SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ . ३४१ हितीयः प्रकाशः । त्रियाऽसरायमाणाभीरमणीभिरलङ्गतम् । दिवोऽमरावतीखण्डमिव भ्रष्टमतर्कि सः ॥ ५५ ॥ गन्धर्ववर्गप्रारब्धसङ्गीतकमहोत्सवः । सोऽधादकस्मादुतगन्धर्वनगरश्रियम् ॥ ५६ ॥ ततोऽभयो मद्यपानमूढं निर्माय तस्करम् । परिधाप्य देवदूथे 'अभितल्पमशाययत् ॥ ५७ ॥ मदे परिणते यावदुदस्थात्तावदेक्षत। सोऽकस्माहिस्मयकरीमपूर्वी दिव्यसंपदम् ॥ ५८ ॥ अत्रान्तरेऽभयादिष्टैनरनारीगणैस्ततः । उदचारि जय जय नन्देत्यादिकमङ्गलम् ॥ ५८ ॥ अस्मिन्महाविमाने त्वमुत्पबस्त्रिदशोऽधुना। अस्माकं स्वामिभूतोऽसि त्वदीया: किङ्करा वयम् ॥ ६ ॥ असरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमूचे च तैरसौ ॥ ६१ ॥ जात: सुर: किमस्मोति दध्यौ यावत्स तस्करः । संगीतकार्य तावत्तः प्रदत्त: समहस्तकः ॥ ६२ ॥ उपत्य पुंसा केनापि स्वर्णदण्डभृता ततः । सहसा भोः किमारब्धमेतदेवमभाष्यत ॥ ६३ ॥ ततः प्रतिबभाषे तैः प्रतीहार निजप्रभोः । प्रदर्शयितुमारब्धं स्वकं विज्ञानकोशलम् ॥ ६४ ॥ सोऽप्युवाच स्वनाथस्य दर्श्यतां निजकौशलम् । .. समच अधितल्ल-।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy