। हन्तुं भ्रातृन् पितॄन् दारान् सुहृदस्तनयान् गुरून् ॥ २ ॥ परखं तस्करो ग्टह्णन् वधबन्धादि नेक्षते । .पयःपायौव लगुडं बिडाल उपरि स्थितम् ॥ ३ ॥ व्याधधीवरमार्जारादिभ्यश्चौरोऽतिरिच्यते । निग्राह्यते नृपतिभिर्यदसौ नेतरे पुनः ॥ ४ ॥ (१) गड. एतावदेहिक। Page #150 -------------------------------------------------------------------------- ________________ ३४८ योगशास्त्रे स्वर्णादिकेऽप्यन्यधने पुरःस्थे सदा मनीषा दृषदीव येषाम् । सन्तोषपीयूषरमेन टप्ता स्ते द्यां लभन्ते गृहमेधिनोऽपि ॥ ५ ॥ ७५ ॥ इदानीमामुष्पिकमैहिकं चाब्रह्मफलमुपदी गृहस्थोचितं ब्रह्मचर्यव्रतमाहषण्ठत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः । भवेत् खदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥ ७६ ॥ घण्टत्वमामुभिकं परदाररतानां फलं, इन्द्रियच्छेदश्च राजादिकृत ऐहिकं, अब्रह्मण: प्रतिषिद्धस्य मैथुनस्य, वीक्ष्य शास्त्रात्प्रत्यक्षेण वा ज्ञात्वा, स्वदारेषु धर्मपत्नयां सन्तुष्टो भवेदित्येकं गृहस्थब्रह्मचर्यम्, अन्यदारान् वा परसम्बन्धिनीः स्त्रियो विवर्जयेत् । वस्त्रीसाधारणस्त्रीसेवीत्यर्थः इति द्वितीयम् ॥ ७६ ॥ यद्यपि गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृश: पापसम्बन्धोऽस्ति तथापि यतिधर्मानुरक्तो यतिधर्म प्राप्तेः पूर्व गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्म परिपालयति इति तं वैराग्य काष्ठामुपनेतुं सामान्येनाब्रह्मदोषानाह रम्यमापातमात्रे यत् परिणामेऽतिदारुणम् । किंपाकफलसंकाशं तत्कः सेवेत मैथुनम् ॥ ७७ ॥ आपातमात्रे प्रथमारम्भमात्रे, रम्यं मनोहरं, परिणाम (१) छ -कृतमैहिक,। Page #151 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। ३४८ प्रारम्भादुत्तरोत्तरावस्थायां, दारुणं रौद्रं, किंपाकफलसंकाशं किंपाको वृक्षविशेषस्तत्फलसदृशं, किंपाकफलं ह्यापाते रम्यं परिणामे दारुणं मारणामकत्वात् । . यदाह 'वस्मड्ढा हलहलया' दोसन्ता दिन्ति हिययपरिप्रोसं । किंपागफला पुत्तय पासायन्तो वियाणिहिसि ॥ १ ॥ एवंविधं यम्मैथुनं मिथुनकर्म तल्कः मेवेतेति सम्बन्धः । यदाहयद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किंपाकफलादनवत् भवन्ति पश्चादतिदुरन्ताः ॥ २ ॥ ७७ ॥ . मैथुनस्य परिणामदारुणत्वमाह- . . .......... ... कम्पः खेदः श्रमो मूर्छा भमिर्लानिबलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥ ७८॥ कम्पो वेपयुः, खेदो धर्मः, श्रमः लमः, मूर्छा मोहः, भ्रमिर्भमः, ग्लानिरङ्ग सादः, बलक्षय: शक्तिनाशः, राजयक्ष्मा क्षयरोगः. स आदिषां कासखासादीनां रोगाणां ते तथा मैथुनोस्थिता मैथुनप्रभवाः ॥ ८ ॥ (१) वर्णाद्याः कौतुका दृश्यमाना ददति हृदयपरितोषम् । किंपाकफलान् पुत्रक आस्वादमानो विज्ञास्यसि ॥ १ ॥ (२) "तुमुलम्मि कोउएं हलहलं" इति श्रीहेमचन्द्राचार्याः देशीनाममाला अष्टमवर्गे अनेकार्थप्रकरणे ७४ लोके व्याख्युः । Page #152 -------------------------------------------------------------------------- ________________ योगशास्त्रे अहिंसापरिवारत्वाच्छेषव्रतानां मैथुने अहिंसाया एवाभावमाहयोनियन्त्रसमुत्पन्ना: सुसूक्ष्मा जन्तुराशयः । पौड्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ ७६ ॥ योनिः प्रसवमार्गः. सैव यन्त्राकारत्वाद्यन्त्रं, तत्र समुत्पन्नाः संमूछनेनोत्पत्राः, ते च. न चक्षु ह्या इत्याह-सुसूमाः,. जन्तुराशयो जन्तुसमूहाः, पोद्यमाना मृद्यमानाः पुंधजेनेति शेषः, रूतनालिकायां तप्तायःकणकप्रवेशे रूतानीव, विपद्यन्ते विनश्यन्ति, यत्र मैथुने तन्मेथुनं त्यजेत् ॥ ७ ॥ योनौ जन्तुसद्भावं संवादेन द्रढयति जन्तुसद्भावं वात्सायनोऽप्याह ।' वात्स्यायनः कामशास्त्रकारः । अनेन च वाल्यायनसंवादाधीममस्य प्रामाण्य मिति नोचते, न हि जैनं शासनमन्यसंवादाधीनप्रामाण्यं किन्तु येऽपि कामप्रधानास्तैरपि जन्तुसद्भावो नापहुत इत्युच्यते। वाल्यायनश्लोको यथा- - रतजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः । जन्मवत्मसु कण्डूतिं जनयन्ति तथाविधाम् ॥८॥ रक्तजा रक्तोद्भवाः, क्कमयो जन्तुविशेषाः, सूक्ष्मा अप्रत्यक्षाः, Page #153 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ३५१ मृदुमध्याधिशक्तयः मृदुशक्तयो मध्यशक्तयोऽधिशक्तयश्च, तथाविधां मृदुमध्याधिमावशक्त्यनुरूपां ; मृदुशक्तयो मृहीं, मध्यशक्तयो मध्यां, 'अधिकशतयोऽधिकां कण्डूतिं कण्डू जन्मवर्मसु योनिषु जनयन्ति ॥८॥ कामज्वरचिकित्सार्थमौषधमिव मैथुनसेवनमिति यो मन्येत तं प्रत्याह स्वौसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं वृताहुल्या विध्यापयितुमिच्छति ॥८॥ . प्रतिचिकीर्षति प्रतिकर्तुमिच्छति, विध्यापयितुं शमयितुम् ; अयमर्थो नायं कामज्वरस्य प्रतीकारोऽनुगुणः, अपि तु वृद्धि हेतुः नहि हुताशे हताहुतिप्रक्षेपस्तच्छान्यै भवति किन्तु तय । - बाह्या अप्याहु:- .. न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवईते ॥ १॥ 'किन्तु कामज्वरप्रतीकारा ईषत्करा वैराग्यभावनाप्रतिपक्षसेवाधर्मशास्त्रश्रवणादयः ; तदेतेषु कामज्वरप्रशान्त्युपायेषु सत्सु किं भवनमणहेतुना मैथुनसेवनेन ॥ ८१ ॥ (१) क ख ग छ -ऽधिक-। (२) च अधिशक-। (३) म ड किंच। Page #154 -------------------------------------------------------------------------- ________________ ३५२ । योगशास्त्रे 'एतदेवाह.. वरं ज्वलदयस्तम्भपरिरम्भी विधीयते । न पुनर्नरकहाररामाजघनसेवनम् ॥ ८२ ॥ अयमर्थः । भवतु कामज्वरोपशमहेतुमैथुनं परं नरकहेतुत्वान प्रशस्यम् ॥ २ ॥ अपि च स्त्रीसम्बन्धनिबन्धनं निधुवनं, स्त्रियश्च स्मृता अपि सकलगुणगरिमविघातहेतव इत्याह, सतामपि हि वामभूदंदाना हृदये पदम् । अभिरामं गुणग्रामं निर्वासयति निश्चितम् ॥८३॥ सतामपि हि महात्मनामपि, वामभूविरचितलोचनविकाग, हृदये पदं ददाना स्मृतिमात्रेणापि सबिधापिता, अभिरामं रमणीयं, गुणग्रामं गुणसमूह, निर्वासयति उद्दासयति । श्लेषच्छाया चेयम् । यथा कुनियोगी कश्चिद्देशमध्ये पदं ददान एव रक्षितव्यान् ग्रामान् लोभमोहादिनोहासयति, एवं हृदये लब्धपदा कामिन्यपि पालनीयं गुणग्राममुच्छेदयति । अथवा सतामपि गुणग्रामं सतामेव हृदये पादं दत्त्वा वामभूनिर्वासयति ॥ ८३ ॥ हृदयसन्निधापनमपि स्त्रीणां बहुदोषत्वाहुणहानिहेतुः किं पुना रमणमित्येतदेवाह (१) र एतदेवमाह । (१) च ददानः प्रवररक्षितव्यान्। Page #155 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । ३५३ वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता। इति नैसर्गिका दोषा यासां तासु रमेत कः॥४॥ वञ्चकत्वं मायाशीलता, नृशंसत्वं क्रूरकर्मकारिता, चञ्चलत्वं कुत्राप्यवस्थितचित्तत्वाभावः, कुशीलता दुःस्वभावता, उपस्थसंयमाभावो वा, इत्येते नैसर्गिकाः स्वाभाविका दोषा नत्वौपाधिकाः, तासु को रमेत ॥ ८४ ॥ . न चेयन्त एव दोषा किन्वपरिसंख्याता इत्याह प्राप्तुं पारमपारस्य पारावारस्य पार्यते । • स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ॥८५॥ पारावारस्य समुद्रस्य, अपारस्यादृष्टपारस्य, पारं परतीरं, प्राप्तुं पार्यते शक्यते, न पुनः स्त्रीणां प्रकृतिवक्राणां स्वभावकुटिलचरित्राणां, दुश्चरित्रस्य दुष्टचेष्टितस्य, पारं पर्यन्तः ; प्राप्तुं पार्यत इति ॥ ८५॥ दुश्चरित्रमेवाहनितम्बिन्यः पतिं पुत्रं पितरं भातरं क्षणात् । आरोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये ॥८६ ॥ नितम्बिन्य इति यौवनोन्माददर्शनार्थम् । अतएव स्त्रीति नोक्तम् । दुर्वृत्ता दुष्टशीलाः, अकार्येऽपि प्रयोजनमन्तरेणापि, अथवाऽकार्येऽल्पे प्रयोजने नञोऽल्पार्थत्वात्, प्राणसंशये प्राणसन्देहे ; उपलक्षणं चैतत् । प्राणनाशेऽपि आरोपयन्ति आरोहयन्ति । कमित्याह । पतिं भर्तारम् । सूर्यकान्तेव प्रदेशिराजम् । ४५ Page #156 -------------------------------------------------------------------------- ________________ ३५४ - योगशास्त्रे यदाह 'भज्जा वि इन्दियविगारदोसनडिया करे पइपावम् । जह सो पएसिराया सूरियकताइ तह वहिरो ॥ १ ॥ पुत्रं तनयम्। चुलनीव ब्रह्मदत्तम् । यदाह माया नियगमइविगप्पियम्मि अत्थे अपूरमाणम्मि । पुत्तस्म कुणइ वसणं चुलणी जह बंभदत्तस्म ॥ २ ॥ . पितरं जनकं, भ्रातरं सोदरम् । जीवयशा इव जरासन्ध, कालादींश्च भ्रातॄन् ॥ ८६॥ अतएव भवस्य बीजं नरकहारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलं दुःखानां खानिरङ्गना ॥८॥ . भवस्य संसारस्याङ्गुरस्येव बीजं तत्कारणत्वात्संसारस्य, नरकहारं नरकप्रवेशः, तत्र यो मार्गः पन्यास्तत्र दीपिकव दीपिका तत्प्रकाश. कत्वात्, शुचां शोकानां वल्लीनामिव कन्दस्तत्प्ररोहहेतुत्वात्. कले: कलहस्य तरोरिव मूलं पादो वृद्धिहेतुत्वात्, दुःखानां शारीरमानसानां लवणादीनामिव खानिराकरस्तत्समुत्थत्वात् दुःखानां, (१) भार्याऽपि इन्द्रियविकारदोषनटिता करोति पतिपापम् । यथा प्रदेशिराजः सूर्यकान्तया तथा वधितः ॥ १ ॥ (२) माता निजकमतिविकल्पिते अर्थे अपूर्यमाणे। पुत्वस्य करोति व्यसनं चुलमी यथा अमदत्तस्य ॥ २ ॥ Page #157 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | ३५५ काऽसावङ्गना । एवं तावद्यतिधर्मानुरक्तं गृहस्थं प्रति सामान्येन मैथुनदोषाः स्त्रीदोषाश्चोक्ताः ॥ ८७ ॥ सम्प्रति खदारसन्तुष्टान् गृहस्थानधिक्कत्य साधारणस्त्रीदोषाः श्लोकपञ्चकेनोच्यन्ते मनस्यन्यद्दचस्यन्यत्क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ॥८८॥ मनसि चित्तेऽन्यत् वचः क्रिययोर्विलक्षणं वचसि वचनेऽन्धत् मनः क्रिययोर्विलक्षणं, क्रियायां चेष्टितेऽन्यत् वाङ्मनसोर्विसंवादि, यासां साधारणस्त्रीणां वेश्यानां ता विसंवादिप्रेमाणः कथं सुखस्य विश्वासैक निबन्धनस्य हेतवः । यदाह - , अन्यस्मै दत्तसङ्केता याचतेऽन्यं स्तुते परम् । अन्यश्चित् परः पार्श्वे गणिकानामहो नरः ॥ १ ॥ ८८ ॥ · तथा मांसमिश्रं सुरामिश्रमनेकविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥८६॥ मांसेन जलस्थल 'खचारिजीवजाङ्गलेन, मिश्रमामगन्धि, मांसादित्वाद्वेश्यानां, सुरया काष्ठपिष्टादिमय्या मदिरया, मिश्रं व्याप्तं, सुरापाणप्रसक्तत्वात् । अनेक विटैर्बहुभिविंटेरित्यर्थः, चुम्बितमास्वादितम्, प्रायो विटासक्तत्वात् ; एवंविधं वेश्यानां वदनं (१) ख खचरादि । Page #158 -------------------------------------------------------------------------- ________________ ३५६ योगशास्त्रे कथुम्बेन कश्चि'चेतनचुम्बेदित्यर्थः । उच्छिष्टमिव भोजनमित्युपमानमनेकविटचुम्बितवेश्यावदनस्योपमेयस्य । अथवा मांसमित्रत्वं सुरामित्रत्वं चोच्छिष्टभोजनेऽपि योज्यम् ॥ ८८ ॥ तथा अपि प्रदत्तसर्वखात् कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति गच्छतः पण्ययोषितः ॥६॥ प्रदत्तसर्वस्वादपि महाधनावस्थायां, पुण्यक्षयात्क्षीणसम्पदः, कामुकात्तत एव गच्छतः स्वगृहं प्रति, वासोऽपि परिधानवस्त्रमपि, आच्छेत्तुं बलाद ग्रहीतुमिच्छन्ति ; पण्यं मूल्यं, तत्प्रधाना योषितो वेश्याः ; अनेन कृतघ्नत्वं तासामाह। यदाह उपचरिताऽप्यतिसाचं प्रकटवधूः क्षीणसम्पदः पुंसः । पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥ १ ॥४०॥ तथा न देवान्न गुरून्नापि मुहृदो न च बान्धवान् । असत्सङ्गरतिनित्यं वेश्यावश्यो हि मन्यते ॥६१॥ वेश्यावश्यः पुमान्न देवादीन्मन्यते, कुत: असत्सङ्गरतिनित्यं असद्भिविटादिभिः सङ्गो असत्सङ्गस्तत्र रतिर्यस्य । वेश्यावश्यस्य हि सुलभा एवासत्सङ्गाः ॥ ८१॥ (१) च, सचेतमः । क. सञ्चेतनः । Page #159 -------------------------------------------------------------------------- ________________ प्रकाशः। ३५७ तथा कुष्ठिनोऽपि स्मरसमान् पश्यन्तौं धनकाङ्गया। तन्वन्तौं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥१२॥ कुष्ठिनः कुष्ठिरोगिणोऽप्यत्यन्तमनुपादेयान्, स्मरसमान् कन्दर्पतुल्यान्, धनकाझ्या हेतुभूतया पश्यन्ती, महत्या प्रतिपत्त्या प्रतिपादयन्ती, न च स्नेहमन्तरेण कुष्ठिनोऽपि सकाशाइनावाप्तिरिति। तन्वन्ती विस्तारयन्ती, कृत्रिममुपचरितं, स्नेहं प्रेम ; परमार्थतस्तु नि:स्नेहां गणिकां वेश्या, त्यजेत् । एवं तावत्खदारसन्तुष्टस्य पण्याङ्गनागमने दोषाः प्रतिपादिताः ॥ ८२ ॥ इदानी परदारगमनदोषानाहनासक्त्या सेवनीया हि खदारा अप्युपासकैः ॥ आकरः सर्वपापानां किं पुनः परयोषितः ॥१३॥ सर्वविरतिलालसः खलु देशविरतिपरिणाम इति गार्हस्थ्येऽपि वैराग्यातिशयादुपासकैरप्रतिषिहाः खदारा अप्यासक्त्या गर्दैन न सेवनीयाः किं पुनः परयोषितस्ता अत्यन्तमसेवनौया इत्यर्थः ; यत आकरः खानिः सर्वपापानां मायामृषावादादीनाम्, हि शब्दो यस्मादर्थे, यस्मान् खदारानपि नासया सेवन्त उपासकाः ततः कथं परदारेषु प्रसजेयुरित्यर्थः ॥ ८३ ॥ परस्त्रीणां पापकारित्वमेव दर्शयति Page #160 -------------------------------------------------------------------------- ________________ ३५८ योगशास्त्रे खपतिं या परित्यज्य निस्त्रपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति॥४॥ तस्यां क्षणिकचित्तायां चलितचित्तायामन्ययोषिति, को वित्रम्भः को विखासः, न कश्चिदित्यर्थः । विषम्भाधीनं च सुखं तदपि नास्तीत्यर्थः । या किं, या स्वपतिं देवतारूपं 'भर्तृदेवता हि स्त्रियः' इति श्रुतेः ; परित्यज्य पाणिग्रहीत्यपि त्यका, निस्त्रपा लज्जारहिता ; त्रपा हि भूषणं स्त्रीणाम् ; उपपतिं पत्यन्तरं, भजेत् ॥८४॥ इदानों परस्त्रीप्रसतोऽनुशिष्यते--- भौरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तुमुपशूनं पशोरिव ॥ ६५ ॥ परस्त्रियां रतिः प्रीतिः, कर्तुं न युज्यते, भीरोः पतिराजादिभीतस्य, अतएवाकुलचित्तस्य अनेन दृष्टोऽनेन ज्ञातोऽहमिति उपसर्पतीति व्याकुलचित्तस्य, दुःस्थितस्य खण्डदेवकुलादौ शय्यासनादिरहितस्य, कस्येव, पशोरिव वध्यस्य, उपशूनं शूनासमीपे ॥ ५ ॥ तस्मात् प्राणसन्देहजननं परमं वैरकारणम् । लोकद्दयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ ६६ ॥ परस्त्रियां गमनं सम्भोगस्तत्त्यजेत्, प्राणानां जीवितव्यस्य, Page #161 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ३५८ सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं ; 'परस्त्रीषु प्रसक्तस्य हि प्रायेण परैः प्राणा प्रणाश्यन्ते कदाचित्रेति प्राणसन्देहः, परमं प्रक्कष्टं, वैरस्य विरोधस्य, कारणम् । यदाह बहुमूलस्य मूलं हि महद्वैरतरोः स्त्रिय इति । लोकद्दयमिहलोकपरलोकलक्षणं, तस्य विरुद्धं प्राणसन्देह जननत्वाद्वैरकारणत्वाल्लोकद्दयविरुद्धत्वादिति परस्त्रीगमनत्यागे हेतुत्त्रयं विशेषणद्वारेण ॥ ८६ ॥ लोकद्दय़विरुद्धं चेति विशेषणमस्फुटं स्फुटयतिसर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ ८७ ॥ सर्वधनापहारं, रज्ज्वादिना बन्धं, शरीरावयवः पुंध्वजादिस्तस्य च्छिदां छेदं लभत इतोहलोकविरोधः । मृतश्च नरकं घोरं लभते इति परलोकविरोधः । परदारान् गच्छतीति पारदारिकः ॥ ८७ ॥ उपपत्तिपूर्वं परस्त्रीगमनप्रतिषेधमाहखंदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं परदारान् कथं व्रजेत् ॥६८॥ जानन्नपि अनुभवम्नपि, दुःखं मन:पोडां, परदारप्रसङ्गे तस्य ; परदाराः परेषां दाराः परदाराः अतः स्वदारप्रसक्तेषु परेषु (१) क ग पर स्वीप्रसक्तस्य । Page #162 -------------------------------------------------------------------------- ________________ योगशास्त्रे दुःखमनुभवत्येव । अत्र हेतुमाह । स्वदाररक्षणे स्वकलत्ररक्षणे, यत्नमादरं, भित्तिवरण्डकप्राकारप्राहरिकादिभिर्विदधानः कुर्वन्, निरन्तरं दिवानिशं स्वदाररक्षण परिक्लेशशाली जनो जानात्येव स्वस्मिन् दुःखं इत्यात्मानुभवेन परेष्वपि दुःखं पश्यन् कथं परदारान् व्रजेत् ॥ ८८ ॥ आस्तां परस्त्रीषु रमणं रमणेच्छाऽपि महतेऽनर्थायेति श्रहविक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥ ६६ ॥ परस्त्रीविषये रमणाभावेऽपि रिरंसामात्रेण हेतुना, दशकन्धरो रावणो, नरकं प्राप इति पारलौकिकं फलम् । ऐहिकमाह । कृत्वा कुलक्षयं, यद्यपि कुलक्षयस्तस्य रामादिभिः कृतो न तेन, तथापि तदीयपरदाररिरंसा पूर्वकत्वादिभिस्तत्त्वतस्तत्कृत उच्यते । ननु पारलौकिकं फलं नरकगमनरूपमास्तां, ऐहलौकिकं तु बलवतां कुतस्त्यं भवेदित्याह । विक्रमाक्रान्तविश्वोऽपि ; न हि दशकन्धरादन्यो बलवान्, यो विक्रमेण विश्वमप्याक्रान्तवान् स्रोऽपि यद्यनर्थमश्रुते तदपरस्य का मात्रेति ॥ ८८ ॥ अयं चार्थः सम्प्रदायगम्यः, सचायम् ।— अस्ति त्रिकूटशिरसि शिरोमणिरिव क्षितेः । रक्षोद्दीपे हिरण्याङ्गा लङ्केति प्रथिता पुरी ॥ १ ॥ विद्याधरनृपस्तस्यां पुलस्त्य कुलकौस्तुभः । अजायत महावीर्यो रावणो विश्वरावणः ॥ २ ॥ ३६० , Page #163 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। पभूतां भ्रातरौ तस्य निःसीमस्थाम'शोभिनौ । अपराविव दोःस्तम्भौ कुम्भकर्णबिभीषणौ ॥ ३ ॥ देवतामिव कुलस्य स्वपूर्वपुरुषार्जिताम् । गृहे नवमहारत्तस्रजं सोऽपश्यदन्यदा ॥ ४ ॥ श्रूयन्ते द्वादशादित्या नवादित्या इमे पुन: । दृश्यन्ते कथमित्येतहदान् पप्रच्छ तत्र सः ॥ ५ ॥ अथाचचक्षिरे तस्मै त्वत्पूर्वपुरुषैः पुरा । वरलब्धा महासाराऽनयेयं रत्नमालिका ॥ ६ ॥ इमां क्षिपेत यः कण्ठे स्यात्मोऽईभरतश्वरः । इत्याम्नायात्तवानाये पूज्यते पूर्वजैरसौ ॥ ७ ॥ ततस्तां सोऽक्षिपत्कण्ठे तद्रत्नेषु नवखपि । सङ्क्रान्तास्यतया चासौ दशास्य इति पप्रथे ॥ ८ ॥ ततो जनैर्जयजयेत्यारावैरभिनन्दितः । . . सोऽभान्मूत इवोसाहो जगद्दिजयहेतवे ॥ ८ ॥ तस्यानवद्या विद्यास्ता: प्रज्ञप्तीप्रमुखाः सदा । असाध्यसाधनप्रौढाः पाखें सेना इवावसन् ॥ १० ॥ ततो भरतवर्षा स एक ग्रामलीलया। दुःसाधं साधयामास दो:कडूनखपूर्यत ॥ ११ ॥ पासीदितश्च वैताब्यगिरौ विद्याधरेश्वरः । . इन्द्रनामा पूर्वजन्मानुभूतेन्द्रपदस्थितिः ॥ १२ ॥ (१) ख च शालिनौ। Page #164 -------------------------------------------------------------------------- ________________ . योगशास्त्रे विश्वैश्वर्यबलोद्रेकादिन्द्रत्वाभ्यासतोऽपि च । इन्द्रमात्मानमेवायममंस्तेन्द्रं तु नापरम् ॥ १३ ॥ शचीति स स्वमहिषों स्वमस्त्रं वज्रमित्यपि। पट्टेभमैरावण इत्यश्वमुच्चैःश्रवा इति ॥ १४ ॥ सारथिं मातलिरिति चतुरोऽन्यान्महाभटान् । सोमो यमः पाशधरः कुबेर इति चाभ्यधात् ॥ १५ ॥ मन्यमानस्तुणायान्यानिन्द्रमन्यः स दोर्मदी। नाजीगणद्रावणमप्यत्यन्तरणदारुणम् ॥ १६ ॥ तस्मै तत: प्रकुपितः कृतान्त इव दारुणः । रावणोऽश्रावणाम्भोदगर्जगजबलोऽचलत् ॥ १७ ॥ विद्याबलाससैन्योऽपि लवयामास सोऽर्णवम् ।.. विद्याधरास्तु ल्ययाना भुव्यम्भसि नभस्यपि ॥ १८ ॥ स दिशश्छादयन् सैन्यवात्योडूतै रजश्चयैः। वैताळयं प्राप कल्पान्तमहावात इव द्रुतम् ॥ १८ ॥ श्रुत्वा रावणमायान्तमिन्द्रोऽपि द्रुतमभ्यगात् । पुंसां मैत्रयां च वैरे च संमुखोस्थानमादिमम् ॥ २० ॥ दूरादपि दशास्येन प्रहितो महितीजसा। अथ दूतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवम् ॥ २१ ॥ ये केचिदिह राजानो विद्यादोर्वीयदर्पिणः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः ॥ २२ ॥ दशकण्ठस्य विस्मृल्या भवतश्चार्जवादयम् । ध्यान् कालो ययौ तस्मिन् भक्तिकालस्तवाधुना ॥ २३ ॥ Page #165 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । भक्तिं दर्शय तत्तस्मिन् शक्तिं वा दर्शयाधुना । भक्तिशक्तिविहीनश्वे देवमेव विनङ्क्ष्यसि ॥ २४ ॥ इन्द्रोऽपि निजगादैवं वराकैः पूजितो नृपैः । रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ॥ २५ ॥ यथा तथा गतः कालो रावणस्य सुखाय सः । कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥ २६ ॥ गत्वा स्वस्वामिनो भक्तिं शक्तिं वा मयि दर्शय । स भक्तिशक्तिहीनश्वेदेवमेव विनङ्क्ष्यति ॥ २७॥ दूतेनागत्य विज्ञप्ते रावणः क्रोधदारुणः 1 चचालानन्तसैन्योर्मिः क्षयोद्धान्त इवार्णवः ॥ २८ ॥ तयोर्बलानामन्योऽन्यं संफेटः शस्त्रवर्षिणाम् । संवर्त्त पुष्करावर्त्तवारिदानामिवाभवत् ॥ २८ ॥ रावणं रावणिर्नत्वा युद्धायेन्द्रमथाह्वत । क्रीडासु वीरा हि नाग्रं ददति कस्यचित् ॥ ३० ॥ ततश्चैकाङ्गविजयाकाङ्क्षिणाविन्द्ररावणी । सैन्यान्य'पास्यायुध्येतां द्वन्द्वयुद्धेन दुर्द्धरौ ॥ ३१ ॥ मिथः प्रतिहतास्त्रौ तौ रणपारयियासया । युयुधाते नियुद्धेन मदान्धौ सिन्धुराविव ॥ ३२ ॥ रावणिः किमधोऽथेन्द्र ऊर्द्धमिन्द्रोऽथ रावणिः । नालक्ष्यत तयोर्व्यक्तिर्वेगाद्दिपरिवर्त्तिनोः ॥ ३३ ॥ (१) न च - पास्य युद्धे तां । ३६२ Page #166 -------------------------------------------------------------------------- ________________ .. योगशास्त्रे विजयश्री: क्षणेनेन्द्रे मेघनादे क्षणेन च । यातायात व्यधागोतवोभयोरपि भीमयोः ॥ ३४ ॥ असौ मशक इत्यस्थाद्यावहन वचभित् । तावत्सर्वोजसा मेघनादस्तं समुपाद्रवत् ॥ ३५ ॥ पातयित्वा झगित्येव तं बबन्ध दशास्यसूः । जिगीषूणां जये हेतुः प्रथमो ह्याशुकारिता ॥ ३६ ॥ मेघनादः सिंहनादैर्नादयन् रोदसौ अपि । पितुः समर्पयामास मूत्तं जयमिवाथ तम् ॥ ३७॥ प्रबलारक्षगुप्तायां तं गुप्तौ रावणोऽक्षिपत्। . हयं विधत्ते हि बली निहन्त्यपि वहत्यपि ॥ ३८ ॥ सोमो दण्डधरः पाशौ कुबेरश्च समेत्य ते । दशास्यमिन्द्रग्रहणात्क्रुद्धा रुरुधिरे ततः ॥ ३८ ॥ जितकाशी दशास्योऽपि भूत्वोत्साहाच्चतुर्गुण: । योधयामास संग्रामचतुरश्चतुरोऽपि तान् ॥ ४० ॥ सोऽभाझीद्दण्डिनो दण्डं चुक्षोद गदिनो गदाम् । पाशिनोऽत्रोटयत्याशान् धनुः सोमस्य चाच्छिदत् ॥ ४१ ॥ अपातयत्प्रहारैस्तान्महेभ: कलभानिव । अग्रहीद्रावणो बड्वा वैरिविद्रावण: क्षणात् ॥ ४२ ॥ सप्ताङ्गराज्यसहितमुपादाय पुरन्दरम् । पाताललझां लङ्गेशो विजेतुमगमत्ततः ॥ ४३ ॥ (१) क -वं। (२) च -प्रतः। Page #167 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः ! हत्वा चन्द्रोदरं तत्र 'तद्राज्यं स्वां च सोदरीम् । 'सोऽदात्खराय त्रिशिरोदूषणज्यायसे ततः ॥ ४४ ॥ चन्द्रोदरस्य निःशेषं खरः खरबलोऽग्रहीत् । एका तु गुर्विणी राज्ञी प्रणश्य क्वचिदप्यगात् ॥ ४५ ॥ ततः पाताललङ्कातो लङ्कां लङ्कापतिर्ययौ । तत्र निष्कण्टकं राज्यं चक्रे विष्टपकण्टकः ॥ ४६ ॥ सोऽन्येद्युः पुष्पकारूढक्रीडयेतस्ततो भ्रमन् । मरुत्तभूपप्रारब्धमोक्षाञ्चक्रे महामखम् ॥ ४७ ॥ ततो विमानादुत्तीर्णौ दशास्यस्तद्दिदृक्षया । आनर्चे भूभुजा तेन पाद्यसिंहासनादिना ॥ ४८ ॥ ततो मरुत्तभूपालं जगादैवं दशाननः । अरे किमेष क्रियते नरकाभिमुखैर्मखः ॥ ४८ ॥ धर्मः प्रोक्तो ह्यहिंसातः सर्वज्ञैस्त्रिजगद्दितैः । पशुहिंसात्मकाद्यज्ञात्स कथं नाम जायते ॥ ५० ॥ लोकद्दयारिं तद्यज्ञं मा कार्षीश्चेत्करिष्यसि । महुप्ताविह ते वासः परत्र नरके पुनः ॥ ५१ ॥ विससर्ज मखं सद्यो मरुत्तनृपतिस्ततः । अलङ्घया रावणाज्ञा हि विश्वस्यापि भयङ्करा ॥ ५२ ॥ प्रभञ्जन इवौजस्वी मरुत्तमखभञ्जनः । ततोऽगाञ्चैत्ययात्रार्थं सुमेर्वष्टापदादिषु ॥ ५३ ॥ (१) खच राज्यं स्वां च सहोदरीम् । ३६५ Page #168 -------------------------------------------------------------------------- ________________ योगशास्त्रे विधाय यात्रा चैत्येषु कृत्रिमावनिमेषु सः । आजगाम निजं धाम पुनरेव दशाननः ॥ ५४ ॥ इतश्चासीदयोध्यायां पुयामेकमहारथः । राजा दशरथो नाम धाम निःसीमसम्पदाम् ॥ ५५ ॥ पत्नाः कौशल्याकैकेयीसुमित्रासुप्रभाभिधाः । प्रियाश्चतस्रस्तस्यासन्मूर्त्ता इव दिशां श्रियः ॥ ५६ ॥ कौशल्या सुषुवे राम कैकेयो भरतं सुतम् । .. सुमित्रा लक्ष्मणं नाम शत्रुघ्नं सुप्रभाऽभिधा ॥ ५७ ॥ रामलक्ष्मणभरतशत्रुघ्नास्तस्य रेजिरे। चत्वारः सूनवो दन्ता इव त्रिदशदन्तिनः ॥ ५८ ॥ जनकस्य सुतां सौता भामण्डल सहोदरीम् । कार्मुकारोपण पणां रामभद्र उपायत ॥ ५८ ॥ जिनेन्द्रबिम्बमपनजल मङ्गलहेतवे । चतसृणां च राजीनां नृपः प्रेषयदन्यदा ॥ ६ ॥ तत्तोयमागतं पश्चादिति रोषमुपयुषीम् । अनुनेतुं स्वयं रानी सुमित्रामगमनृपः ॥ ६१ ॥ घण्टान्तालिकालोलदशनं चलिताननम् । खेतसर्वाङ्गरोमाणं भूरोमच्छन्नलोचनम् ॥ ६२ ॥ पदे पदे प्रस्खलन्तं याचमानं च पञ्चताम् । गतस्तत्र ददर्शकं जरत्कञ्चुकिनं नृपः ॥ ६३ ॥ . (१) ख च ड -महोदराम् । Page #169 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | तं दृष्ट्वाऽचिन्तयद्राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥ ६४ ॥ व्रतं जिष्टक्षुः स ततो राज्ये स्थापयितुं निजे | अह्नायाह्वाययामास तनयौ रामलक्ष्मणौ ॥ ६५ ॥ भरतस्य जनन्याऽथ कैकेय्या मन्थरा गिरा । ३६७ वरौ प्राक्प्रतिपन्नौ स याचितः सत्यसङ्गरः ॥ ६६ ॥ वरेणार्थित एकेन स तदा रघुपुङ्गवः । प्रतिपन्नस्थिरो राज्यं भरताय समार्पयत् ॥ ६७ ॥ चतुर्द्दशसमा यावद्दनवासाय चादिशत् । ससीतालक्ष्मणं रामं वरेणान्येन चार्थितः ॥ ६८ ॥ ससीतालक्ष्मणो रामः सद्योऽगा'द्दण्डकावनम् । पञ्चवट्याश्रमे चावतस्थेऽसौ सत्यसङ्गरः ॥ ६८ ॥ तत्रायातौ चारणर्षी राघवाभ्यां नमस्कृतौ । सीताऽऽनर्चातिथोभूतौ श्रद्धालुः शुद्धभिक्षया ॥ ७० ॥ ततो गन्धोदकैर्वृष्टिरमरैर्विदधे तदा । गन्धादाययौ तत्र जटायुर्नाम गृध्रराट् ॥ ७१ ॥ तौ मुनी देशनां तत्र चक्रतुः स 'व्यबोधि च । संजातजातिस्मरणोऽवतस्थे चानुजानकि ॥ ७२ ॥ तस्थुषस्तत्र रामस्य फलाद्यर्थं बहिर्गतः । ददर्श लक्ष्मणः खड्गमग्रहोच्च कुतूहलात् ॥ ७३ ॥ (१) ख च ड - दण्डिका । (2) ख च व्यबुद्धप्रत | Page #170 -------------------------------------------------------------------------- ________________ ३६८ योगशास्त्रे तत्तीक्ष्णत्वपरीक्षार्थं तत्क्षणं तेन लक्ष्मणः । अभ्यर्णस्थां वंशजालौं नललावं लुलाव च ॥ ७४ ॥ वंशजालान्तरस्थस्य कृत्तं कस्यापि देहिनः । यैकं मौलिकमलं सोऽपश्यत्पतितं पुरः ॥ ७५ ॥ अयुध्यमानोऽशस्त्रश्व पुमान् कोऽपि हतो मया । अमुना कर्मणा धिग्मामित्यात्मानं निनिन्द सः ॥ ७६ ॥ गत्वा च रामभद्राय तदशेषमचौकथत् । असिं च दर्शयामास रामोऽप्येवमभाषत ॥ ७७ ॥ असावसि: सूर्य हासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं कश्चिदुत्तरसाधकः ॥ ७८ ॥ अत्रान्तरे दशग्रीवखसा चन्द्रणखाऽभिधा । खरभार्या ययौ तत्र ददर्श च हतं सुतम् ॥ ७८ ॥ क्कासि हा वत्स शम्बूक शम्बूकेति रुदत्यसौ । अपश्यल्लक्ष्मणस्यांह्रिन्यासपङ्क्तिं मनोहराम् ॥ ८० ॥ मम सूनुर्हतोऽनेन यस्येयं पदपद्धतिः । पदपङ्क्तिपथेनैव ततश्चन्द्रणखाऽऽययौ ॥ ८१ ॥ यावत्किञ्चिदगात्तावत्ससौतालक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपश्यत्तरुतले स्थितम् ॥ ८२ ॥ निरीक्ष्य रामं सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो ॥ ८३ ॥ स्वं रूपं चारु कृत्वाऽथ रन्तुं रामस्तयाऽर्थितः । हृसन्नूचे सभार्योऽहमभार्यं भज लक्ष्मणम् ॥ ८४ ॥ Page #171 -------------------------------------------------------------------------- ________________ समताः । द्वितीयः प्रकाशः । तयाऽर्थितस्तथैवैत्य लक्ष्मणोऽप्येवमब्रवीत् । आर्य गता त्वमार्येव तदलं वार्तयाऽनया ॥ ८५ ॥ सा याजाखण्डनात्पुत्रवधाच्च रुषिताऽधिकम् । आख्यहत्वा खरादीनां तत्कृतं तनयक्षयम् ॥ ८६ ॥ विद्याधरसहस्रेस्ते चतुर्दशभिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव दिपाः ॥ ८७ ॥ किमार्यः सत्यपि मयि योत्स्यते स्वयमीदृशैः । इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः ॥ ८८ ॥ गच्छ वत्स ! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं ममाहूत्यै कुर्या इत्यन्वशात् स तम् ॥ ८ ॥ रामाज्ञां प्रतिपद्योच्चैलक्ष्मणोऽथ धनुःसखा । गत्वा प्रववृते हन्तुं स तांस्ताय॑ इवोरगान् ॥ ४० ॥ प्रवईमान तद्युद्धे स्वभर्तुः पार्णि वृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणवसा ॥ ८१ ॥ आयातौ दण्डकारण्ये मनुष्यौ रामलक्ष्मणौ । अनात्मज्ञौ निन्यतस्ते यामयं यमगोचरम् ॥ ८२ ॥ श्रुत्वा स्वसृपतिस्ते तु सानुजः सबलो ययौ। तत्र सौमित्रिणा साई युद्धामानोऽस्ति संप्रति ॥ ८३ ॥ कनिष्ठचाटवौर्येण स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सौतया सह ॥ ८४ ॥ सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगी नापि मानुष्यन्यैव काऽपि सा ॥ ८५ ॥ ४७ Page #172 -------------------------------------------------------------------------- ________________ - योगशास्त्रे तस्या दासौकताशेषसुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥ ६ ॥ आसमुद्रममुद्राज ! यानि कान्यपि भूतले । तवैवाहन्ति रत्नानि तानि सर्वाणि बान्धव ! ॥ ८७॥ दृशामनिमिषीकारकारणं रूपसम्पदा। . स्त्रीरत्नमेतगृह्नीया नचेत्तत्रासि रावणः ॥ ८८ ॥ आरुह्य पुष्पकमथादिदेश दशकन्धरः । विमानराज ! त्वरितं याहि यत्रास्ति जानकी ॥८॥ ययौ चात्यन्तवेगेन विमानमनुजानकि । स्पर्द्धयेव दशग्रीवमनसस्तत्र गच्छतः ॥ १० ॥ दृष्ट्वाऽपि रामादत्यु ग्रतेजसो दशकन्धरः । बिभाय दूरे तस्थौ च व्याघ्रो हुतवहादिव ॥ १ ॥ इति चाचिन्तयदितः कष्टं रामो दुरासदः । इतश्च सौताहरणमितो व्याघ्र इतस्तटी ॥ २ ॥ विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मङ्गु किङ्करीव कृताञ्जलिः ॥ ३ ॥ . ततश्चाज्ञापयामास तल्कालं तां दशाननः । कुरु साहाय्यमहाय मम सीतां हरिष्यतः ॥ ४ ॥ साऽवोचहासुकमौलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ॥ ५ ॥ उपायः किन्त्वसावस्ति यायाद येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो ह्यनयोरयम् ॥ ६ ॥ Page #173 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । एवं कुर्विति तेनोक्ता जित्वा परतस्ततः । सा साक्षादिव सौमित्रिः सिंहनादं विनिर्ममे ॥ ७ ॥ तं श्रुत्वा मैथिलों तत्र मुक्ता रामो ययौ द्रुतम् । महतामपि मोहाय भवेन्माया हि मायिनाम् ॥ ८॥ प्रथोत्तीर्य दशग्रीवः सौतामारोप्य पुष्पके। त्वां हरन् रावणोऽस्मीति कथयन्नभसा ययौ ॥ ८ ॥ हा नाथ विद्विषन्माथ राम हा वत्स लक्ष्मण । हा तातपाद हा भ्रातर्भामण्डल महाभुज ॥ १० ॥ सौता वो जियतेऽनेन काकेनेव बलि'ग्छलात् । एवं सौता रुरोदोच्चै रोदयन्तीव रोदसीम् ॥ ११ ॥ मा भैषीः पुत्रि मा भैषीः करे यासि निशाचर । रोषादिति वदन् दूराज्जटायुस्तमधावत ॥ १२ ॥ भामण्डलानुगश्चैकः कोऽपि विद्याधराग्रणीः । डुढौके दशकण्ठं रे तिष्ठ तिष्ठेति तर्जयन् ॥ १३ ॥ जटायुर्विकटाटोप करजनोटिकोटिभिः । 'प्रणिहन्तुं दशग्रीवोरसि प्रववृते ततः ॥ १४ ॥ रे जीवितस्य तृप्तोऽसि जर ति विब्रुवन् । दशास्त्रश्चन्द्रहासासिमाक्वष्य निजधान तम् ॥ १५ ॥ (१) क ख ग च -छ । (२) चड -नखर-1 (१) खच प्रतिहन्तुं । Page #174 -------------------------------------------------------------------------- ________________ ३७२ योगशास्त्रे तस्य विद्याधरस्यापि विद्यां दशमुखोऽहरत् । निकृत्तपक्षः पक्षीव सोऽपविद्योऽपतद्भुवि ॥ १६ ॥ रावणोऽगात्ततो लङ्कां सीतां चोपवनेऽमुचत् । तां प्रलोभयितुं तत्र त्रिजटामादिदेश च ॥ १७ ॥ रामस्यापि हतामित्रः सौमित्रिः संमुखोऽभवत् । आर्यामार्य ! विमुच्चैकां किमागा इति चाब्रवीत् ॥ १८ ॥ आहूतः सिंहनादेन तव वैधुर्यलक्ष्मणा । लक्ष्मणाऽहमिहायातो व्याजहारेति राघवः ॥ १८ ॥ लक्ष्मणोऽप्यवदच्चक्रे सिंहनादो मया नहि । श्रुतश्चार्येण तन्नूनं वयं केनापि वञ्चिताः ॥ २० ॥ अपनेतुं सत्यमार्यामपनीतोऽस्युपायतः । सिंहनादस्य करणे शङ्के स्तोकं न कारणम् ॥ २१ ॥ ब्रुवन् साध्विति रामोऽपि स्वस्थानेऽगात्सलक्ष्मणः । सोतामपश्यन् क्कासीति विलपन्नमूर्च्छितोऽपतत् ॥ २२ ॥ तं लब्धसंज्ञं सौमित्रिरित्यूचे रुदितैरलम् । पौरुषं पुरुषाणां हि व्यसनेषु प्रतिक्रिया ॥ २३ ॥ अत्रान्तरे पुमानेकः कश्चिदेत्य ननाम तौ । ताभ्यां पृष्टः खवृत्तान्तमेवं व्यज्ञपयच्च सः ॥ ५४ ॥ हत्वा पाताललङ्केशं तातं चन्द्रोदरं मम । अश्वस्येव पदे तस्य खरं खररथोऽकरोत् ॥ २५ ॥ गुर्वी च नष्टा मन्माता विराधं नाम मां सुतम् । अन्यत्त्रासूत तस्याश्च कश्चिदाख्यदिदं मुनिः ॥ २६ ॥ Page #175 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । ३७३ यदा दाशरथिहन्ता खरादींस्त्वत्सुतं तदा। पाताललङ्काधिपतिं करिष्यति न संशयः ॥ २७ ॥ तदद्य समयं लब्धा युष्मानस्मि समाश्रितः । पिटवैरिवधक्रीतं पत्तिं जानीथ मां निजम् ॥ २८ ॥ रामस्ततोऽदात्पाताललङ्कां तस्मै महाभुजः । फलन्ति समयज्ञानां स्वामिन: स्वयमेव हि ॥ २८ ॥ तं च स्थापयितुं तत्र गच्छन् राम: सलक्ष्मणः ।। हृतविद्यं पुरोऽपश्यद्भस्थं भामण्डलानुगम् ॥ ३० ॥ अथ दाशरथौ नत्वा स्ववृत्तान्तं व्यजिन्नपत् । आत्मनश्च जटायोश्च सौताया रावणस्य च ॥ ३१ ॥ अथ पाताललङ्कायां ययौ रामः सलक्ष्मणः। . सत्यसन्धो विराधं च पित्रे राज्ये न्यवेशयत् ॥ ३२ ॥ इतश्च साहसगतिर्नाम विद्याधराग्रणीः । खे भ्रमनधिकिष्किन्धाधित्यक समुपाययौ ॥ ३३ ॥ ययौ तदा च किष्किन्धाधिपतिः क्रीडितुं बहिः । सुग्रोवः सपरीवारो राज्ञां हि स्थितिरीटशी ॥ ३४ ॥ ददर्श साहसगतिस्तदा चान्तःपुरस्थिताम् । । सुग्रीवस्य प्रियां नाम्ना तारां तारविलोचनाम् ॥ ३५ ॥ तस्यां लावण्यकूलिन्यां स चिक्री डिषुरुच्चकैः । इयेष नान्यतो गन्तुं धर्मात इव कुञ्जरः ॥ ३६ ॥ सोऽस्थात्तथैव तत्रैव निषिद्धगमन: क्षणात् । . तां मूर्त्तामिव कामाज्ञामुल्लङ्घयितुमक्षमः ॥ ३७॥ Page #176 -------------------------------------------------------------------------- ________________ ३७४ योगशास्त्रे रमणी रमणीयेयं रमणीया मया कथम् । इतीच्छाव्याकुल: 'सोऽप्युपायं क्षणमचिन्तयत् ॥ ३८ ॥ सहसा साहसगतिस्ततः सुग्रीवरूपताम् । स कुशीलवकुशल: कुशीलव इवाददे ॥ ३८ ॥ . अथासौ विटसुग्रीवः सुग्रीव इति मानिभिः । अङ्गरक्षरस्खलितः सुग्रीवभवनेऽविशत् ॥ ४० ॥ अन्तःपुरग्रहदारं स ययौ यावदुत्सुकः। . तावद्याघुट्य सुग्रीवः स्ववेश्मदारमाययौ ॥ ४१ ॥ सुग्रीवस्य प्रवेष्टुं न हारं प्राहरिका ददुः। . अग्रे प्रविष्टो राजाऽस्ति त्वमन्योऽसीति वादिनः ॥ ४२ ॥ ततश्च सत्य सुग्रीव स्वल्यमाने खवेत्रिभिः । अतुलस्तुमुलो जज्ञे मथ्यमान इवार्णवे ॥ ४३ ॥ सुग्रीवहितयं दृष्ट्वा सन्देहाहालिनन्दनः । शुद्धान्तविप्लवं वातुं तद्दारं त्वरितो ययौ ॥ ४४ ॥ शुद्धान्ते विटसुग्रीवः प्रविशन् वालिसूनुना। मार्गाद्रिणा सरित्यूर इव प्रसवलितस्ततः ॥ ४५ ॥ अथामिलन् सैनिकानामक्षौहिण्यश्चतुर्दश । चतुर्दशजगत्सारसर्वखानीव सर्वतः ॥ ४६ ॥ हयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽऽर्दै विटसुग्रीवतोऽभवन् ॥ ४७ ॥ ततः प्रववृते युद्ध सैन्ययोरुभयोरपि । (१) क ख ग घ ड कामं सोऽभ्युपायमचिन्तयत् । Page #177 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | कुन्तपातेर्दिवं कुर्वदुल्कापातमयोमिव ॥ ४८ ॥ युयुधे सादिना सादी निषादो च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥ ४८ ॥ चतुरङ्गचमूचक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥ ५० ॥ एह्येहि रे परगृहप्रवेशश्वत्रिति ब्रुवन् । विटसुग्रीवमुद्वीवः सुग्रीवो योडुमाह्वत ॥ ५१ ॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥ ५२ ॥ युयुधाते महायोद्दौ तौ क्रोधारुणलोचनौ । विदधानौ जगतासं कोनाशस्येव सोदरौ ॥ ५३ ॥ तौ निशातैर्निशतानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छेदाते तृणच्छेदं रणच्छेकावुभावपि ॥ ५४ ॥ शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरोगणः । महायुद्धे तयोर्वृक्षखण्डो महिषयोरिव ॥ ५५ ॥ तौ छिन्नास्त्रावथान्योन्यममर्षणशिरोमणी । मल्लयुद्धेनास्फालतां पर्वताविव जङ्गमौ ॥ ५६ ॥ उत्पतन्तौ क्षणाद्दद्योम्नि निपतन्तौ क्षणाद्भुवि । ताम्रचूडाविवाभातां वौरचूडामणी उभी ॥ ५७ ॥ तौ दावपि महाप्राणौ मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः ॥ ५८ ॥ पुनर्युडेन सुग्रीवः खिन्नः स्विन्त्रतनुस्ततः । ३७५ Page #178 -------------------------------------------------------------------------- ________________ ... योगशास्त्रे बहिनिर्गत्य किष्किन्धापुरादावासमग्रहीत् ॥ ५८ ॥ तत्रैव विटसुग्रीवस्तस्थावस्वस्थमानसः । अन्तःपुरप्रवेशं तु न लेभे वालिनन्दनात् ॥ ६ ॥ सुग्रीवो न्यञ्चितग्रोवमथैवं पर्यचिन्तयत् । अहो स्त्रीलम्पटः कूटपटुः कोऽप्येष नो द्विषन् ॥ ६१ ॥ आत्मीया अप्यनात्मीया द्विषन्मायावशीकताः । अहो बभूवुस्तदसाववस्कन्दो निजैर्हयैः ॥ ६२ ॥ मायापराक्रमोत्कृष्टः कथं वध्यो दिषन् मयां । धिग्मां पराक्रमभ्रष्टं वालिनाम्नस्त्रपाकरम् ॥ ६३ ॥ धन्यो महाबलो वाली योऽखण्ड पुरुषव्रतः। .. राज्यं टणमिव त्यत्वा यश्च भेजे परं पदम् ॥ ६४ ॥ . चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽप्यसौ । किं तु योरभेदनः कं रक्षतु निहन्तु कम् ॥ ६५ ॥ इदं तु विदधे साधु साध्वही चन्द्ररश्मिना। तस्य पापोयसो रुद्धं शुद्धान्ते यत्प्रवेशनम् ॥ ६६ ॥ वधाय बलिनोऽमुष्य बलीयांसं श्रयामि कम् । यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा ॥ ६७ ॥ भूर्भुवःस्वस्त्रयौवीरं मरुत्तमखभञ्जनम् । भजामि विद्दिषट्वातहेतवे किं दशाननम् ॥ ६८ ॥ असौ किं तु प्रकत्या स्त्रीलोलस्त्रैलोक्यकण्टकः । . तं च मां च निहत्याशु तारामादास्यते स्वयम् ॥ ६८ ॥ ईदृशे व्यसने प्राप्त साहाय्यं कर्तुमीश्वरः । Page #179 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। पासीत् खरः खरतरो राघवेण हतः स तु ॥ ७० ॥ तावेव रामसौमित्री गत्वा मित्रीकरोमि तत् । तत्कालोपनतस्यापि यो विराधस्य राज्यदौ ॥ ७१ ॥ तौ तु पाताललङ्कायामलंकर्मीणदोबलौ। विराधस्योपरोधेन तथैवाद्यापि तिष्ठतः ॥ ७२ ॥ एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्या विश्वासभूतं दूतं न्ययोजयत् ॥ ७३ ॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥ ७४ ॥ महति व्यसने खामी पतितो नस्तदीदृशे । राघवौ शरणीकत्तुं तव हारेण वाञ्छति ॥ ७५ ॥ द्रुतमायात सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ॥ ७६ ॥ प्रचचालाथ सुग्रीवोऽश्वानां अवेयकखनेः । दिशो मुखरयन् सर्वा वेगाह्रमदूरयन् ॥ ७७ ॥ पाताललङ्गां स प्राप क्षणेनाप्युपवेश्मवत् । . विराधं चोपतस्थेऽसावभ्युत्तस्थौ स चापि तम् ॥ ७८ ॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखं च व्यजिज्ञपत् ॥ ७८ ॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः । क्षुते हि सर्वथा मूढे शरणं तरणिः खलु ॥ ८० ॥ स्वयं दुःख्यपि तद्दुःखच्छेदं रामोऽभ्युपागमत् ।। ४८ Page #180 -------------------------------------------------------------------------- ________________ ३७८ - योगशास्त्रे स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ॥ ८१ ॥ सीताहरणवृत्तान्तं विराधेनावबोधितः । रामं विज्ञपयामास सुग्रीवोऽथ कृताञ्जलिः ॥ ८२ ॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो रवेः । न कापि कारणापेक्षा देव वचिम तथाप्यदः ॥ ८३ ॥ त्वत्प्रसादात् क्षतारिः सन् ससैन्योऽपि तवानुगः । आनेष्यामि प्रवृत्तिं च सीताया न चिरादहम् ॥ ८४ ॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तं संबोध्य विससर्ज च ॥ ८५ ॥ रामभद्रेऽथ किष्किन्धास्कन्धावारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाह्वास्त रणकर्मणे ॥ ८६ ॥ निनदन् विटसुग्रीवोऽप्यागादाह्वानमात्त्रतः । रणाय नालसाः शूरा भोजनाय हिजा इव ॥ ८७ ॥ दुर्डरैवरणन्यासः कम्पयन्तो वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्दिपौ ॥ ८८ ॥ राम: सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्च कः । इति संशयतस्तस्थावुदासीन इव क्षणम् ॥ ८८ ॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वष्वावर्त्ताभिधधनुष्टङ्कारमकरोत्ततः ॥ ८० ॥ धनुष्टङ्गारतस्तस्मात्मा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव 'पलायत ॥ ८१ ॥ (१) ख च पलायिता । Page #181 -------------------------------------------------------------------------- ________________ द्वितीय: : प्रकाशः । ३७८ विमो मायया सर्वं परदारे रिरंससे । पापारोपय रे चापमिति रामस्ततर्ज तम् ॥ ८२ ॥ एकेनापोषुणा प्राणांस्त स्याहार्षीद्रषूद्दहः । न द्वितीया चपेटा हि हरेर्हरिणमारणे ॥ ८३ ॥ विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवानमस्यत ॥ ८४ ॥ इतच रामकार्यायागाद्दिराधः समं बलैः स्वामिक्कत्यमकृत्वा हि कृतज्ञा नासते सुखम् ॥ ८५ ॥ भासण्डलोऽपि तत्रागाद् विद्याधरचमूहृतः । प्रभुकार्यं कुलीनानामुत्सवो घुसवादपि ॥ ८६ ॥ जाम्बुवदनुम बोलनलादीन् विदितौजसः । I सुग्रीवश्च स्वसामन्तान् समन्तादप्यजूहवत् ॥ ८७ ॥ विद्याधरचमूचक्रेष्वायातेष्वथ सर्वतः । उपेत्य रामं सुग्रीवः प्रणम्यैवं व्यजिज्ञपत् ॥ ८८ ॥ 'हनुमानाष्जनेयोऽयं विजयी पावनञ्जयः । सीताप्रवृत्त्यै लङ्कायां त्वदादेशाद् व्रजिष्यति ॥ ८८ ॥ रामेणाज्ञापितो दत्त्वा स्वमभिज्ञानमूर्मिकाम् । नभखानिव नभसा नभखत्तनयो ययौ ॥ २०० ॥ सोऽगात्क्षणेन लङ्कायामुद्याने शिंशपातले । सीतामपश्यद्धयायन्तीं नाम रामस्य मन्त्रवत् ॥ १ ॥ (1) क गच हनुमानिति सर्वल पाठः । Page #182 -------------------------------------------------------------------------- ________________ ३८. . ... योगशास्त्रे : तरुशाखातिरोभूत: सौतोत्सङ्गेऽङ्गुलीयकम् । हनूमान् पातयामास तदृष्ट्वा मुमुदे च मा ॥ २ ॥ तदेव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषमाऽऽसीत् सानन्दा त्वद्य जानको ॥ ३ ॥ मन्ये विस्मृतरामयं रिरंसुर्मयि संप्रति । तहत्वा बोध्यता'मित्यादिक्षत् मन्दोदरौं स तु ॥ ४ ॥ ततश्च पत्युर्दूत्येन सत्र मन्दोदरी ययौ। प्रलोभनक्वते सीतां विनीता सेत्यवोचत ॥ ५ ॥ अहैतेश्वर्यसौन्दर्यवर्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्यसम्पदा ॥ ६ ॥ यद्यप्यनेन देवेन युवयोरुभयोरपि। न व्यधाधुचितो योगस्तथापि ह्यस्तु संप्रति ॥ ७ ॥ उपत्य भजनीयं तं भजन्तं भज रावणम् । ' अहमन्याश्च तद्राज्ञास्त्वदाज्ञां सुभु ! बिभ्रतु ॥ ८ ॥ सीताऽप्यवोचदाः पापे पतिदूत्यविधायिनि । त्वगर्तुरिव वीक्षेत मुखं दुर्मुखि कस्तव ॥ ८ ॥ ,रामस्य पार्वे मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तुं द्राक् धवं तव सबान्धवम् ॥ १० ॥ उत्तिष्ठोत्तिष्ठ पापिष्ठे वच्मि नातः परं त्वया । सौतया तर्जितैवं सा सकोपा प्रययौ ततः ॥ ११ ॥ (१) ख च ड -मेवमूचे। Page #183 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। प्रथावतीर्य हनुमान् सीतां नत्वा कृताञ्जलिः ।। इत्यूचे देवि जयति दिध्या रामः सलक्ष्मणः ॥ १२ ॥ त्ववात्तिक्कते रामेणादिष्टोऽहमिहागमम् । मयि तत्र गते राम इहैथति रिपुच्छिदे ॥ १३ ॥ पतिदूतं हनूमन्तमभिज्ञानसमर्पकम् । प्रोता सीताऽप्यथाशीर्भिरमोघाभिरनन्दयत् ॥ १४ ॥ हनूमदुपरोधेन रामोदन्तमुदा च सा । एकोनविंशत्युपवासान्ते व्यधित भोजनम् ॥ १५ ॥ प्राभञ्जनिः प्रभञ्जन इवोद्यानस्य भञ्जने । प्रहत्तो दशकण्ठस्य बलालोकनकौतुकात् ॥ १६ ॥ भज्यमानं तदुद्यानं तेन मानमिवोच्चकैः। । उपत्य दशकण्ठस्याशंसब्रुद्यानपालकाः ॥ १७ ॥ प्रारक्षा रावणादिष्टास्तं निहन्तुं समागताः । हता हनूमतैकेन विचित्रा हि रण गति: ॥ १८ ॥ आदिष्टो दशकण्ठेन साटोपः शक्रजित्ततः । तहन्धायामुचत्पाशान् पाशै: खं सोऽप्यबन्धयत् ॥ १८ ॥ नीतश्चाग्रे दशास्यस्य दलयन् मुकुटं पदा। उत्पपातापास्तपाशस्त डिद्दण्ड इवानिलिः ॥ २० ॥ हन्यतां ग्राह्यतां चैष इति जल्पति रावणे। अनाथामिव सोऽभाीत्तत्पुरौं पाददर्दरैः ॥ २१ ॥ क्रीडां कृत्वैवमुत्पत्त्य सुपर्ण इव पावनिः । एत्य रामं नमस्कृत्य तं वृत्तान्तं व्यजिज्ञपत् ॥ २२ ॥ Page #184 -------------------------------------------------------------------------- ________________ ३८२ योगशास्त्र रामस्तं गाढमापोद्योरसा सुतमिवौरसम् । लङ्गाविजययात्रायै सुग्रीवादीनथादिशत् ॥ २३ ॥ समुद्रं रावणारखं बड्डा सेतुं च राघवः । लशापुरौं विमानस्थः सुग्रीवाद्यैः समं ययौ ॥ २४ ॥ निवेश्य कटकं रामो हंसदीपान्तरे ततः । 'अववेष्टइलैलङ्कामेकपाटकलीलया ॥ २५ ॥ अत्रान्तरे दशग्रीवं प्रणम्योचे विभीषणः । कनिष्ठ स्यापि मे स्वामित्रबैकं वचनं कुरु ॥ २६ ॥ आयातो रामभद्रोऽत्र निजां जायां च याचते । अप्यतां तदसौ सीता धर्मोऽप्येवं न बाध्यते ॥ २७ ॥ अथोचे रावणो रोषाद्रे बिभषि बिभीषण । तदेवमुपदेशं मे दत्से कापुरुषोचितम् ॥ २८॥ बिभीषणो बभाषऽथ दूरे राम: सलक्ष्मणः । तत्पत्तिरीको हनुमान् दृष्टो देवेन किं नहि ॥ २८ ॥ अस्मद्देषो विपक्षानुरागी ज्ञातोऽसि याहि रे । इति निर्वासितस्तेन ययौ रामं बिभीषण: ॥ ३० ॥ लङ्काधिपत्यमेतस्मै रामोऽपि प्रत्यपद्यत । नह्यौचित्ये विमुह्यन्ति महात्मानः कदाचन ॥ ३१ ॥ बहिर्निगत्य लझेशसेना राघवसेनया । कांस्यतालं कांस्यतालेनेवास्फालदथोषणम् ॥ ३२ ॥ (१) च अविवेष्टत् । (२) खच च। Page #185 -------------------------------------------------------------------------- ________________ ३८३ द्वितीयः प्रकाशः। प्राणसर्वखदेविन्योमिथश्चम्बोगतागतम् । जयश्रीः श्रीरिवाकार्षीदुत्तमर्णाधमर्णयोः ॥ ३३ ॥ रामभूसंजयाऽऽजप्ता हनूमत्प्रमुखास्ततः । जगाहिरे विषसैन्यं सुरा इव महोदधिम् ॥ ३४ ॥ हताः केऽपि धृताः केऽपि नाशिताः केऽपि राक्षसाः । प्रसरही रामवीरैर्दुरिर्वारणैरिव ॥ ३५ ॥ कुम्भकर्णस्तदाकये क्रुद्धो वहिरिव ज्वलन् । मेघनादच सावेशः प्रविवेश रणाङ्गणम् ॥ २६ ॥ तावापतन्तौ कल्पान्तपवनज्वलनाविव । न हि सोढुमशक्येतां रामसैन्यैर्मनागपि ॥ ३७ ॥ सुग्रीवोऽथ रुषोत्पाव्य शिलामिव शिलोच्चयम् । अक्षिपत्कुम्भकर्णाय सोऽपि तं गदयाऽपिषत् ॥ ३८ ॥ पुनर्गदाप्रहारेण पातयित्वा कपीश्वरम् । कक्षायां न्यस्य पौलस्त्यो लङ्कां प्रत्यचलत्ततः ॥ ३८ ॥ मेघवबिनदमेघनादोऽपि मुदितस्ततः । प्लवङ्गान् लावयामास निशातशरदृष्टिभिः ॥ ४० ॥ डुढौके तिष्ठ तिष्ठेति भाषमाणोऽरुणेक्षणः । रामोऽथ कुम्भकर्णाय मेघनादाय लक्ष्मण: ॥ ४१ ॥ सुग्रीवोऽप्युत्पपाताथ कत्लोजो रावणानुजात् । मुष्टौ धृत: कियत्कालं नतु तिष्ठति पारदः ॥ ४२ ॥ वलितः कुम्भकर्णोऽपि रामेण युयुधे ततः।। सौमित्रिणा मेघनादोऽप्रमादः क्षोभयन् जगत् ॥ ४३ ॥ Page #186 -------------------------------------------------------------------------- ________________ ३८४ योगशास्त्रे मिलितौ रामपौलस्त्यावधी पूर्वापराविव । प्रभातामुत्तरापाच्याविव लक्ष्मणरावणी ॥ ४४ ॥ रावणावरजं रामो रावणिं लक्ष्मण: पुनः । पातयित्वाऽग्रहोत्सत्यं रक्षसामपि राक्षसः ॥ ४५ ॥ रावणेरावणो रोषादशेषकपिकुञ्जरान् ।। पिंषनथाययौ युद्धभुवं भुवनभीषणः ॥ ४६ ॥ अलमार्य ! स्वयं युद्धेनेति राम निवारयन् । सौमित्रिरभ्यमित्रीणो बभूवास्फालयन् धनुः ॥ ४७ ॥ चिरं युवाऽखिलेरस्त्रैरस्त्रविद्रावणस्ततः । जघानामोघया शक्त्या मक्षु वक्षसि लक्ष्मणम् ॥ ४८ शक्त्या भिन्नोऽपतत्क्षोण्यां लक्ष्मणस्तरक्षणादपि।। तथैव सद्यो रामोऽपि बलवच्छोकशङ्खना ॥ ४८ ॥ कृत्वा वप्रान् भटैरष्टो प्राणैरपि हितैषिणः । सुग्रीवाद्यास्ततो रामं सलक्ष्मणमवेष्टयन् ॥ ५० ॥ मरिष्यत्यद्य सौमित्रिस्तदभावे तदग्रजः । किं मुधा मे रणेनेति रावणोऽगात्पुरौं ततः ॥ ५१ ॥ राघवं परितो जात वप्रहारचतुष्टये । सुग्रीवप्रमुखास्तस्थुरारक्षीभूय ते निशि ॥ ५२ ॥ भामण्डलमथोपेत्य दक्षिणहाररक्षणम् । पूर्वसंस्तुत इत्यूचे कोऽपि विद्याधराग्रणीः ॥ ५३ ॥ अयोध्याया योजनेषु हादशस्वस्ति पत्तनम् । कौतुक मङ्गलमिति तत्र द्रोण घनो नृपः ॥ ५४ ॥ Page #187 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । ३८५ कैकेयोनातुरस्यास्ति विशल्या नाम कन्यका। तस्याः नानाम्भसः स्पर्शे शल्यं निर्याति तत्क्षणात् ॥ ५५ ॥ आप्रत्यषालक्ष्मणश्चेत्तत्स्नानपयसोक्ष्यते । गतशल्यस्तदा जीवेदन्यथा तु न जीवति ॥ ५६ ॥ ततो मत्प्रत्ययाद्रामभद्रं विज्ञपय द्रुतम् । कस्यापि दापयादेशं तदानयनहेतवे ॥ ५७ ॥ . त्वयंतां स्वामिकार्याय प्रत्यूषे किं करिष्यथ ।। उदस्ते शकटे हन्त किं कुर्वीत गणाधिपः ॥ ५८ ॥ भामण्डलस्ततो गत्वा तद्रामाय व्यजिज्ञपत् । पादिक्षत्तत्कृते रामस्तमेव हनुमद्युतम् ॥ ५८ ॥ ईयतुस्तौ विमानेनायोध्यां पवनरंहसा। प्रासादाझे ददृशतुः शयानं भरतं ततः ॥ ६ ॥ भरतस्य प्रबोधाय तौ गीतं चक्रतुः कलम् । राजकार्येपि राजान उत्थाप्यन्ते ह्युपायत: ॥ ६१ ॥ विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन् । जचे भामण्डल: कार्य नाप्तस्याप्ते 'प्ररोचना ॥ ६२ ॥ सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तहिमानाधिरूढोऽगात्पुरं कौतुकमङ्गलम् ॥ ६३ ॥ भरतन द्रोणघनो विशल्यामथ याचितः । सहोडाह्य स्त्रीसहस्रसहितां तामदत्त च ॥ ६४ ॥ __(१) क ख च -षु। ४८ Page #188 -------------------------------------------------------------------------- ________________ ३८६ योगशास्त्रे भामण्डलोऽप्ययोध्यायां मुत्वा भरतमुत्सुकः । आययो सपरीवारविशल्यासंयुतस्ततः ॥ ६५ ॥ ज्वलद्दीपविमानस्थो भौतः मूर्योदयभ्रमात् । क्षणं दृष्टो निजः सोऽधादिशल्यामुपलक्ष्मणम् ॥ ६६ ॥ तया च पाणिना स्मृष्टालक्ष्मणात्तत्क्षणादपि । निःसृत्य क्वाप्यगाच्छक्तियष्टिनेव महोरगी ॥ ६७ ॥ तस्याः स्नानाम्भसाऽन्येऽपि रामादेशादथोक्षिताः । निःशल्या जजिरे सैन्याः पुनर्जाता इव क्षणात् ॥ ६८ ॥ अस्याः स्नानाम्भसा मेक्तुं कुम्भकर्णादयोऽपि ते। .. आनीयतामिहेत्युच्चैरादिदेश रघूहहः ॥ ६८ ॥ तदानीमेव तैर्देव प्रव्रज्या जराहे स्वयम् । इति विज्ञपयामासुरारक्षा लक्ष्मणाग्रजम् ॥ ७० ॥ वन्द्यास्तेऽद्य महात्मानो मोच्या मुक्तिपथस्थिताः । इति रामगिराऽऽरक्षनेत्वाऽमुच्यन्त ते क्षणात् ॥ ७१ ॥ विशल्यां कन्यकास्ताश्च तदोपायंस्त लक्ष्मणः । रावणोऽपि रणायागादमर्षणशिरोमणिः ॥ ७२ ॥ प्रणम्य रामं सौमित्रिरुत्तस्थेऽधिज्यकार्मुकः ।। विवाहाद्युत्सवेभ्योऽपि वीराणामुत्सवो रण: ॥ ७३ ॥ यदयदस्त्रं दशग्रीवो विससर्जातिदारुणम् । तत्तच्चिच्छेद सौमित्रिरस्त्रैः कदलिकाण्डवत् ॥ ७४ ॥ अस्त्रच्छेदादथ क्रुद्धश्चक्रं चिक्षेप रावणः । तल्लक्ष्मणोरस्यपतच्चपेटावन धारया ॥ ७५ ॥ Page #189 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । ३८७ तदेवादाय सौमित्री रावणस्याच्छिदच्छिरः । निजाखैरप्यवस्कन्दः पतेत् स्वस्य कदापि हि ॥ ६ ॥ सौता स्वर्णशलाकेव निर्मला शीलशालिनी। रामण जराहे लङ्काराज्ये न्यस्तो बिभीषणः ॥ ७७॥ शत्रु निहत्य ससहोदरदारमित्रो रामो ययावथ निजां नगरीमयोध्याम् । उत्पन्नया परकलत्ररिरंसयाऽपि कृत्वा कुलक्षयमगाबरकं दशास्यः ॥ २७८ ॥ शामा ॥ इति सीतारावणकथानकम् ॥ ८ ॥ तस्मात् । लावण्यपुण्यावयवां पदं सौन्दर्यसम्पदः । कलाकलापकुशलामपि जह्यात्परस्त्रियम् ॥१०॥ दुस्त्यजामपि परस्त्रियं जयात्परिहरेत् । दुस्त्यजत्वे हेतूनाह । लावण्यपुण्यावयवां लावण्यं स्पृहणीयता रूपादिभ्योऽतिरिक्तं तेन पुण्याः पवित्रा अवयवा यस्यास्तां, पदं स्थानं सौन्दर्यसंपदो रूपसम्पदः, कला हासप्ततिलेखाद्याः स्त्रीजनोचिता: तासां कलाप: समूहस्तत्त्र कुशलां प्रवौणाम् । लावण्यं, रूपं, वैदग्धं च परदाराणां दुस्त्यजवे हेतुः । अपि शब्दस्त्रिष्वपि हेतुषु सम्बन्धनीयः ॥ १० ॥ Page #190 -------------------------------------------------------------------------- ________________ ३८८ योगशास्त्रे परस्त्रीगमने दोषानभिधाय परस्त्रीविरतान् प्रशंसति अकलङ्कमनोवृत्तेः परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः सुदर्शनसमुन्नतेः ॥ १०१ ॥ परस्त्रीसन्निधानेऽपि निष्कलङ्कचेतोवृत्तेः सुदर्शनाभिधानस्य महाश्रावकस्य किं ब्रूमः कां स्तुतिं कुर्महे । वचनगोचरातीता स्तुतिरित्यर्थः । सुदर्शनस्य विशेषणं सुदर्शनसमुन्नतेः शोभना दर्शनसमुन्नतिर्यस्मात्तस्य, सुदर्शन प्रभावकस्येत्यर्थः । सुदर्शनश्च संप्रदाय गम्यः । स चायम्– अस्त्यङ्गदेशेऽत्यलकापुरौ चम्पेति तत्र च । दधिवाहन इत्यासीद्राजाऽतिनरवाहनः ॥ १ ॥ अभूत्तस्याभया नाम कलाकौशलशालिनी । महादेवी खलावण्यावज्ञातत्रिदशाङ्गना ॥ २ ॥ इतो नगर्यां तस्यां च समग्रवणिगग्रणीः । श्रेष्ठौ वृषभदासोऽभूदासीनः श्रेष्ठकर्मणि ॥ ३ ॥ यथार्थनामिका जैनधर्मोपासनकर्मणा । अर्हद्दासीति तस्यासीद् वल्लभा शोलशालिनी ॥ ४ ॥ श्रेष्ठिनस्तस्य महिषीरक्षोऽभूत्सुभगाभिधः । अनेषोन्महिषीर्नित्यं स तु चारयितुं वने ॥ ५ ॥ वनात्रिवृत्तः सोऽन्येद्युर्माघमासे दिनात्यये । अपश्यदप्रावरणं कायोत्सर्गस्थितं मुनिम् ॥ ६ ॥ Page #191 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ३८८ अस्यां हिमनिशि स्थाणुरिव यः स्थास्यति स्थिरम् । प्रसौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥ ७॥ . महामुनिमवज्ञातहिमानीपातवेदनम् । तमेव चिन्तयन्नाद्रमना रात्रि निनाय स: ॥ ८ ॥ अविभातविभावयां गृहीत्वा महिषीस्ततः । स ययौ तत्र यत्रासीत् स मुनिः प्रतिमास्थितः ॥ ८ ॥ कल्याणीभक्तिरानम्योपासाञ्चके स तं तदा। अहो नैसर्गिकः कोऽपि विवेकस्तादृशामपि ॥ १० ॥ अत्रान्तरे चण्डरोचिरारोहदुदयाचलम् । श्रया तमिव द्रष्टुं कायोत्सर्गस्थितं मुनिम् ॥ ११ ॥ म नमो अरिहन्ताणमिति वाचमुदीरयन् । हितीय इव चण्डांशुरुत्पपात नभस्तले ॥ १२ ॥ आकाशगामिनी नूनमियं विद्येति बुद्धितः । नमस्कारपदं तं तु सुभगो निदधे हृदि ॥ १३ ॥ जाग्रत्स्वपनटस्तिष्ठन्दिवा निशि ग्राहे बहिः।। तदपाठौत् स उच्छिष्टोऽप्येकग्राहा हि तादृशाः ॥ १४ ॥ ततः पप्रच्छ तं श्रेष्ठी विश्वोत्कृष्ट प्रभावभृत् । प्राप्त पञ्चपरमेष्ठिनमस्कारपदं कुतः ॥ १५ ॥ अशेषं महिषीपालः कथयामास तत्ततः । साधु भोः साधु भट्रेति शसन् श्रेष्ठी जगाद तम् ॥ १६ ॥ अाकाशगमने हेतुरसौ विद्या न केवलम् । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ॥ १७ ॥ Page #192 -------------------------------------------------------------------------- ________________ ३०० योगशास्त्रे यत्किञ्चित्सुन्दरं वस्तु दुष्यापं भुवनत्रये । लीलया प्राप्यते सर्व तदमुष्य प्रभावतः ॥ १८ ॥ अस्य पञ्चपरमेष्ठिनमस्कारस्य वैभवम् । परिमातुं न शक्तोऽस्मि वारि वारिनिधेरिव ॥ १८ ॥ साधु प्राप्तमिदं भद्र तत्त्वया पुण्ययोगतः । किन्तूच्छिष्टैग्रहीतव्यं गुरुनाम न जातुचित् ॥ २० ॥ व्यसनी व्यसनमिव न त्यक्तुं क्षणमप्यदः । अलमस्मीति तेनोक्त: श्रेष्ठी हृष्टोऽब्रवीदिदम् ॥ २१ ॥ तदधीष्वाखिला पञ्चपरमेष्ठिनमस्कियाम् । कल्याणानि यथा ते स्युः परलोकेहलोकयोः ॥ २२ ॥ ततोऽशेषनमस्कारं लब्धार्थमिव 'तडनः । परावर्त्तयताजस्रं सुभगः सुभगाशयः ॥ २३ ॥ महिषीपालकस्यास्य क्षुत्तृष्णावेदनाहरः । परमेष्ठिनमस्कारः प्रकामं समजायत ॥ २४ ॥ एवं तस्य नमस्कारपाठव्यसनिन: सतः । कियत्यपि गते काले वर्षाकाल: समाययौ ॥ २५ ॥ धारानाराचधोरण्या प्रसर्पिण्या निरन्तरम् । अकोलयदिव द्यावापृथिव्यौ नव्यवारिदः ॥ २६ ॥ ग्रहामृहीत्वा महिषी: सुभगोऽपि बहिर्गतः । विनिहत्तोऽन्तराऽपश्यहोरपूरां महानदीम् ॥ २७ ॥ (१) क सबनम् । Page #193 -------------------------------------------------------------------------- ________________ ३८१ हितीयः प्रकाश: । तां दृष्ट्वा स मनाग् भीतस्तस्थौ किञ्चिद्दिचिन्तयन् । नदी तीर्खा परक्षेत्रे महिष्यः प्राविशन्ततः ॥ २८ ॥ नमस्कारं पठन् व्योमयानविद्याधिया ततः। उत्पपात कृतोत्फालो मध्येनदि पपात च ॥ २८ ॥ तत्रान्तःकर्दमं मग्नः खरः खदिरकोलकः । कतान्तदन्तसोदो हृद्यस्य प्रविवेश च ॥ ३० ॥ तथैवावर्तयन् पञ्चपरमेष्ठिनमस्कियाम् । तदा मर्माविधा तेन कालधर्ममियाय सः ॥ ३१ ॥ श्रेष्ठिपत्नयास्तत: सोऽहंहास्याः कुक्षाववातरत् । नमस्काररतानां हि सहतिन विसंवदेत् ॥ ३२ ॥ तस्मिन् गर्भस्थिते मासि तार्तीयौके व्यतीयुषि । श्रेष्ठिनी श्रेष्ठिने खस्य दोहदानित्यचौकथत् ॥ ३३ ॥ गन्धोदकैः सपयितुं विलेप्तुं च विलेपनेः।। अर्चितं कुसुमैरिच्छाम्यहतां प्रतियातनाः ॥ ३४ ॥ प्रतिलम्भयितुं साधूनिच्छाम्याच्छादनादिभिः । संघं पूजयितुं दातुं दौनेभ्यश्च मतिर्मम ॥ ३५ ॥ इत्यादिदोहदांस्तस्याः श्रुत्वा मुदितमानसः । . चिन्तामणिरिव श्रेष्ठिशिरोमणिरपूरयत् ॥ ३६ ॥ ततो नवसु मासेषु दिनेष्वाष्टमेषु च । गतेषु श्रेष्ठिनी पुत्रमसूत शुभलक्षणम् ॥ ३७ ॥ सद्यो महोत्सवं कृत्वा श्रेष्ठी हृष्टः शुभे दिने । सूनोः सुदर्शन इति यथार्थ नाम निर्ममे ॥ ३८ ॥ Page #194 -------------------------------------------------------------------------- ________________ 282 योगशास्त्रे वईमानः क्रमात्यित्रोमनोरथ इवोच्चकैः / सुदर्शनो यथौचित्यं जग्राह सकला: कलाः // 38 // कन्यां मनोरमां नाम मनोरमकुलाकृतिम् / साक्षादिव रमा श्रेष्ठी 'तेन ती पर्यणाययत् // 40 // सौम्यमूर्तिः स हर्षाय पित्रोरेव न केवलम् / जज्ञे राज्ञोऽपि लोकस्य सर्वस्य च शशाश्वत् // 41 // इतो नगया तत्राभूपते हृदयङ्गमः / पुरोधाः कपिल: प्राप्तरोधा विद्यामहोदधेः // 42 // समं सुदर्शनेनास्य मन्मथेन मधोरिव / प्रजायत परा प्रौतिः सर्वदाऽप्यविनखरी // 43 // (युग्मम्) प्रायः सुदर्शनस्यैव स पुरोधा महात्मनः / रौहिणेय इवोणांशोः परिपार्समवर्तत // 44 // कपिलं कपिला नाम भार्या ऽपृच्छत्तमन्यदा।। विस्मरनित्यकर्माणि कियत्कालं नु तिष्ठसे // 45 // , पाचे सुदर्शनस्याहं तिष्ठामीति तदीरिते। कोऽसौ सुदर्शन इति तयोक्तः प्रत्युवाच सः // 46 // मम मित्रं सतां धुयं विचकप्रियदर्शनम् / सुदर्शनं न चेहेसि तत्त्वं वेसि न किञ्चन // 47 // (1) ख च ड तेनाथो-। (2) ख च -स्यैव / (3) क ग त तिष्ठसि /